स॒मा॒नो मन्त्र॒ः समि᳚तिः समा॒नी स᳚मा॒नं मनः᳚ स॒ह चि॒त्तमे᳚षाम् ।
स॒मा॒नं मन्त्र᳚म॒भि म᳚न्त्रये वः समा॒नेन᳚ वो ह॒विषा᳚ जुहोमि ॥
स॒मा॒नं मन्त्र᳚म॒भि म᳚न्त्रये वः समा॒नेन᳚ वो ह॒विषा᳚ जुहोमि ॥
पदपाठः (Word-by-word)
स॒मा॒नः । मन्त्रः᳚ । सम्॑इ᳚तिः । स॒मा॒नी । स॒मा॒नम् । मनः᳚ । स॒ह । चि॒त्तम् । ए॒षा॒म् ।
स॒मा॒नम् । मन्त्र᳚म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन᳚ । वः॒ । ह॒विषा᳚ । जु॒हो॒मि॒ ॥
स॒मा॒नम् । मन्त्र᳚म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन᳚ । वः॒ । ह॒विषा᳚ । जु॒हो॒मि॒ ॥
सायणभाष्यम् (Sayana Commentary)
पुर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः। एषामेकस्मिन्कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणम् वा समान एकविधोऽस्तु। तथा समितिः प्राप्तिरपि समान्येकरूपास्तु। केवलमामकेत्यादिना समानशब्दाद्ङीप्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। तथा मनो मननसाधनमन्तः करणं चैषां समानमेकविधमप्यस्तु। चित्तं विचारजं ज्ञानं तथा सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु। अहं च वो युष्माकं समानमेकविधं मन्त्रमभिमन्त्रये। ऐकविध्याय संस्करोमि। तथा वो युश्माकं स्व भूतेन समानेन साधारणेन हविषा चरुपुरोडाशादिनाहं जुहोमि। तृतीया च होश्छन्दसि। पा. २-३-३। इति कर्मणि कारके तृतीया। वषट्कारेण हविः प्रक्षेपयामीत्यर्थः॥३॥