अशृ᳚णोः सो॒मिनो॒ हव᳚म् ॥
पदपाठः (Word-by-word)
अशृ᳚णोः । सो॒मिन᳚ । हव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
त्वं त्यमिति चतुरृचं विंशं सूक्तं भृगुपुत्रस्येटस्यार्षं गायत्रमैन्द्रम्। अनुक्रान्तं च। त्व त्यमिटो भार्गवो गायत्रमिति। गतो विनियोगः॥
हे इन्द्र सुतावतः सुतेनाभिषुतेन सोमेन युश्तस्येटत इटस्य। सुपां सुलुगिति ङसस्तस्। एतत्संज्ञस्यर्षेस्त्यं तं प्रसिद्धं रथं प्रावः। प्रारक्शः। सोमिनः सोमयुक्तस्य मम हवमाह्वानमशृणोः। शृणु॥१॥