दशमं मण्डलम् - सूक्तम् 4

7 ऋचः

ऋषिः: त्रित आप्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.4 - सम्पूर्णम्

1 / 7
ऋक्: 10.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.4.1
प्र ते᳚ यक्षि॒ प्र त᳚ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु ।
धन्व᳚न्निव प्र॒पा अ᳚सि॒ त्वम᳚ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म᳚ । भुवः᳚ । यथा᳚ । वन्द्यः᳚ । नः॒ । हवे᳚षु ।
धन्व᳚न्॑इव । प्र॒॑पा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे᳚ । पू॒रवे᳚ । प्र॒त्न॒ । रा॒ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तुभ्यं हविः प्रयक्षि प्रयच्छामि यजिर्दानार्थः । तथा मन्म मननीयां स्तुतिं हे त्वदर्थं प्रेयर्मि प्रेरयामि । प्रोच्चारयामि वंद्यः सर्वैर्वंदनीयस्त्वं नोस्मदीयेषु हवेषु देवा- ह्वानेषु यथा त्वं सन्निहितोभुवोभवसि तथा हविः प्रयच्छामि स्तौमिच । हे प्रत्न पुराण राजन् सर्वस्य जगतः स्वामिन् हे अग्ने सत्वं इयक्षवे यष्टुमिच्छवे पूरवे पूरुरिति मनुष्य- नाम मनुष्याय यजमानाय यद्वा पूरवे हविर्भिर्देवान् पूरयित्रे जनाय धन्वन् इव प्रपाअ- सि यथा । धन्वन् धन्वनि मरौ निरुदकप्रदेशे प्रपा प्रपिबंत्यत्रेति प्रपा सा यथा उदक- प्रदानेन जनेभ्यः सुखदाभवति एवं त्वं धनदानेन तस्मै सुखदाता भवसि ॥ १ ॥

10.4.2
यं त्वा॒ जना᳚सो अ॒भि सं॒चर᳚न्ति॒ गाव᳚ उ॒ष्णमि᳚व व्र॒जं य᳚विष्ठ ।
दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हा{4}श्च᳚रसि रोच॒नेन᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । जना᳚सः । अ॒भि । स॒म्॑चर᳚न्ति । गावः᳚ । उ॒ष्णम्॑इ᳚व । व्र॒जम् । य॒वि॒ष्ठ॒ ।
दू॒तः । दे॒वाना᳚म् । अ॒सि॒ । मर्त्या᳚नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ युवतमाग्ने यं त्वा त्वां जनासोजनाः यजमानाः फलप्राप्त्यर्थं अभिसंचरन्ति अभितः परिचरन्ति सेवन्ते । तत्र दृष्टान्तः—गावउष्णमिव यथागावः शीतार्ताउष्णं शीत- जनितदुःखापनोदनार्थं उष्णं व्रजं गोष्ठमभिगच्छंति । सत्वं देवानामिन्द्रादीनां मर्त्यानां मनु- ष्याणां च दूतोसि हविः प्रापणद्वारा । ततोमहांस्त्वं अन्तः द्यावापृथिव्योर्मध्ये हवींष्या- दाय रोचनेनांतरिक्षेण लोकेन चरसि गच्छसि तं त्वां स्तुमइतिशेषः ॥ २ ॥

10.4.3 समानपद
शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि᳚भर्ति सचन॒स्यमा᳚ना ।
धनो॒रधि᳚ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव᳚सृष्टः ॥
▶ पदपाठः (Word-by-word)
शिशु᳚म् । न । त्वा॒ । जेन्य᳚म् । व॒र्धय᳚न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा᳚ना ।
धनोः᳚ । अधि᳚ । प्र॒॑वता᳚ । या॒सि॒ । हर्य᳚म् । जिगी᳚षसे । प॒शुः॑इ᳚व । अव᳚॑सृष्टः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जेन्यं जयशीलं त्वा त्वां शिशुंन पुत्रमिव वर्धयन्ती पोषयन्ती माता पृथिवी सचनस्यमाना संपर्कमिच्छन्ती सती बिभर्ति धारयति । सत्वं हर्यन् कामयमानः तस्मिन् लोके धनोरधि अधिः सप्तम्यर्थद्योतकः धनोः अन्तरिक्षात् प्रवता प्रवणेन मार्गेण यासि यज्ञं प्रत्यागच्छसि । किंच त्वं अवसृष्टो यष्टृभिः हविरादाय जिगीषसे देवान् प्रतिगन्तु- मिच्छसि । कथमिव पशुरिव यथा विमुक्तः पशुः गोष्ठं प्रत्यागच्छति तद्वत् ॥ ३ ॥

10.4.4
मू॒रा अ᳚मूर॒ न व॒यं चि᳚कित्वो महि॒त्वम᳚ग्ने॒ त्वम॒ङ्ग वि᳚त्से ।
शये᳚ व॒व्रिश्चर᳚ति जि॒ह्वया॒दन्रे᳚रि॒ह्यते᳚ युव॒तिं वि॒श्पति॒ः सन् ॥
▶ पदपाठः (Word-by-word)
मू॒राः । अ॒मू॒र॒ । न । व॒यम् । चि॒कि॒त्वः॒ । म॒हि॒॑त्वम् । अ॒ग्ने॒ । त्वम् । अ॒ङ्ग । वि॒त्से॒ ।
शये᳚ । व॒व्रिः । चर᳚ति । जि॒ह्वया᳚ । अ॒दन् । रे॒रि॒ह्यते᳚ । यु॒व॒तिम् । वि॒श्पतिः᳚ । सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमूर अमूढ अतएव चिकित्वः चेतनावन् हे अग्ने मूरामूढावयं तव माहात्मयं नजानीमः । किंतु हे अग्ने त्वमंग अंगेतिनिपातएवार्थे त्वमेव तव महित्वं माहात्म्यं वित्से जानासि त्वत्तः कोन्योवेदितुमर्हति । किंच वव्रिः जीर्णओषधीसंगः शये शेते तिष्ठति । यद्वा वव्रिरिति रूपनाम सामर्थ्याच्चान्तर्णीतमत्वर्थं द्रष्टव्यं आहवनीयाख्येन रूपेण रूपवान् शये चरति । अथ जिह्वया जिह्वाज्वालाख्यया अदन् हवींषि भक्षयन् चरति वाक्यभेदा-दनिघातः । किंच विश्पतिः विशां स्वामीसन्नग्निर्युवतिं आत्मनोमिश्रयित्रीमाहुतिं दीर्घप्र- सृतया ज्वालया जिह्वया रेरिह्यते अत्यर्थं लेढि आस्वादयति । लिह आस्वादने यङि रूपम् । यद्वा सोग्निर्युवतिं तरुणीं जिर्णौषधिकां पृथिवीं आस्वादयति ॥ ४ ॥

10.4.5
कूचि᳚ज्जायते॒ सन᳚यासु॒ नव्यो॒ वने᳚ तस्थौ पलि॒तो धू॒मके᳚तुः ।
अ॒स्ना॒तापो᳚ वृष॒भो न प्र वे᳚ति॒ सचे᳚तसो॒ यं प्र॒णय᳚न्त॒ मर्ता᳚ः ॥
▶ पदपाठः (Word-by-word)
कू॑चि᳚त् । जा॒य॒ते॒ । सन᳚यासु । नव्यः᳚ । वने᳚ । त॒स्थौ॒ । प॒लि॒तः । धू॒म॑के᳚तुः ।
अ॒स्ना॒ता । आपः᳚ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । स॑चे᳚तसः । यम् । प्र॒॑नय᳚न्त । मर्ताः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नव्योनवतरः स्तुत्योवाग्निः कूचित् क्वचित् प्रदेशे जायते कुत्र सनयासु पुराणीषु जी- र्णास्वोषधीषु अरण्योः तथा पलितः पालयिताश्वेतवर्णोधूमकेतुः धूमप्रज्ञानोग्निः वने सर्व- स्मिन्नरण्ये तस्थौ तिष्ठति । यद्वा वने उदके मेघगते विद्युदात्मना तिष्ठतिच अस्नाता स्ना- नमकुर्वन् अनपेक्षितस्नानः सर्वदा शुद्धः सोग्निः आपः सुब् व्यत्ययः अपउदकानि शांत्यर्थं प्रवेति प्रगच्छति । तत्र दृष्टान्तः—वृषभोन यथावृषभः तृष्णोपशमनार्थमरण्यमध्यस्थान्युद- कानि प्रगच्छति तद्वत् मर्ता मनुष्यारुत्विजः सचेतसः समानमनस्काः समानप्रज्ञानाः सन्तः यमग्निं प्रणयन्त हविर्भिः प्रीणयन्ति ॥ ५ ॥

10.4.6
त॒नू॒त्यजे᳚व॒ तस्क᳚रा वन॒र्गू र᳚श॒नाभि᳚र्द॒शभि᳚र॒भ्य᳚धीताम् ।
इ॒यं ते᳚ अग्ने॒ नव्य᳚सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय᳚द्भि॒रङ्गै᳚ः ॥
▶ पदपाठः (Word-by-word)
त॒नू॒त्यजा᳚॑इव । तस्क᳚रा । व॒न॒र्गू इति᳚ । र॒श॒नाभिः᳚ । द॒श॑भिः᳚ । अ॒भि । अ॒धी॒ता॒म् ।
इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य᳚सी । म॒नी॒षा । यु॒क्ष्व । रथ᳚म् । न । शु॒चय᳚त्॑भिः । अङ्गैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वनर्गू वनगामिनौ तनूत्यजेव चौर्ये मर्तुं क्रुतनिश्चयो धृष्टौ तस्करा तस्करौ य- था पथिकं मोषणार्थं रज्ज्वा बध्वाकृष्यच क्वचित् प्रदेशे स्थापयतः तद्वत् । तथायास्कः— तनूत्यक् तनूत्यक्तावनर्गूवनगामिनावग्निमंथनौबाहूतस्कराभ्यामुपमिमीतेइत्यादि । रशनाभिः दशभिरंगुलिभिः कृत्वा रज्जुभिः अभ्यधीतां अभ्यधायि । अधीतां दधातेर्लुङि सिचोलुकि छन्दस्युभयथेति तसआर्धधातुकत्वेन ङित्वाद्घुमास्थेतीकारः । ततः हे अग्ने ते त्वदर्थं नव्यसी नवतरा इयं मनीषा स्तुतिः मया क्रियते एतत् ज्ञात्वा शुचयद्भिः सर्वं प्रकाश- यद्भिः आत्मीयैरंगैस्तेजोभि आत्मानं मदीयं यज्ञं प्रति युक्ष्व योजय । कथमिव रथंन यथारथमश्वैः संयोजयंति तद्वत् ॥ ६ ॥ उखासंभरणीयेष्टौर्ग्नेर्ब्रह्मण्ववतोयाज्या ब्रह्मचतइत्येषा । सूत्रितंच—ब्रह्मचतेजातवेदोन- मश्चपुरूण्यग्नेपुरुधात्वायेति ।

10.4.7
ब्रह्म᳚ च ते जातवेदो॒ नम᳚श्चे॒यं च॒ गीः सद॒मिद्वर्ध᳚नी भूत् ।
रक्षा᳚ णो अग्ने॒ तन᳚यानि तो॒का रक्षो॒त न᳚स्त॒न्वो॒३॒᳚ अप्र᳚युच्छन् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚ । च॒ । ते॒ । जा॒त॒॑वे॒दः॒ । नमः᳚ । च॒ । इ॒यम् । च॒ । गीः । सद᳚म् । इत् । वर्ध᳚नी । भू॒त् ।
रक्ष᳚ । नः॒ । अ॒ग्ने॒ । तन᳚यानि । तो॒का । रक्ष᳚ । उ॒त । नः॒ । त॒न्वः᳚ । अप्र᳚॑युच्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातप्रज्ञाग्ने ते त्वदर्थं ब्रह्मास्माभिर्दीयमानं हवीरूपमद्भुतमन्नं वर्धनीभूत् भवतु । तथा नमोनमस्कारश्च । किंच इयमिदानींक्रियमाणा एषा स्तुतिः सदमित् सदैव वर्धयित्री भूत् भवतु । तस्मात् हे अग्ने नोस्माकं तनयानि पुत्रान् तोकापौत्रांश्च रक्ष पालय । उतापिच अप्रयुच्छन् अप्रमाद्यंस्त्वं नोस्माकं तन्वोंगानि रक्ष ॥ ७ ॥

एकः समुद्रइति सप्तर्चं पञ्चमं सूक्तं ऋष्याद्याः पूर्ववत् विनियोगश्च एकइत्यनुक्रान्तम् ।