दशमं मण्डलम् - सूक्तम् 31

11 ऋचः

ऋषिः: कवष ऐलूषः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 10.31 - सम्पूर्णम्

1 / 11
ऋक्: 10.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.31.1
आ नो᳚ दे॒वाना॒मुप᳚ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव᳚से॒ यज᳚त्रः ।
तेभि᳚र्व॒यं सु᳚ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दे॒वाना᳚म् । उप᳚ । वे॒तु॒ । शंसः᳚ । विश्वे᳚भिः । तु॒रैः । अव᳚से । यज᳚त्रः ।
तेभिः᳚ । व॒यम् । सु॒॑स॒खायः᳚ । भ॒वे॒म॒ । तर᳚न्तः । विश्वा᳚ । दुः॒॑इ॒ता । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां स्तोतॄणां नोस्माकं शंसः स्तोतव्यः यजत्रोयष्टव्यः एवंभूतः इन्द्रः तुरैः त्वरण- शीलैः विश्वेभिः सर्वैर्मरुद्भिः सह अवसे अस्मद्यज्ञरक्षणार्थं आउपवेतु उपागच्छतु । वयमपि तेभिस्तैः सह सुसखायः शोभनसखायः स्याम भवेम । किञ्च विश्वा दुरिता विश्वानि दु- रितानि पापानि तरन्तः स्याम ॥ १ ॥

10.31.2
परि᳚ चि॒न्मर्तो॒ द्रवि᳚णं ममन्यादृ॒तस्य᳚ प॒था नम॒सा वि᳚वासेत् ।
उ॒त स्वेन॒ क्रतु᳚ना॒ सं व᳚देत॒ श्रेयां᳚सं॒ दक्षं॒ मन᳚सा जगृभ्यात् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । चि॒त् । मर्तः᳚ । द्रवि᳚णम् । म॒म॒न्या॒त् । ऋ॒तस्य᳚ । प॒था । नम᳚सा । आ । वि॒वा॒से॒त् ।
उ॒त । स्वेन᳚ । क्रतु᳚ना । सम् । व॒दे॒त॒ । श्रेयां᳚सम् । दक्ष᳚म् । मन᳚सा । ज॒गृ॒भ्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्तोमनुष्योयजमानः परिचित्सर्वतः द्रविणं विश्वेषां देवानां यागार्थं धनं ममन्यात् म- न्यात् मन्यतिः कान्तिकर्मा कामयेत लब्धुमिच्छेत् धनं लब्ध्वा च ऋतस्य यज्ञस्य पथा मार्गेण नमसा हविराख्येनान्नेन आविवासेत् परिचरेत् । उतापिच स्वेनात्मीयेन क्रतुनां प्र- ज्ञानेन मनसेत्यर्थः संवदेत संवादोत्र सम्यग्ध्यानमुच्यते हविर्गृहीत्वा वषट्करिष्यन् विश्वा न्देवान्मनसा ध्यायेदित्यर्थः । विश्वेषां देवानां यागानन्तरं च तत्प्रसादात् श्रेयांसमतिशयेन प्रशस्यमात्मानं दक्षं प्रवृद्धं सर्वव्यापिनं मनसा ध्यानसाधनेनान्तःकरणेन जगृभ्यात् गृह्णी- यात् ॥ २ ॥

10.31.3
अधा᳚यि धी॒तिरस᳚सृग्र॒मंशा᳚स्ती॒र्थे न द॒स्ममुप᳚ य॒न्त्यूमा᳚ः ।
अ॒भ्या᳚नश्म सुवि॒तस्य᳚ शू॒षं नवे᳚दसो अ॒मृता᳚नामभूम ॥
▶ पदपाठः (Word-by-word)
अधा᳚यि । धी॒तिः । अस᳚सृग्रम् । अंशाः᳚ । ती॒र्थे । न । द॒स्मम् । उप᳚ । य॒न्ति॒ । ऊमाः᳚ ।
अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य᳚ । शू॒षम् । नवे᳚दसः । अ॒मृता᳚नाम् । अ॒भू॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीतिः देवयागक्रिया अधायि निहिता स्थापिता अस्माभिः प्रवर्तितेत्यर्थः तदनन्तरं ऊमाः अवितारः तर्पयितारः अंशाः अस्माभिर्दत्ताः हविर्भागाः दस्मं दर्शनीयं शत्रूणामुप- क्षपयितारं वा अससृग्रं असमानसृष्टिं उग्रजन्मानमित्यर्थः एवंभूतं देवसंघं उपयन्ति उप गच्छन्तु । तत्र दृष्टान्तः—तीर्थे न यथा गंगादितीर्थे तर्पणमुखेन विसृष्टाअपामंशादेवस्ंघमुप गच्छन्ति तद्वत् । तदनन्तरं वयं सुवितस्य सुइतस्य सुष्ठु प्राप्तस्य स्वर्गादिकस्य शूषं सुखं अभ्यानश्म अभिप्राप्नवाणि किञ्च वयं अमृतानां देवानां नवेदसोनवेदेत्येतस्मिन्नर्थे नवेदः शब्दोनभ्राण्नपान्नवेदाइति निपातितः न न वेत्तारः वेत्तारएव स्वरूपतोज्ञातारएवेत्यर्थः अभूम भवेमेत्याशास्महे ॥ ३ ॥

10.31.4
नित्य᳚श्चाकन्या॒त्स्वप᳚ति॒र्दमू᳚ना॒ यस्मा᳚ उ दे॒वः स᳚वि॒ता ज॒जान᳚ ।
भगो᳚ वा॒ गोभि᳚रर्य॒मेम᳚नज्या॒त्सो अ᳚स्मै॒ चारु᳚श्छदयदु॒त स्या᳚त् ॥
▶ पदपाठः (Word-by-word)
नित्यः᳚ । चा॒क॒न्या॒त् । स्व॑प᳚तिः । दमू᳚नाः । यस्मै᳚ । ऊं॒ इति᳚ । दे॒वः । स॒वि॒ता । ज॒जान᳚ ।
भगः᳚ । वा॒ । गोभिः᳚ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः᳚ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नित्यः कल्पावस्थायी प्रजापतिः चाकन्यात् तस्मै दृष्टादृष्टफलं चाकनतु कामयताम् । कीदृशः स्वपतिः स्वीयानां प्रजानां स्वामी धनपतिर्वा दमूनाः दानमनाः । कस्मै कामय- तामिति उच्यते । उ अपिच यस्मै यजमानाय सह्यं सविता सर्वस्य प्रेरकोदेवः जजान जनितवान् दृष्टादृष्टफलं दत्तवानित्यर्थः । वाशब्दः समुच्चये । तथा भगोदेवश्च गोभिरस्मदी याभिः स्तुतिरूपाभिर्वाग्भिः अर्यमादेवश्च ईमीदृग्भूतं दृष्टदृष्टफलं अनज्यात् व्यक्तीकुर्यात् दद्यादित्यर्थः । उतापिच स्यात् अन्योपि योदेवगणोस्ति चारुः रमणीयः सोपिदेवगणः अस्मै यजमानाय मह्यं छदयत् दृष्टदृष्टफलं दातुं कामयतामित्येतदाशास्महे ॥ ४ ॥

10.31.5 समानपद
इ॒यं सा भू᳚या उ॒षसा᳚मिव॒ क्षा यद्ध᳚ क्षु॒मन्त॒ः शव᳚सा स॒माय᳚न् ।
अ॒स्य स्तु॒तिं ज᳚रि॒तुर्भिक्ष᳚माणा॒ आ नः᳚ श॒ग्मास॒ उप᳚ यन्तु॒ वाजा᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । सा । भू॒याः॒ । उ॒षसा᳚म्॑इव । क्षाः । यत् । ह॒ । क्षु॒॑मन्तः᳚ । शव᳚सा । स॒म्॑आय᳚न् ।
अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष᳚माणाः । आ । नः॒ । श॒ग्मासः᳚ । उप᳚ । य॒न्तु॒ । वाजाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षुमन्तः क्षुशब्दोन्नवाची शब्दवाची वा अन्नवन्तः स्तुतिमन्तः कीर्तिमन्तोवेत्यर्थः एवं- भूताः देवाः शवसा बलेन यत् यामस्मदीयां स्तुतिं प्रतिसमायन् समागच्छन्संप्राप्ताः सेयं स्तुतिर्देवानां प्राप्याभूयाः भूयात् भवतु उषसामिवक्षाः यथा पृथिवी उषसां व्याप्ता सर्वे- षां प्राप्या भवति तद्वत् । किञ्च जरितुः स्तोतुरस्य मम स्तुतिं भिक्षमाणाः याचमानाः शग्मासः शग्ममिति सुखनाम सुखाः सुखकराः वाजाः सुधन्वनः पुत्राः त्रयोप्यृभुर्विभ्वावा जइत्येते नोस्मानाभिमुख्येन उपयन्तु उपगच्छन्तु ॥ ५ ॥

10.31.6
अ॒स्येदे॒षा सु᳚म॒तिः प᳚प्रथा॒नाभ᳚वत्पू॒र्व्या भूम᳚ना॒ गौः ।
अ॒स्य सनी᳚ळा॒ असु᳚रस्य॒ योनौ᳚ समा॒न आ भर᳚णे॒ बिभ्र᳚माणाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ए॒षा । सु॒॑म॒तिः । प॒प्र॒था॒ना । अभ᳚वत् । पू॒र्व्या । भूम᳚ना । गौः ।
अ॒स्य । स॑नी᳚ळाः । असु᳚रस्य । योनौ᳚ । स॒मा॒ने । आ । भर᳚णे । बिभ्र᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत् इदानीं अस्य देवगणस्य संबंधिनी एषा सुमतिः सुष्टु स्तुतिः पप्रथाना भवत् वि- स्तीर्यमाणाभूत् अस्माभिः क्रियमाणाइत्यर्थः । कीदृशी पूर्व्या पूर्वकालीना भूमना भूम्ना ब- हुत्वेन युक्तेतिशेषः सर्वदेवसंबंधित्वात् भृशं जातेत्यर्थः गौः देवान्प्रति गन्त्री एतज्ज्ञात्वा सर्वे देवाअसुरस्य प्रजारूपबलवतः अस्य मम संबंधिनि समाने सर्वदेवसाधारणे भरणे सर्वेषां देवानां पुष्टिकरणे योनौ यज्ञाख्ये स्थाने सनीळाः समानस्थानाः बिभ्रमाणाः अस्म दर्थं दृष्टादृष्टफलं धारयन्तः आगच्छन्त्विति शेषः ॥ ६ ॥

10.31.7
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि᳚ष्टत॒क्षुः ।
सं॒त॒स्था॒ने अ॒जरे᳚ इ॒तऊ᳚ती॒ अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ॥
▶ पदपाठः (Word-by-word)
किम् । स्वि॒त् । वन᳚म् । कः । ऊं॒ इति᳚ । सः । वृ॒क्षः । आ॒स॒ । यतः᳚ । द्यावा᳚पृथि॒वी इति᳚ । निः॒॑त॒त॒क्षुः ।
स॒न्त॒स्था॒ने इति᳚ स॒म्॑त॒स्था॒ने । अ॒जरे॒ इति᳚ । इ॒तऊ᳚ती॒ इती॒तः॑ऊ᳚ती । अहा᳚नि । पू॒र्वीः । उ॒षसः᳚ । ज॒र॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यतः यस्माद्वृक्षात् द्यावापृथिवी द्यावापृथिव्यौ निष्टतक्षुः देवाः निःशेषेण कृतवन्तः स तादृशोवृक्षः कउ आस कीदृग्वा बभूव तदुत्पादकं वनमरण्यं किंस्वित् सन्तस्थाने सम्यक् तिष्ठन्त्यौ अजरे जरावर्जिते इतऊती इतः एतेभ्योदेवेभ्योरक्षणं ययोस्ते । किञ्च अहानि स- र्वाणि दिनानि पूर्वीर्बह्वीरुषसश्च देवाः निष्टतक्षुः एवंभूतान्देवान् जरन्तः स्तोतारः स्तुव- न्ति ॥ ७ ॥

10.31.8 समानपद
नैताव᳚दे॒ना प॒रो अ॒न्यद᳚स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि᳚भर्ति ।
त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
न । ए॒ताव᳚त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा᳚पृथि॒वी इति᳚ । बि॒भ॒र्ति॒ ।
त्वच᳚म् । प॒वित्र᳚म् । कृ॒णु॒त॒ । स्व॒धा॑वा᳚न् । यत् । ई॒म् । सूर्य᳚म् । न । ह॒रितः᳚ । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावापृथिव्योः निर्माणरूपं एतावद्देवजातं सामर्थ्येन युक्तं इति न अपितु एना एतेभ्यो देवेभ्यः परः उत्कृष्टः अन्यदन्योहिरण्यगर्भोस्ति उक्षा सेक्ता प्रजानां स्रष्टेत्यर्थः हिरण्यगर्भः परमसूक्ष्मोवायुरूपोलिङ्गात्मापः प्रविश्य द्यावापृथिवी द्यावापृथिव्यौ बिभर्ति धारयति । किञ्च स्वधावान् बलवान् अन्नवान्वा सहिरण्यगर्भः पवित्रं पवित्रमयं त्वचं आत्मीयं शरी रं दीप्तं मन्त्रं वा कृणुत करोति । कदेति उच्यते—यद्यदा ईमिमां त्वचं हरितोश्वाः सूर्यं न वहन्ति न प्रापयन्ति तदेति सृष्टेः प्रागित्यर्थः ॥ ८ ॥

10.31.9
स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह᳚ वाति॒ भूम᳚ ।
मि॒त्रो यत्र॒ वरु᳚णो अ॒ज्यमा᳚नो॒॑ग्निर्वने॒ न व्यसृ᳚ष्ट॒ शोक᳚म् ॥
▶ पदपाठः (Word-by-word)
स्ते॒गः । न । क्षाम् । अति᳚ । ए॒ति॒ । पृ॒थ्वीम् । मिह᳚म् । न । वातः᳚ । वि । ह॒ । वा॒ति॒ । भूम᳚ ।
मि॒त्रः । यत्र᳚ । वरु᳚णः । अ॒ज्यमा᳚नः । अ॒ग्निः । वने᳚ । न । वि । असृ᳚ष्ट । शोक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तेगः स्त्यै ष्ट्यै शब्दसंघातयोः रश्मिसंघातीआदित्यः पृथ्वीं विस्तीर्णां क्षां भूमिं तेजसा नात्येति नातिगच्छति मर्यादया तिष्ठतीत्येवमादित्यः स्तूयते वातोवायुरपि खलु भूम भूमिं मिहं वृष्टिं न विवाति समर्थोपि सन् विविधं न गमयति भूमिं प्रति सावशे षमेव वर्षतीति वातः स्तूयते यत्र यस्मिन्प्रजापतौ मित्रोदेवः अज्यमानोव्यज्यमानः व्य- क्तीभवन्नुत्पाद्यमानइत्यर्थः शोकं स्वदीप्तिं व्यसृष्ट विसृजति सर्वतोविक्षिपति । तथा वरुण- श्च व्यक्तीभवन्स्वदीप्तिं विक्षिपति । तत्र दृष्टान्तः—अग्निर्दवानलः वने न यथः वृक्षसंघाते स्वदीप्तिं सर्वतोविसृजति तद्वत् तादृशं प्रजापतिं स्तौमीति शेषः ॥ ९ ॥

10.31.10
स्त॒रीर्यत्सूत᳚ स॒द्यो अ॒ज्यमा᳚ना॒ व्यथि᳚रव्य॒थीः कृ᳚णुत॒ स्वगो᳚पा ।
पु॒त्रो यत्पूर्व᳚ः पि॒त्रोर्जनि᳚ष्ट श॒म्यां गौर्ज᳚गार॒ यद्ध᳚ पृ॒च्छान् ॥
▶ पदपाठः (Word-by-word)
स्त॒रीः । यत् । सूत᳚ । स॒द्यः । अ॒ज्यमा᳚ना । व्यथिः᳚ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्व॑गो᳚पा ।
पु॒त्रः । यत् । पूर्वः᳚ । पि॒त्रोः । जनि᳚ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरण्याकारभूतां शमीं गोत्वेन निरूपयति स्तरीर्निवृत्तप्रसवागौः सद्यः शीघ्रं अज्यमा- ना निषिच्यमानरेतस्कासती यद्यदा सूत वत्सं प्रसूते तदा व्यथिर्दुःखानां बाधयित्री स्वगो पास्वायत्तगोप्तृका स्वभूतरक्षणा वा सती सा गौः अव्यथीः व्यथारहिताः प्रजाः कृणुत करोति । यदा शमी पुत्रस्थानीयमश्वत्थं प्रसूते तदानीमरण्याहरणाय तादृशमश्वत्थमन्वि- ष्यतामृत्विजां अश्वत्थस्य जनयित्री शमी सुखहेतुर्भवतीत्यर्थः । शमीगर्भादश्वत्थादरणीआह- र्तव्ये । श्रूयतेहिशमीगर्भादग्निं मश्नन्तीति । अपिच पूर्वः पुरातनः पुत्रः पुन्नाम्नोनरकान्त्राता यद्वा पुत्रस्थानीयोग्निः पित्रोर्जनयित्र्योररण्योः सकाशाद्यद्यदा जनिष्टमन्थनेन प्रादुर्भवति तदानीं गौः पृथिवीतयोररण्योर्मातृभूतां शम्यां अश्वत्थगर्भां तां शमीं सुपांसुलुगितिसुपो- ड्यादेशः जगार उद्गिरति यद्ध यां खलु शमीं पृच्छान् ऋत्विजः पृच्छन्ति ज्ञीप्सन्ति गवे षयन्ति ॥ १० ॥

10.31.11
उ॒त कण्वं᳚ नृ॒षदः᳚ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद᳚त्त वा॒जी ।
प्र कृ॒ष्णाय॒ रुश᳚दपिन्व॒तोध᳚रृ॒तमत्र॒ नकि᳚रस्मा अपीपेत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । कण्व᳚म् । नृ॒॑सदः᳚ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन᳚म् । आ । अ॒द॒त्त॒ । वा॒जी ।
प्र । कृ॒ष्णाय᳚ । रुश᳚त् । अ॒पि॒न्व॒त॒ । ऊधः᳚ । ऋ॒तम् । अत्र᳚ । नकिः᳚ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच कण्वमृषिं नृषदः पुत्रमाहुः वेदवादिनोवदन्ति । उतापिच वाजी हविर्लक्षणा न्नवान्कण्वः श्यामः श्यामवर्णः सन्नस्मादग्नेः सकाशात् धनमादत्त अगृह्णात् । कृष्णाय श्या मवर्णाय नार्षदाय कण्वाय अग्निरूधः रुशत् रोचमानं रूपं प्रापिन्वत प्रासिञ्चत् । अत्रेत्थं अग्निव्यतिरिक्तः कश्चिदपि देवः अस्मै कण्वाय ऋतं यज्ञं नकिरपीपेत् नावर्धत । युवं श्या वायरुशती मदत्तमित्युक्तं ॥ ११ ॥

प्रसुग्मन्तेति नवर्चं तृतीयं सूक्तं आदितः पञ्चजगत्यः चतस्रस्त्रिष्टुभः पूर्वदृषिदेवते । तथाचानुक्रान्तम्—प्रसुग्मन्तानव पञ्चाद्याजगत्यइति । गतोविनियोगः ।