श्रवणम्

10.31.6
अ॒स्येदे॒षा सु᳚म॒तिः प᳚प्रथा॒नाभ᳚वत्पू॒र्व्या भूम᳚ना॒ गौः ।
अ॒स्य सनी᳚ळा॒ असु᳚रस्य॒ योनौ᳚ समा॒न आ भर᳚णे॒ बिभ्र᳚माणाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । ए॒षा । सु॒॑म॒तिः । प॒प्र॒था॒ना । अभ᳚वत् । पू॒र्व्या । भूम᳚ना । गौः ।
अ॒स्य । स॑नी᳚ळाः । असु᳚रस्य । योनौ᳚ । स॒मा॒ने । आ । भर᳚णे । बिभ्र᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत् इदानीं अस्य देवगणस्य संबंधिनी एषा सुमतिः सुष्टु स्तुतिः पप्रथाना भवत् वि- स्तीर्यमाणाभूत् अस्माभिः क्रियमाणाइत्यर्थः । कीदृशी पूर्व्या पूर्वकालीना भूमना भूम्ना ब- हुत्वेन युक्तेतिशेषः सर्वदेवसंबंधित्वात् भृशं जातेत्यर्थः गौः देवान्प्रति गन्त्री एतज्ज्ञात्वा सर्वे देवाअसुरस्य प्रजारूपबलवतः अस्य मम संबंधिनि समाने सर्वदेवसाधारणे भरणे सर्वेषां देवानां पुष्टिकरणे योनौ यज्ञाख्ये स्थाने सनीळाः समानस्थानाः बिभ्रमाणाः अस्म दर्थं दृष्टादृष्टफलं धारयन्तः आगच्छन्त्विति शेषः ॥ ६ ॥