दशमं मण्डलम् - सूक्तम् 108

11 ऋचः

ऋषिः: पणयोसुराः देवता: सरमा छन्दः: त्रिष्टुप्

सूक्तम् 10.108 - सम्पूर्णम्

1 / 11
ऋक्: 10.108.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.108.1
किमि॒च्छन्ती᳚ स॒रमा॒ प्रेदमा᳚नड्दू॒रे ह्यध्वा॒ जगु᳚रिः परा॒चैः ।
कास्मेहि᳚ति॒ः का परि᳚तक्म्यासीत्क॒थं र॒साया᳚ अतर॒ः पयां᳚सि ॥
▶ पदपाठः (Word-by-word)
किम् । इ॒च्छन्ती᳚ । स॒रमा᳚ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा᳚ । जगु᳚रिः । प॒रा॒चैः ।
का । अ॒स्मे॑हि᳚तिः । का । परि᳚॑तक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः᳚ । अ॒त॒रः॒ । पयां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

किमिच्छन्तीत्येकादशर्चं नवमं सूक्तं त्रैष्टुभम्। ऐन्द्रपुरोहितस्य बृहस्पतेर्गोषु वलनाम्नोऽसुरस्य भटैह् पणिनामकैरसुरैरपहृत्य गुहायां निहितासु सतीषु बृहस्पतिप्रेरितेनेन्द्रेण गवामन्वेषनाय सरमा नाम देवशुनी प्रेषिता। सा च महतीं नदीमुत्तीर्य वलपुरं प्राप्य गुप्तस्थाने नीतास्ता गा ददर्श। अथ तस्मिन्नन्तरे पनय इदं वृत्तान्तमवगच्छन्त एनां मित्रीकर्तुं संवादमकुर्वन्। तत्र प्रथमातृतीयाद्या अयुजोऽन्त्यावर्जिताः पणीनां वाक्यानि। अत्र त ऋषयः सरमा देवता। द्वितीयाचतुर्थ्याद्या युज एकादशी च षट् सरमाया वाक्यानि। अतस्तासु सर्षिः पणयो देवता। तथा चानुक्रान्तम्। किमिच्छन्ती पणिभिरसुरैर्निर्गूळ्हा गा अन्वेष्टुं सरमाम् देवशुनीमिन्द्रेण प्रहितामयुग्भिः पनयो मित्रीयन्तः। प्रोचुः सा तान्युग्मान्त्याभिरनिच्छन्ती प्रात्याचष्ट इति। गतो विनियोगः॥

अनयागच्छन्ती सरमां दृष्ट्वा पनयो वदन्ति। सरमा सरणशीलैतन्नामिका देवशुनी किमिच्छन्ती किं प्रार्थयमाना सतीदमस्मदीयं स्थानं प्रानट्। प्राप्नोत्। आङ् पूर्वो नशिर्व्याप्तिकर्मा। तस्य लुङि मन्त्रे घसेत्यादिना च्लेर्लुक्। छन्दस्यपि द्रुश्यत इत्याडगमः। पराचैः पराञ्चि पराङ्मुखान्यावृत्तिवर्जितानि यानि गमनानि तैर्जगुरिद्गूर्णः। महता प्रयत्नेनापि गन्तुं न शक्यत इत्यर्थः। गॄ निगरणे। आदृगमहनेत्यादिना किन्प्रत्ययः। बहुलं छन्दसि। पा. ७-१-१०३। इत्युत्वम् । तादृशोऽयमध्वा दूरे हि। विप्रकृष्टः खलु। यद्वा। पराचैह् पराञ्चर्जगुरिरत्यर्थं गन्त्री पौर्ष्णिभागमनालोकमाना सतिदं स्थानं प्राप्नोति। दूरेऽयमध्वा यदृच्छया गन्तुं शक्यते। अतो वयमेतां पृच्छामः। हे सरमे का कीदृश्यस्मेहितिः। कोऽस्मासु त्वदपेक्षितार्थो निहितः। यद्वा। अस्मासु कोऽथो गतः। दधातेर्हिनोतेर्वा क्तिनि रूपम्। आगच्छन्त्यास्तव का कीदृशी परितक्म्या रात्रिरासित्। यद्वा। तकतिर्गत्यर्थः। परितकनं परितो गमनं भ्रमणं वा कीदृशमासीत्। कथं च रसायः शब्दायमानाया अन्तरिक्षनद्या योजनशतविस्तीर्णायाः पयांस्युदकान्यतरः। तीर्णवत्यसि। एतद्वद। अत्र किमिच्छन्ती सरमेदं प्रानडित्यादिकं निरुक्तं द्रष्टव्यम्। नि. ११-२५॥१॥

10.108.2 समानपद
इन्द्र᳚स्य दू॒तीरि᳚षि॒ता च᳚रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्व᳚ः ।
अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न᳚ आव॒त्तथा᳚ र॒साया᳚ अतरं॒ पयां᳚सि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती᳚ । प॒ण॒यः॒ । नि॒॑धीन् । वः॒ ।
अ॒ति॒॑स्कदः᳚ । भि॒यसा᳚ । तम् । नः॒ । आ॒व॒त् । तथा᳚ । र॒सायाः᳚ । अ॒त॒र॒म् । पयां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया तान्सरमा प्रत्युवाच। हे पनय एतन्नामका असुराः इन्द्रस्य दूतीः। सुपां सुलुगिति प्रथमैकवचनस्य सुश्छान्दसः। आहमिषिता तेनैव प्रेषिता सती चरामि। युश्मदीयं स्थानमागच्छामि। किमर्थम् । वो युष्मदीयानुष्मदीये पर्वतेऽधिष्ठापितान्महो महतो निधीन्बृहस्पतेर्गोनिधीनिच्छन्ती कामयमाना सती चरामि। किञ्चातिष्कदः। स्कन्दिर् गतिशोषणयोः। भावे क्विप्। अतिष्कन्दनादतिक्रमणज्जातेन भियासा भयेन तन्नदीजलं नः। पूजायां बहुवचनम्। मामावत्। अरक्षत्। तथा तेन प्रकारेण रसाया नद्याः पयांस्युदकान्यतरम्। तीर्णवत्यस्मि॥२॥

10.108.3
की॒दृङ्ङिन्द्र᳚ः सरमे॒ का दृ᳚शी॒का यस्ये॒दं दू॒तीरस᳚रः परा॒कात् ।
आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप᳚तिर्नो भवाति ॥
▶ पदपाठः (Word-by-word)
की॒दृङ् । इन्द्रः᳚ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य᳚ । इ॒दम् । दू॒तीः । अस᳚रः । प॒रा॒कात् ।
आ । च॒ । गच्छा᳚त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ᳚ । गवा᳚म् । गो॑प᳚तिः । नः॒ । भ॒वा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेषाम् वाक्यम्। हे सरमे तव स्वामीन्दः कीदृक्। कियत्पराक्रमवान्। कादृशीका। तस्य कीदृशी दृष्टिः। दृष्टिरूपा सेना कियती। यस्य दूतीर्दूती त्वमिदमस्मदीयं स्थानं पराकादतिदुरादसरः आग्मः। इति तामुक्त्वेदानीं ते परस्परमाहुः। एषा सरमा गच्छाच्च। आगच्छतु च । गमेर्लेट्याडागमः। स्वामी भवाति। भवतु। न ह्येकस्या गोः किन्तु बहूनां गवां स्वामी भवतु। वृत्त्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते॥३॥

10.108.4
नाहं तं वे᳚द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस᳚रं परा॒कात् ।
न तं गू᳚हन्ति स्र॒वतो᳚ गभी॒रा ह॒ता इन्द्रे᳚ण पणयः शयध्वे ॥
▶ पदपाठः (Word-by-word)
न । अ॒हम् । तम् । वे॒द॒ । दभ्य᳚म् । दभ᳚त् । सः । यस्य᳚ । इ॒दम् । दू॒तीः । अस᳚रम् । प॒रा॒कात् ।
न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः᳚ । ग॒भी॒राः । ह॒ताः । इन्द्रे᳚ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सरमा वदति। हे पनयः तमिन्द्रम् दभ्यं हन्तव्यमिति न वेद। न जानामि। दभेरचो यत्। कथम् । स इन्द्रो दभत्। सर्वाञ्जनान्दभति। हिनस्त्वेव। दभेर्लेटि रूपम्। वाक्यभेदादनिघातः। यस्य दूतीर्दूत्यहमिदं युष्मदीयम् स्थानं पराकादतिदूराद्देशादसरं प्राप्ताभूवम्। इन्द्रो हिंसितव्यो न भवतित्यत्र युक्तिमाह। स्रवतः। स्रवणं स्रवः। तमाचरन्ति। आचारार्थे क्विप्। तुगागमः। जसि रूपम्। स्रवणशीला गभीरा गम्भीरा नद्यस्तमिन्द्रं न गुहन्ति। न संवृण्वन्ति। नाच्छादयन्ति। किन्त्वाविष्कुर्वन्ति। वयं यस्य महिम्ना समुद्रं प्रतिसरामः। तस्मादहिंस्य इत्येनं प्रकटीकुर्वन्ति। गुहू संवरणे भौवादिकः। तस्माद्धे पणयः यूयमिन्द्रेण तादृशपराक्रमेण हताः सन्तः शयध्वे। शीञ् स्वप्ने। बहुलं छन्दसीति शपो लुगभावः॥४॥

10.108.5
इ॒मा गावः᳚ सरमे॒ या ऐच्छ॒ः परि᳚ दि॒वो अन्ता᳚न्त्सुभगे॒ पत᳚न्ती ।
कस्त᳚ एना॒ अव᳚ सृजा॒दयु᳚ध्व्यु॒तास्माक॒मायु᳚धा सन्ति ति॒ग्मा ॥
▶ पदपाठः (Word-by-word)
इ॒माः । गावः᳚ । स॒र॒मे॒ । याः । ऐच्छः᳚ । परि᳚ । दि॒वः । अन्ता᳚न् । सु॒॑भ॒गे॒ । पत᳚न्ती ।
कः । ते॒ । ए॒नाः॒ । अव᳚ । सृ॒जा॒त् । अयु᳚ध्वी । उ॒त । अ॒स्माक᳚म् । आयु᳚धा । स॒न्ति॒ । ति॒ग्मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रुद्धाः पणयः प्रत्यूचुः। हे सुभगे शोभनसौभाग्यवति हे सरमे दिवो द्युलोकस्यान्तान्पर्यन्तान्परि पतन्ती कुत्र गावस्तिष्ठन्तीति परितो गच्छन्ती त्वमिमाः परिदृश्यमाना या गावः। सुब्व्यत्ययः। गा ऐच्छः कामयसे ता एना गास्ते त्वदीयः कोऽयुध्व्य युद्ध्वाव सृजात्। अस्मात्पर्वतादवसृजेत्। विनर्गमयेत्। सृजेर्लेटि रूपम्। अयुध्वी युधेः क्त्वाप्रत्यये स्नात्व्यादयश्चेति नोपातितः। नञ्समासत्वाल्ल्यबादेशाभावः। नञः प्रकृतिस्वरत्वम् । उतापि चास्माकं तिग्मा तीक्ष्णान्यायुधायुधानि सन्ति। तस्मादस्माभिर्युद्धमकृत्वा को नाम गा आहरति॥५॥

10.108.6
अ॒से॒न्या वः᳚ पणयो॒ वचां᳚स्यनिष॒व्यास्त॒न्व᳚ः सन्तु पा॒पीः ।
अधृ᳚ष्टो व॒ एत॒वा अ᳚स्तु॒ पन्था॒ बृह॒स्पति᳚र्व उभ॒या न मृ᳚ळात् ॥
▶ पदपाठः (Word-by-word)
अ॒से॒न्या । वः॒ । प॒ण॒यः॒ । वचां᳚सि । अ॒नि॒ष॒व्याः । त॒न्वः᳚ । स॒न्तु॒ । पा॒पीः ।
अधृ᳚ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः᳚ । बृह॒स्पतिः᳚ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा तान्निराह। हे पणयः वो युष्माकं वचांसि पुर्वोक्तानि वचनान्यसेन्यासेन्यानि। सेनार्हानि न भवन्ति। सेनाशब्दात्तदर्हतीत्यर्थे छन्दसि चेति यत्प्रत्ययः। नञा समासः। ययतोश्चातदर्थे। पा.६-२-१५६। इत्युत्तरपदान्तोदात्तत्वम् । तथा तन्वो युश्मदीयानि शरीराण्यनिषव्या इष्वर्हाणि न सन्तुपराक्रमराहित्येन । पूर्ववत्प्रत्ययः। ओर्गुणः। पा. ६-४-१४६। इति गुणः। स्वरश्च तादृक्। यतः पापीः पापयुक्तानि खलु। छन्दसीवनिपावितीप्रत्ययः। जसः शः। किञ्च वो युश्मदीयः पन्था मार्ग एतवै गन्तुमधृष्टोऽसमर्थोऽस्तु। इण् गतावित्यस्य तुमर्थे तवैप्रत्ययः। तवै चान्तश्च युगपत्। पा. ६-२-५१। इति धातोः प्रत्ययस्य च युगपदुदात्तत्वम्। तत्र हेतुमाह। वो युश्मदीयानुभयोभयविधान्पूर्वोक्तांस्तन्वो देहान्बृहस्पतिरिन्द्रप्रेरितो न मृळात्। न सुखयतु। किन्तु बाधेत। मृअ सुखने। लेट्यडागमः॥६॥

10.108.7
अ॒यं नि॒धिः स᳚रमे॒ अद्रि᳚बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु᳚भि॒र्न्यृ᳚ष्टः ।
रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु᳚गो॒पा रेकु᳚ प॒दमल᳚क॒मा ज᳚गन्थ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । नि॒॑धिः । स॒र॒मे॒ । अद्रि᳚॑बुध्नः । गोभिः᳚ । अश्वे᳚भिः । वसु᳚॑भिः । नि॑ऋ᳚ष्टः ।
रक्ष᳚न्ति । तम् । प॒णयः᳚ । ये । सु॒॑गो॒पाः । रेकु᳚ । प॒दम् । अल᳚कम् । आ । ज॒ग॒न्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते पुनराहुः । हे सरमे अयं निधिरस्मदीयः कोशोऽद्रिबुध्नः। बन्धबन्धने। बन्धेर्व्रधिबुधी च। उ. ३-५। इति नप्रत्ययो बुध इत्यादेशः। अद्रिर्बन्धको यस्य तादृशः। तथाहृतैर्गोभीरश्वेभिरश्वैश्च वसुभिरात्मीयैर्धनैश्चन्यृष्तो नितरां प्राप्तो भवति। ऋषी गतौ। क्तप्रत्यये श्वीदितो निष्ठायमितीट् प्रतिषेधः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। सुगोपाः। गुपू रक्शणे। आयप्रत्ययान्तात्क्विप्यातोलोपयलोपौ। सुष्ठु गोपायितारो ये पणयस्तेऽसुरास्तम् निधिं रक्शन्ति। पालयन्ति। रेकु। रेकृ शङ्कायाम्। औणादिक उप्रत्ययः। शङ्कितं गोभिः शब्दायमानं पदमस्माभिः पालितं स्थानमलकं व्यर्थमेवा जगन्थ। आगतवत्यसि। गमेर्लिटि रूपम्॥७॥

10.108.8
एह ग᳚म॒न्नृष᳚य॒ः सोम᳚शिता अ॒यास्यो॒ अङ्गि᳚रसो॒ नव᳚ग्वाः ।
त ए॒तमू॒र्वं वि भ᳚जन्त॒ गोना॒मथै॒तद्वचः᳚ प॒णयो॒ वम॒न्नित् ॥
▶ पदपाठः (Word-by-word)
आ । इ॒ह । ग॒म॒न् । ऋष᳚यः । सोम᳚॑शिताः । अ॒यास्यः᳚ । अङ्गि᳚रसः । नव᳚॑ग्वाः ।
ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना᳚म् । अथ᳚ । ए॒तत् । वचः᳚ । प॒णयः᳚ । वम᳚न् । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सरमा पुनः प्रत्युवच। हे पनयः सोमशिताः सोमेन तीक्ष्णीकृताः सोमपानेन मत्ताः। शिञ् निशाने। कर्मणि क्तप्रत्ययः। तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम्। तादृशा नवग्वा नवगतयह्। यद्वा। अङ्गिरसां सत्त्रमासीनानां मध्ये केचन नवसु माःस्वध्यतिष्थन् ते नवग्वाः। अनेन दशग्वा अप्युपलक्श्यन्ते। उभयविधास्तेङ्गिरस ऋषयः तेषां प्रथमोऽयास्य एतन्नामा च त एत इह युश्मदीये स्थान आ गमन्। आगच्छेयुः। गमेश्चन्दसि लुङ् लङ् लिटि इति सार्वकालिको लुङ्। लृदित्त्वाच्च्लेरङ्। आगत्य च ते गोनाम्। गोः पादान्त इति च्छन्दसि नुदागमः। गवामूर्वं तं समूहं वि भजन्त। विभागम् कुर्युः। अत्रापि पूर्ववत्सार्वकालिको लुङ्। अथानन्तरं पणयो यूयमेतद्वचः पूर्वं यद्व्यर्थमागतासिति यद्वाक्यमवोचत तद्वाक्यं तदा वमन्निद्वमन्तः परित्यजन्त एव भवथ। वमु उद्गिरणे। शतरि सुपां सुलुगिति जसो लुक्। नुमागमः। संयोगान्तस्य लोपः। यद्वा। लङि रूपम्। स्वरश्छान्दसः॥८॥

10.108.9
ए॒वा च॒ त्वं स᳚रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह᳚सा॒ दैव्ये᳚न ।
स्वसा᳚रं त्वा कृणवै॒ मा पुन᳚र्गा॒ अप᳚ ते॒ गवां᳚ सुभगे भजाम ॥
▶ पदपाठः (Word-by-word)
ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒॑ज॒गन्थ᳚ । प्र॑बा᳚धिता । सह᳚सा । दैव्ये᳚न ।
स्वसा᳚रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः᳚ । गाः॒ । अप᳚ । ते॒ । गवा᳚म् । सु॒॑भ॒गे॒ । भ॒जा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तयैवमुक्ते सति पनयः प्रणयवाक्यमाहुः। हे सरमे त्वं दैव्येन देवसम्बन्धिना सहसा बलेन प्रबाधिता यथा तथा वलपुरं प्राप्य तत्र स्थिता गा दृष्ट्वा पुनरागच्छेति तेन प्रपीडिता त्वमेवं चेदाजगन्थ आगतवत्यसि। च्शब्दश्चेदर्थे। निपातैर्यद्यदिहन्तेति तिङो निघाताभावः। गमेर्लिटि थलि रूपम्। सह सुपेत्यत्र सहेति योगविभागात्समासः। तिङि चोदात्तवतिति गतेर्निघातः। लित्स्वरः। तर्हि त्वा त्वां स्वसारं भगिनीं कृणवै। करवैः। समूहापेक्ष्यैकवचनम्। त्वं तु पुनर्मा गाः। इन्द्रादीन्मा गच्छ। अपि तर्हि हे सुभगे सरमे ते त्वदीयानां गवां समूहं पर्वतादपगमय्य भजाम। त्वं च वयं च विभजा विभागं करवामेत्यर्थः॥९॥

10.108.10
नाहं वे᳚द भ्रातृ॒त्वं नो स्व᳚सृ॒त्वमिन्द्रो᳚ विदु॒रङ्गि᳚रसश्च घो॒राः ।
गोका᳚मा मे अच्छदय॒न्यदाय॒मपात᳚ इत पणयो॒ वरी᳚यः ॥
▶ पदपाठः (Word-by-word)
न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒॑त्वम् । नो इति᳚ । स्व॒सृ॒॑त्वम् । इन्द्रः᳚ । वि॒दुः॒ । अङ्गि᳚रसः । च॒ । घो॒राः ।
गो॑का᳚माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय᳚म् । अप᳚ । अतः᳚ । इ॒त॒ । प॒ण॒यः॒ । वरी᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा तान्प्रत्याचष्टे। हे पणयः अहं भ्रातृत्वं न वेद। न जानामि। तथा स्वसृत्वं च नो वेद। नैव जानामि। के जानन्ति। तानाह। इन्द्रो घोराः शत्रूणां भयङ्करा अङ्गिरसश्च विदुः। जानन्ति। किञ्चास्मात्स्थानादहं यद्यदायं इन्द्रादीन्प्राप्नवम् । अय पय गतौ। लङि रूपम्। तदा मे मदीया गोकामायुश्माभिरपहृता गाः कामयमाना इन्द्रादय आच्छदय। युश्मदीयं स्थानमाच्छादयन्ति। छद अपवारने। अतः कारणाद्धे पणयः वरीय उरुतरं गवं वृन्दं परित्यज्यापेत। अन्यत्स्थानं प्रति गच्छत। यद्वा। वरीयः। प्रभूतमतिदूरं देशं गच्छत। इत । इण् गतौ। लोटि रूपम् वरीयः। उरिशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः॥१०॥

10.108.11 समानपद
दू॒रमि᳚त पणयो॒ वरी᳚य॒ उद्गावो᳚ यन्तु मिन॒तीरृ॒तेन᳚ ।
बृह॒स्पति॒र्या अवि᳚न्द॒न्निगू᳚ळ्हा॒ः सोमो॒ ग्रावा᳚ण॒ ऋष᳚यश्च॒ विप्रा᳚ः ॥
▶ पदपाठः (Word-by-word)
दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी᳚यः । उत् । गावः᳚ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन᳚ ।
बृह॒स्पतिः᳚ । याः । अवि᳚न्दत् । नि॑गू᳚ळ्हाः । सोमः᳚ । ग्रावा᳚णः । ऋष᳚यः । च॒ । विप्राः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पणयह् यूयं वरीय उरुतरम् दूरं दूरदेशमित। गच्छत। युश्माभिरपहृता गाव ऋतेन सत्येन मिनतीर्मिनत्यो द्वारस्य पिधायकं पर्वतं हिंसत्यो विदारयन्त्य उद्यन्तु। तस्मादुद्गच्छन्तु। यद्वा। मिनतीः। व्यत्ययेन कर्मणि शतृ। मीयमाना युश्माभिर्बाध्यमानास्ता गावः। सुब्व्यत्ययः। गा रुतेन स्तुतिभिर्गन्तव्येनेन्द्रेण सहायेन बृहस्पत्यादय उद्यन्तु। पर्वतादुद्गमयन्तु। निगूढा नितरां स्थापिता या गा बृहस्पतिरविन्दत् लप्स्यते तथा सोमस्तदभिषवकारिणो ग्रावाणश्च विप्रा मेधाविन ऋषयोऽङ्गिरसश्च लप्स्यन्ते। विद्लृलाभे तौदादिकः। तस्माच्छन्दसि लुङ् लुङ् लिट् इति भविष्यदर्थे लङ्। शे मुचादीनामिति नुमागमः॥११॥