उप॒ ब्रह्मा᳚णि हरिवो॒ हरि᳚भ्यां॒ सोम᳚स्य याहि पी॒तये᳚ सु॒तस्य᳚ ।
इन्द्र᳚ त्वा य॒ज्ञः क्षम᳚माणमानड्दा॒श्वा{4} अ᳚स्यध्व॒रस्य᳚ प्रके॒तः ॥
इन्द्र᳚ त्वा य॒ज्ञः क्षम᳚माणमानड्दा॒श्वा{4} अ᳚स्यध्व॒रस्य᳚ प्रके॒तः ॥
पदपाठः (Word-by-word)
उप᳚ । ब्रह्मा᳚णि । ह॒रि॒॑वः॒ । हरि᳚॑भ्याम् । सोम᳚स्य । या॒हि॒ । पी॒तये᳚ । सु॒तस्य᳚ ।
इन्द्र᳚ । त्वा॒ । य॒ज्ञः । क्षम᳚माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य᳚ । प्र॒॑के॒तः ॥
इन्द्र᳚ । त्वा॒ । य॒ज्ञः । क्षम᳚माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य᳚ । प्र॒॑के॒तः ॥
सायणभाष्यम् (Sayana Commentary)
हे हरिवो हरिवन्निन्द्र सुतस्याभिषुतस्य सोमस्य पितये पानाय ब्रह्मानि परिवृढान्यस्मदीयानि कर्मानि स्तोत्राणि वोप याहि। उपागच्छ। केन साधनेनेति तदुच्यते। हरिभ्यामश्वाभ्याम् । ताभ्यां युक्तेन रथेनेत्यर्थः। यद्वा। हरिभ्यां हरिव इति सम्बन्धनीयम् । हे इन्द्र क्षममाणं त्वा त्वां यज्ञः सोमयाग आनट्। व्याप्नोति। नशतेर्लुङि मन्ते घसेति च्लेर्लुक्। छन्दस्यपि द्रुश्यत इत्याडागमः। अश्नोतेरेव वा लिटि च्छान्दसस्तत्प्रत्ययस्य लोपः। अश्नोतेश्चेति नुडागमः। अध्वरस्य यागस्य प्रकेतः प्रकर्षेण जानंस्त्वं दाश्वानसि। दातासि कर्मफलस्य॥६॥