तुभ्यं॒ गिरो॒ विप्र᳚वीरा इया॒ना द᳚धन्वि॒र इ᳚न्द्र॒ पिबा᳚ सु॒तस्य᳚ ॥
पदपाठः (Word-by-word)
तुभ्य᳚म् । गिरः᳚ । विप्र᳚॑वीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब᳚ । सु॒तस्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
असावीत्येकादशर्चं पञ्चमं सूक्तम्। वैश्वामित्रस्याष्टकस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। असाव्येकादशाष्टको वैश्वामित्र इति। गतः सुक्त विनियोगः॥
हे पुरुहूत बहुभिः स्तोतृभिराहुत तुभ्यं त्वदर्थं सोमोऽसावि। अभिषुतोऽभूत्। षुञ् अभिषव इत्यस्मात्कर्मणि लुङ्। अतो हरिभ्यां हरितवर्णाभ्यामश्वाभ्यां यज्ञमस्मदीयं तूयं तूर्णमुप याहि। उपागच्छ। तुभ्यं त्वदर्थं गिरोऽस्मदीयाः स्तुतयो विप्रविराः। विप्रा मेधाविनो वीरा विशेषेण प्रेरयितारः प्रोद्गमयितारो यासां तास्तथोक्ताः। इयाना गमनशीला दधन्विरे। गम्यन्ते। अस्माभिर्युष्मत्प्रीणनाय प्राप्यन्त इत्यर्थः। ईङ् गतौ। ताच्छीलिकः शानच्। छान्दसो विकरणस्य लुक्। धविर्गत्यर्थः। इदित्त्वान्नुम्। कर्मणि च्छान्दसो लिट्। यत एवमतः सुतस्याभिषुतस्यांशं सुतं सोमं वा पिब॥१॥