प॒रो निरृ᳚त्या॒ आ च᳚क्ष्व बहु॒धा जीव᳚तो॒ मनः᳚ ॥
पदपाठः (Word-by-word)
प॒रः । निः॑ऋ᳚त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव᳚तः । मनः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अपेहीति पञ्चर्चं त्रयोदशं सूक्तम्। आङ्गिरसस्य प्रचेतस आर्षम्। तृतीया त्रिष्टुप्। पञ्चमी पङ्क्तिः। दुःस्व्वप्ननाशनं देवता। तथा चानुक्रान्तम्। अपेहि पञ्च प्रचेता दुःस्वप्नघ्नं पङ्क्त्यन्तं त्रिष्टुम्मध्यमिति। लैङ्गिको विनियोगः॥
हे मनसस्पते स्वप्नावस्थस्य मनसः स्वामिन् दुःस्वप्नाधिदेव अपेहि। अपगच्छ। स्वप्नवस्थावतो मत्तो निर्गच्छ। निर्गत्य चाप क्राम। देशान्तरं गन्तुं पादौ विक्षिप। दूरदेशं गच्छेत्यर्थः। अपक्रम्य च परः परस्ताद्विप्रकृष्टे देशे चर। यथेच्छं वर्तस्व। अपि च निरृत्यै पापदेवतायै परः परस्ताद्वर्तमानाया आ चक्ष्व। वयं न बाधनीया इति प्रब्रूहि। जीवतो मम मनो बहुधा बहुप्रकारं भवति। भोक्तव्येषु बहुषु विषयेषूत्सुकं सद्वर्तते। अतस्तद्विनाशकं दुःस्वप्नदर्शनं नश्यत्वित्यर्थः॥१॥