श्रवणम्

10.57.5
पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः᳚ ।
जी॒वं व्रातं᳚ सचेमहि ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । नः॒ । पि॒त॒रः॒ । मनः᳚ । ददा᳚तु । दैव्यः᳚ । जनः᳚ ।
जी॒वम् । व्रात᳚म् । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं पितरः पितृभूता अङ्गिरसो जनः। तेषां सङ्घ इत्यर्थः। स च जीवं व्रातं प्राणादीन्द्रियसङ्घातं पुनर्ददातु। तथा दैव्यो जनः। जनशब्दः सङ्घवचनः। देवानां सङ्घोऽपि जीवं व्रातं च ददातु। वयं च तदुभयं सचेमहि। प्राप्नुयाम ॥५॥