श्रवणम्

10.31.7
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि᳚ष्टत॒क्षुः ।
सं॒त॒स्था॒ने अ॒जरे᳚ इ॒तऊ᳚ती॒ अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ॥
▶ पदपाठः (Word-by-word)
किम् । स्वि॒त् । वन᳚म् । कः । ऊं॒ इति᳚ । सः । वृ॒क्षः । आ॒स॒ । यतः᳚ । द्यावा᳚पृथि॒वी इति᳚ । निः॒॑त॒त॒क्षुः ।
स॒न्त॒स्था॒ने इति᳚ स॒म्॑त॒स्था॒ने । अ॒जरे॒ इति᳚ । इ॒तऊ᳚ती॒ इती॒तः॑ऊ᳚ती । अहा᳚नि । पू॒र्वीः । उ॒षसः᳚ । ज॒र॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यतः यस्माद्वृक्षात् द्यावापृथिवी द्यावापृथिव्यौ निष्टतक्षुः देवाः निःशेषेण कृतवन्तः स तादृशोवृक्षः कउ आस कीदृग्वा बभूव तदुत्पादकं वनमरण्यं किंस्वित् सन्तस्थाने सम्यक् तिष्ठन्त्यौ अजरे जरावर्जिते इतऊती इतः एतेभ्योदेवेभ्योरक्षणं ययोस्ते । किञ्च अहानि स- र्वाणि दिनानि पूर्वीर्बह्वीरुषसश्च देवाः निष्टतक्षुः एवंभूतान्देवान् जरन्तः स्तोतारः स्तुव- न्ति ॥ ७ ॥