त॒नू॒त्यजे᳚व॒ तस्क᳚रा वन॒र्गू र᳚श॒नाभि᳚र्द॒शभि᳚र॒भ्य᳚धीताम् ।
इ॒यं ते᳚ अग्ने॒ नव्य᳚सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय᳚द्भि॒रङ्गै᳚ः ॥
इ॒यं ते᳚ अग्ने॒ नव्य᳚सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय᳚द्भि॒रङ्गै᳚ः ॥
पदपाठः (Word-by-word)
त॒नू॒त्यजा᳚॑इव । तस्क᳚रा । व॒न॒र्गू इति᳚ । र॒श॒नाभिः᳚ । द॒श॑भिः᳚ । अ॒भि । अ॒धी॒ता॒म् ।
इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य᳚सी । म॒नी॒षा । यु॒क्ष्व । रथ᳚म् । न । शु॒चय᳚त्॑भिः । अङ्गैः᳚ ॥
इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य᳚सी । म॒नी॒षा । यु॒क्ष्व । रथ᳚म् । न । शु॒चय᳚त्॑भिः । अङ्गैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने वनर्गू वनगामिनौ तनूत्यजेव चौर्ये मर्तुं क्रुतनिश्चयो धृष्टौ तस्करा तस्करौ य- था पथिकं मोषणार्थं रज्ज्वा बध्वाकृष्यच क्वचित् प्रदेशे स्थापयतः तद्वत् । तथायास्कः— तनूत्यक् तनूत्यक्तावनर्गूवनगामिनावग्निमंथनौबाहूतस्कराभ्यामुपमिमीतेइत्यादि । रशनाभिः दशभिरंगुलिभिः कृत्वा रज्जुभिः अभ्यधीतां अभ्यधायि । अधीतां दधातेर्लुङि सिचोलुकि छन्दस्युभयथेति तसआर्धधातुकत्वेन ङित्वाद्घुमास्थेतीकारः । ततः हे अग्ने ते त्वदर्थं नव्यसी नवतरा इयं मनीषा स्तुतिः मया क्रियते एतत् ज्ञात्वा शुचयद्भिः सर्वं प्रकाश- यद्भिः आत्मीयैरंगैस्तेजोभि आत्मानं मदीयं यज्ञं प्रति युक्ष्व योजय । कथमिव रथंन यथारथमश्वैः संयोजयंति तद्वत् ॥ ६ ॥ उखासंभरणीयेष्टौर्ग्नेर्ब्रह्मण्ववतोयाज्या ब्रह्मचतइत्येषा । सूत्रितंच—ब्रह्मचतेजातवेदोन- मश्चपुरूण्यग्नेपुरुधात्वायेति ।