दशमं मण्डलम् - सूक्तम् 57

6 ऋचः

ऋषिः: बंधुः श्रुतबंधुर्विप्रबंधुर्गौपायनाः देवता: विश्वेदेवाः छन्दः: गायत्री

सूक्तम् 10.57 - सम्पूर्णम्

1 / 6
ऋक्: 10.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.57.1
मा प्र गा᳚म प॒थो व॒यं मा य॒ज्ञादि᳚न्द्र सो॒मिनः᳚ ।
मान्तः स्थु᳚र्नो॒ अरा᳚तयः ॥
▶ पदपाठः (Word-by-word)
मा । प्र । गा॒म॒ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिनः᳚ ।
मा । अ॒न्तरिति᳚ । स्थुः॒ । नः॒ । अरा᳚तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मा प्र गामेति षडृचं पञ्चदशं सूक्तं गायत्रं वैश्वदेवम् । ऐक्ष्वाकोऽसमातिर्नाम राजा। तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चेति चत्वारः पुरोहिता आसन्। ते च गौपायनाः। स च राजा तांस्त्यक्त्वान्यौ मायाविनावृषी पुरोहितत्वेनावृणीत। ततो बन्ध्वादयः क्रुद्धाः सन्त इमं राजानमभिचरितवन्तः। एतज्ज्ञात्वा मायामिनौ पुरोहितावेषामन्यतमम् सुबन्धुं प्राणैर्वियोजितवन्तौ। मृतस्यास्य भ्रातरो बन्धुः श्रुतबन्धुर्विप्रबन्धुरित्येतेऽविनाशप्राप्ति हेतुभुतमिदं दृष्ट्वा जपन्ति स्म। अतस्तेऽस्य सूक्तस्यर्षयः। प्रतिपाद्यत्वादावर्तमानं मनो देवता। तथा चानुक्रान्तम्। अथ हैक्ष्वाको राजासमातिर्गौपायनान्बन्ध्वादीन्पुरोहितांस्त्यक्त्वानौ मायाविनौ श्रेष्ठमौ मत्वा पुरोदधे तमितरे क्रुद्धा अभिचेरुः अथ तौ मायाविनौ सुबन्धोः पाणानाचिक्षिपतुरथ हास्य भ्रातरस्त्रयो मा प्र गामेति षट्कं गायत्रं स्वस्त्ययनं जप्त्वेति। अग्निसमीपाद्देशान्तरगमनसमय इदं सूक्तं जप्यम् । सूत्रितं च। प्रव्रजेदनपेक्षमाणो मा प्र गामेति सूक्तं जपन्। आ. २-५। इति। महा पितृयज्ञेऽप्येतदृत्विग्भिर्जप्यम् । सूत्रितं च। मा प्र गामग्नेत्वं न इति जपन्तः। आ. २-१९। इति। निविदः स्थानतिपत्ताविदं सूक्तं शस्त्वा सूक्तान्तए निवित्प्रक्षेप्तव्या। सूत्रितं च । स्थानं चेन्निविदोऽतिहरेन्मा प्र गामेति पुरस्तात्सूक्तं शस्त्वा। आ. ६-६-। इति॥

अत्रोकाख्याने शाट्यायनकम् । असमातिं राथप्रौष्ठं गौपायना अभ्यगमंस्ते खाण्डवे सत्त्रमासताथ हाससातौ राथप्रौष्ठे किलाताकुली ऊषुतुरसुरमायौ तं ह स्मानग्नौ निधायौदनं पचतोऽग्नौ मांसमथासुरान्नं दग्ध्वेक्ष्वा कवः पराबभूवुः। तमसमातिं राथप्रौष्ठं गौपयनानामाहुतयोऽभ्यतपन् सोऽब्रविदिमौ किलाताकुली इमा वै मा गौपायनानामाहुतयोऽभितपन्तीति तावब्रूतां तस्य वा आवामेव भिषजौ स्व आवां प्रायश्चित्तिरावां तथा करिष्यावो यथा न्वेता नाभितपन्तिति। तौ परेत्य सुबन्धोर्गौपायनस्य स्वपतः प्रमत्तस्यासुमाहुत्यान्तः परिधि न्यधत्तामित्यादि। तं सुबन्धोरसुमादातुं खाण्डवादसमातिं प्रतिगच्छन्तो गौपायना वदन्ति। हे इन्द्र वयं गौपायनाः पथः समीचीनान्मार्गान्मा प्र गाम। मा परागच्छाम। असमातिगृहमेव गच्छाम। मा च सोमिनोऽसमातेर्यज्ञात्प्रगाम। मा स्थुर्मा तिष्ठन्तु नोऽस्माकमन्तर्मार्गमध्येऽरातयः शत्रवः। यद्वा। सोमिनः सोमवतो यगान्मा प्रगाम॥१॥

10.57.2
यो य॒ज्ञस्य᳚ प्र॒साध᳚न॒स्तन्तु᳚र्दे॒वेष्वात᳚तः ।
तमाहु᳚तं नशीमहि ॥
▶ पदपाठः (Word-by-word)
यः । य॒ज्ञस्य᳚ । प्र॒॑साध᳚नः । तन्तुः᳚ । दे॒वेषु᳚ । आ॑त᳚तः ।
तम् । आ॑हु᳚तम् । न॒शी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण विस्तृतो यज्ञतो यज्ञस्य प्रसाधनः प्रकर्षॆण साधयिता दैवैः स्तोतृभिर्यत्विग्भिर्विस्तारितो वर्तते वेद्यां तमाहुतं सर्वतो हूयमानं नशीमहि। प्राप्नुयाम। नशतिर्व्याप्तिकर्मा॥२॥

10.57.3
मनो॒ न्वा हु᳚वामहे नाराशं॒सेन॒ सोमे᳚न ।
पि॒तॄ॒णां च॒ मन्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
मनः᳚ । नु । आ । हु॒वा॒म॒हे॒ । ना॒रा॒शं॒सेन᳚ । सोमे᳚न ।
पि॒तॄ॒णाम् । च॒ । मन्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पिण्डपितृयज्ञे मनो न्वा हुवामह इति तृचेन पिण्डाभिमानिनः पितर उपस्थेयाः। सूत्रितं च। मनो न्वा हुवामह इति चतसृभिरथैनान्प्रवाहयेत्। आ. २-७। इति॥

वयं बन्धुश्रुतबन्ध्वादयो मनः सुबन्धोः सम्बन्धि मायाविभिरपहृतं नु क्षिप्रमा हुवामहे। केन साधनेनेति तदुच्यते। नाराशंसेन नाराशंसचमसगतेन सोमेन। नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः। तथाविधेन सोमेन पितॄणामङ्गिरसां मन्मभिर्मगनीयैः स्तोत्रैश्च॥३॥

10.57.4
आ त᳚ एतु॒ मन॒ः पुन॒ः क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ ।
ज्योक्च॒ सूर्यं᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । ए॒तु॒ । मनः᳚ । पुन॒रिति᳚ । क्रत्वे᳚ । दक्षा᳚य । जी॒वसे᳚ ।
ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सम्बन्धो ते मनः पुनरैतु। अभिचरतः सकाशात्पुनरागच्छतु। किमर्थमिति उच्यते। क्रत्वे कर्मणे लौकिकवैदिकविषयाय दक्शाय बलाय च। यद्वा। क्रत्वेऽपानाय दक्षाय प्राणाय। प्राणो वै दक्षोऽपानः क्रतुरिति हि श्रुतिः। जीवसे जीवनाय च। ज्योक्च चिरकालं सूर्यं दृशे। सूर्यं द्रष्टुम् । अत्यन्तं चिरजीवनायेत्यर्थः॥४॥

10.57.5
पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः᳚ ।
जी॒वं व्रातं᳚ सचेमहि ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । नः॒ । पि॒त॒रः॒ । मनः᳚ । ददा᳚तु । दैव्यः᳚ । जनः᳚ ।
जी॒वम् । व्रात᳚म् । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं पितरः पितृभूता अङ्गिरसो जनः। तेषां सङ्घ इत्यर्थः। स च जीवं व्रातं प्राणादीन्द्रियसङ्घातं पुनर्ददातु। तथा दैव्यो जनः। जनशब्दः सङ्घवचनः। देवानां सङ्घोऽपि जीवं व्रातं च ददातु। वयं च तदुभयं सचेमहि। प्राप्नुयाम ॥५॥

10.57.6
व॒यं सो᳚म व्र॒ते तव॒ मन᳚स्त॒नूषु॒ बिभ्र᳚तः ।
प्र॒जाव᳚न्तः सचेमहि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । सो॒म॒ । व्र॒ते । तव᳚ । मनः᳚ । त॒नूषु᳚ । बिभ्र᳚तः ।
प्र॒जा॑व᳚न्तः । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देव वयं बन्ध्वादयस्तव व्रते त्वदीये कर्मणि। व्रतमिति कर्मनाम। तव तनूषु तदीयेष्वङ्गेषु च मनो विभ्रतस्तात्पर्ययुक्तां बुद्धिं धारयन्तः। प्रजावन्तः प्रजाभिः पुत्रपौत्राभिर्युक्ताः सचेमहि। सङ्गच्छेमहि। जीवं व्रातं चेति शेषः॥६॥