दशमं मण्डलम् - सूक्तम् 191

4 ऋचः

ऋषिः: संवननः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 10.191 - सम्पूर्णम्

1 / 4
ऋक्: 10.191.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.191.1
संस॒मिद्यु᳚वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ ।
इ॒ळस्प॒दे समि᳚ध्यसे॒ स नो॒ वसू॒न्या भ᳚र ॥
▶ पदपाठः (Word-by-word)
सम्॑स᳚म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने᳚ । विश्वा᳚नि । अ॒र्यः । आ ।
इ॒ळः । प॒दे । सम् । इ॒ध्य॒से॒ । सः । नः॒ । वसू᳚नि । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

संसमिति चतुरृचं चत्वारिंशं सूक्तं संवननस्यार्षम्। समानो मन्त्र इति तृतीया त्रिष्टुप् शिष्टास्तिस्रोऽनुष्टुभः। प्रथमाया अग्निर्देवता। शिष्टानां संज्ञानम्। अनुक्रम्यते च। संसं चतुष्कं संवननः संज्ञानमाद्याग्नेयी तृतीया त्रिष्टुप् तृतीया त्रिष्टुबिति। अनुष्तुभम् त्विति पूर्वमुक्तत्वादवशिष्टानामनुष्टुप्त्वम्। सूक्तविनियोगो लैङ्गिकः॥

हे व्रुषन्कामानां वर्षितरग्ने अर्य ईश्वरस्त्वम्। अर्यः स्वामिवैश्ययोः। पा. ३-१-१०३। इति यत्प्रत्ययान्तो निपातितः। अर्यः स्वाम्याख्यायाम् । फि . १-१८। इत्यन्तोदात्तत्वम्। स त्वं विश्वानि सर्वाणि भूतजातानि संसम्। प्रसमुपोदः पादपूरने। पा. ८-१-६। इति समो द्विर्वचनम्। इच्छब्दोऽवधारने। आ समन्तात्सं युवसे। मिश्रयसि। देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः। किं चेळ इडायाः पृथिव्याः पदे स्थान उत्तरवेदिलक्षणे। एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः। ऐ. ब्रा. १-२८। इति ब्राह्मनम्। तत्र त्वं समिध्यसे। ऋत्विग्भिः सन्दीप्यसे। स ताद्रुशस्त्वं नोऽस्माकं वसूनि धनान्या भर। आहर॥१॥

10.191.2
सं ग᳚च्छध्वं॒ सं व᳚दध्वं॒ सं वो॒ मनां᳚सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना उ॒पास᳚ते ॥
▶ पदपाठः (Word-by-word)
सम् । ग॒च्छ॒ध्व॒म् । सम् । व॒द॒ध्व॒म् । सम् । वः॒ । मनां᳚सि । जा॒न॒ता॒म् ।
दे॒वाः । भा॒गम् । यथा᳚ । पूर्वे᳚ । स॒म्॑जा॒ना॒नाः । उ॒प॒॑आस᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः यूयम् सं गच्छध्वम्। सङ्गताह् सम्भूता भवत। समो गम्यृच्छीत्यादिना गमेरात्मनेपदम्। तथा सम् वदध्वम्। सह वद परस्परम् विरोधं परित्यज्येकविधमेव वाक्यं ब्रूतेति यावत्। व्यक्तवाचाम् समुच्चारने। पा. १-३-४८। इति वदेरात्मनेपदम्। वो युष्माकं मनाम्सि सं जानताम्। समानमेकरूपमेवार्थमवगच्छन्तु। सम्प्रतिभ्यामनाध्याने। पा. १-३-४६। इति जानतेरात्मनेपदम्। यथा पूर्वे पुरातना देवाः सञ्जानाना ऐकमत्यम् प्राप्ता हविर्भाअगमुपासते यथास्वम् स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः॥२॥

10.191.3 समानपद
स॒मा॒नो मन्त्र॒ः समि᳚तिः समा॒नी स᳚मा॒नं मनः᳚ स॒ह चि॒त्तमे᳚षाम् ।
स॒मा॒नं मन्त्र᳚म॒भि म᳚न्त्रये वः समा॒नेन᳚ वो ह॒विषा᳚ जुहोमि ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नः । मन्त्रः᳚ । सम्॑इ᳚तिः । स॒मा॒नी । स॒मा॒नम् । मनः᳚ । स॒ह । चि॒त्तम् । ए॒षा॒म् ।
स॒मा॒नम् । मन्त्र᳚म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन᳚ । वः॒ । ह॒विषा᳚ । जु॒हो॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः। एषामेकस्मिन्कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणम् वा समान एकविधोऽस्तु। तथा समितिः प्राप्तिरपि समान्येकरूपास्तु। केवलमामकेत्यादिना समानशब्दाद्ङीप्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। तथा मनो मननसाधनमन्तः करणं चैषां समानमेकविधमप्यस्तु। चित्तं विचारजं ज्ञानं तथा सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु। अहं च वो युष्माकं समानमेकविधं मन्त्रमभिमन्त्रये। ऐकविध्याय संस्करोमि। तथा वो युश्माकं स्व भूतेन समानेन साधारणेन हविषा चरुपुरोडाशादिनाहं जुहोमि। तृतीया च होश्छन्दसि। पा. २-३-३। इति कर्मणि कारके तृतीया। वषट्कारेण हविः प्रक्षेपयामीत्यर्थः॥३॥

10.191.4
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद᳚यानि वः ।
स॒मा॒नम᳚स्तु वो॒ मनो॒ यथा᳚ व॒ः सुस॒हास᳚ति ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नी । वः॒ । आ॑कू᳚तिः । स॒मा॒ना । हृद᳚यानि । वः॒ ।
स॒मा॒नम् । अ॒स्तु॒ । वः॒ । मनः᳚ । यथा᳚ । वः॒ । सु॑स᳚ह । अस᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यजमानाः वो युष्माकमाकूतिः सङ्कल्पोऽध्यवसायः समान्येकविधोऽस्तु। तथा वो युष्माकं हृदयानि समानान्येकविधानि सन्तु। तथा वो युष्माकं मनोऽन्तःकरणम्। प्रत्येकापेक्षयैकवचनम्। तदपि समानमस्तु। यथा वो युश्माकं सुसह शोभनं साहित्यमसति भवति तथा समानमस्त्वित्यन्वयः। अस्तेर्लटि बहुलं छन्दसीति शपो लुगभावः॥४॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके अष्टमोऽध्यायः समाप्तः॥