दशमं मण्डलम् - सूक्तम् 148

5 ऋचः

ऋषिः: पृथुर्वैन्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.148 - सम्पूर्णम्

1 / 5
ऋक्: 10.148.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.148.1
सु॒ष्वा॒णास᳚ इन्द्र स्तु॒मसि᳚ त्वा सस॒वांस᳚श्च तुविनृम्ण॒ वाज᳚म् ।
आ नो᳚ भर सुवि॒तं यस्य᳚ चा॒कन्त्मना॒ तना᳚ सनुयाम॒ त्वोता᳚ः ॥
▶ पदपाठः (Word-by-word)
सु॒स्वा॒नासः᳚ । इ॒न्द्र॒ । स्तु॒मसि᳚ । त्वा॒ । स॒स॒॑वांसः᳚ । च॒ । तु॒वि॒॑नृ॒म्ण॒ । वाज᳚म् ।
आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य᳚ । चा॒कन् । त्मना᳚ । तना᳚ । स॒नु॒या॒म॒ । त्वा॑ऊ᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुष्वाणास इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च। सुष्वाणासः प्रुथुर्वैन्य इति। गतो विनियोगः॥

हे इन्द्र सुष्वाणासः सोममभिषुतवन्तो वयं त्वां स्तुमसि। स्तुमः। हे तुविनृम्ण बहुलधन वाजं चरुपुरॊडाशादिलक्षणमन्नं ससवांसः सम्भक्तवन्तश्च वयं त्वां स्तुमः। यत एवमतो हेतोर्नोऽस्मभ्यं सुवितं सुष्ठु प्राप्तव्यं शोभनं धनमा भर। आहर। प्रयच्छ। यद्वा। यस्य युद्धनमतिप्रियत्वेन चाकन् त्वं कामयसे तद्धनमा भरेत्यर्थः। वयं च त्वोतास्त्वया रक्शिताः सन्तस्तना। धननामैतत्। विस्तृतानि धनानि त्मनात्मना स्वयमेवान्यनैरपेक्ष्येणैव सनुयाम। तव प्रसादालाभेमहि॥१॥

10.148.2 समानपद
ऋ॒ष्वस्त्वमि᳚न्द्र शूर जा॒तो दासी॒र्विश॒ः सूर्ये᳚ण सह्याः ।
गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु बि᳚भृ॒मसि᳚ प्र॒स्रव᳚णे॒ न सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः᳚ । विशः᳚ । सूर्ये᳚ण । स॒ह्याः॒ ।
गुहा᳚ । हि॒तम् । गुह्य᳚म् । गू॒ळ्हम् । अ॒प्॑सु । बि॒भृ॒मसि᳚ । प्र॒॑स्रव᳚णे । न । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर शौर्यवन्निन्द्र ऋष्वो महान्दर्शनीयो वा त्वं जातो जातमात्र एव दासीः। उपक्शयकारिणो दासा असुराः। तत्संबन्धिनीर्विशः प्रजाः सूर्येण सूर्यात्मना सह्याः। अभ्यभवः। तथा गुहा गुहायां हितं निहितं आत एव गुह्यमदृश्यं वलख्यमसुरमप्सूदकेषु गूधं निगूढं कयवाख्यं च त्वमभिभुतवानसि। वयमपि प्रस्रवणे प्रवर्षणे सति। नः सम्प्रत्यर्थे। सम्प्रति सोमं बिभृमसि। त्वदर्थं बिभृमः। धारयामः॥२॥

10.148.3 समानपद
अ॒र्यो वा॒ गिरो᳚ अ॒भ्य᳚र्च वि॒द्वानृषी᳚णां॒ विप्र᳚ः सुम॒तिं च᳚का॒नः ।
ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ॥
▶ पदपाठः (Word-by-word)
अ॒र्यः । वा॒ । गिरः᳚ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी᳚णाम् । विप्रः᳚ । सु॒॑म॒तिम् । च॒का॒नः ।
ते । स्या॒म॒ । ये । र॒णय᳚न्त । सोमैः᳚ । ए॒ना । उ॒त । तुभ्य᳚म् । र॒थ॒॑ओ॒ळ्ह॒ । भ॒क्षैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रो मेधाव्यृषीणां मन्त्रदर्शिनां सुमतिं सुष्तुतिं चकानः कामयमानो विद्वाञ्जानन्नर्यो वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं गिरः स्तोतॄन् स्तुतीर्वाभ्यर्च। सम्यक्स्तुतमित्यभिपूजय। अपि च ते वयं स्याम भवेम ये सोमैस्त्वां रणयन्त रमयन्ति। उतापि च हे रथोळ्ह रथैरभ्युह्यमान। आ ऊढ ओढः। रथेन ओढो रथोढः। ओमाङोश्च। पा. ६-१-९५। इति पररूपम्। ईदृशेन्द्र भक्षैर्भक्षणीयैश्वरुपुरोडाशादिभिः सार्धमेनेमानि स्तोत्राणि तुभ्यं त्वदर्थं क्रियन्ते॥३॥

10.148.4 समानपद
इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः᳚ ।
तेभि᳚र्भव॒ सक्र᳚तु॒र्येषु᳚ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्म᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । शं॒सि॒ । दाः । नृ॑भ्यः᳚ । नृ॒णाम् । शू॒र॒ । शवः᳚ ।
तेभिः᳚ । भ॒व॒ । स॑क्र᳚तुः । येषु᳚ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वदर्थमिमेमानि पुरोवर्तीनि ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि शंसि। अशंसिषत। शस्यन्ते। शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे शूर शौर्यवन्निन्द्र त्वं नृणां मनुश्याणां मध्ये नृभ्यः स्तुत्यादेर्नेतृभ्यः शवोबलं दाः। देहि। अपि च तेभिस्तैः सक्रतुः समानकर्मा समानप्रज्ञो वा भव येषु स्तोतृषु चाकन् हविरादि कामयसे। कन दीप्तिकान्तिगतिषु। अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत्। कमेर्वा पूर्ववत्। सिपि मो नो धातोरिति नत्वम्। उतापि च गृणतः स्तोतॄंस्त्रायस्व। पालय। उतापि च स्तीन्। स्त्यायतेरेतद्रूपम्। सङ्घीभूय स्थितान्यजमानानपि त्रायस्व॥४॥

10.148.5
श्रु॒धी हव᳚मिन्द्र शूर॒ पृथ्या᳚ उ॒त स्त᳚वसे वे॒न्यस्या॒र्कैः ।
आ यस्ते॒ योनिं᳚ घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्न निम्नैर्द्र᳚वयन्त॒ वक्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । हव᳚म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः᳚ । उ॒त । स्त॒व॒ते॒ । वे॒न्यस्य᳚ । अ॒र्कैः ।
आ । यः । ते॒ । योनि᳚म् । घृ॒त॑व᳚न्तम् । अस्वाः᳚ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूरेन्द्र पृथ्याः पृथोरृषेर्मम हवमाह्वानं श्रुधि। शृणु। उतापि च वेन्यस्य वेनपुत्रस्य ममार्कैर्मन्त्रैः स्तवसे। स्तूयसे। यकि प्राप्ते व्यत्ययेन शप्। यः स्तोता घृतवन्तमुदकवन्तं ते तव योनिं निवासभूमिमास्वाः अभ्यस्वार्षीत् अभ्यष्टौत्। स्वृशब्दोपतापयोः। अस्माल्लुङि तिपि बहुलम् छन्दसीतीडभावे हल्ङ्यादिलोपे च रात्सस्येति सलोपः। यद्वा। घृतवन्तमाज्यादिना हविषोपेतं योनिम् । गृहनामैतत्। यज्ञगृहं प्राप्यते त्वां योऽभिष्टौति तस्य वेन्यस्यार्कैरित्यन्वयः। अपि च वक्त्वा वक्वानः। वचेरन्येभ्योऽपि दृश्यन्त इति वनिप्। अन्त्यविकारश्छान्दसः। जसि पृषोदरादित्वाद्वर्णलोपः। अन्येऽपि सर्वे स्तोतारो निम्नैः प्रवणैर्मार्गैरूर्मिर्नोदकसङ्घ इव द्रवयन्त। स्तुतिभिस्त्वामेवाभिद्रवन्ति। अभिगच्छन्ति॥५॥