भ॒द्रं वै वरं᳚ वृणते भ॒द्रं यु᳚ञ्जन्ति॒ दक्षि᳚णम् ।
भ॒द्रं वै᳚वस्व॒ते चक्षु᳚र्बहु॒त्रा जीव᳚तो॒ मनः᳚ ॥
भ॒द्रं वै᳚वस्व॒ते चक्षु᳚र्बहु॒त्रा जीव᳚तो॒ मनः᳚ ॥
पदपाठः (Word-by-word)
भ॒द्रम् । वै । वर᳚म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि᳚णम् ।
भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः᳚ । ब॒हु॒॑त्रा । जीव᳚तः । मनः᳚ ॥
भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः᳚ । ब॒हु॒॑त्रा । जीव᳚तः । मनः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
भद्रं वैश् शोभनमेव वरं वरणीयं दुःस्वप्नविनाशरूपं फलं वृणते। सर्वे जनाः प्रार्थयन्ते। दक्षिणं प्रवृद्धं भद्रं शोभनं तत्फलं युञ्जन्ति। प्राप्नुवन्ति च। वैवस्वते विवस्वतः पुत्रे यमे विषये भद्रं शोभनमेव चक्षुर्दर्शनमहं प्रार्थये। दुःस्वप्नाधिदेवो वैवस्वतोऽस्मान्मा बाधताम्। भद्रमेव दर्शनमिह लोकेऽवस्थानलक्षणं करोत्वित्यर्थः। बहुत्रा बहुषु हि विषयेशु जीवतो मम मनो वर्तते॥२॥