श्रवणम्

10.123.4 समानपद
जा॒नन्तो᳚ रू॒पम᳚कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् ।
ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु᳚मस्थुर्वि॒दद्ग᳚न्ध॒र्वो अ॒मृता᳚नि॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒नन्तः᳚ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः᳚ । मृ॒गस्य᳚ । घोष᳚म् । म॒हि॒षस्य᳚ । हि । ग्मन् ।
ऋ॒तेन᳚ । यन्तः᳚ । अधि᳚ । सिन्धु᳚म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता᳚नि । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रा मेधाविनः स्तोतारोऽस्य वेनस्य रूपं जानन्तोऽकृपन्त। स्तुवन्ति। क्रुपतिः स्तुतिकर्मा। कथमस्य रूपं जानन्तीत्यत आह। मृगस्यान्वेषणीयस्य महिषस्य। महन्नामैतत्। महतो वेनस्य घोषं गर्जितलक्षनम् मेघस्थं शब्दं हि यस्माद्ग्मन् अभिगच्छन्ति आतस्तदीयम् रूपं जानन्तीत्यर्थः। गमेश्छान्दसे लङि बहुलं छन्दसीति शपो लुक्। गमहनेत्युपधालोपः। बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः। अपि चर्तेन सत्यभुतेन स्तोत्रेण यज्ञेन वा यम्तस्तं वेनं गच्छन्तः प्राप्नुवन्तो जनाः सिन्धुं स्यन्दनशीलं जलसमूहमध्यस्तुः। अथितिष्ठन्ति। तेषां स वेनो वृष्टिं करोतीत्यर्थः। तत्र किं कारणमिति चेत् यतोऽयं गन्धर्वो गवामुदकानां धर्ता वेनोऽमृतान्यमरनहेतुभूतानि नाम। उदकनामैतत्। नमनशीलान्युदकानि विदत् वेद जानाति। तस्य वशे वर्तन्त इत्यर्थः। अतस्तद्भक्तानां वृष्टिः सुलभा॥४॥