इ॒मा गावः᳚ सरमे॒ या ऐच्छ॒ः परि᳚ दि॒वो अन्ता᳚न्त्सुभगे॒ पत᳚न्ती ।
कस्त᳚ एना॒ अव᳚ सृजा॒दयु᳚ध्व्यु॒तास्माक॒मायु᳚धा सन्ति ति॒ग्मा ॥
कस्त᳚ एना॒ अव᳚ सृजा॒दयु᳚ध्व्यु॒तास्माक॒मायु᳚धा सन्ति ति॒ग्मा ॥
पदपाठः (Word-by-word)
इ॒माः । गावः᳚ । स॒र॒मे॒ । याः । ऐच्छः᳚ । परि᳚ । दि॒वः । अन्ता᳚न् । सु॒॑भ॒गे॒ । पत᳚न्ती ।
कः । ते॒ । ए॒नाः॒ । अव᳚ । सृ॒जा॒त् । अयु᳚ध्वी । उ॒त । अ॒स्माक᳚म् । आयु᳚धा । स॒न्ति॒ । ति॒ग्मा ॥
कः । ते॒ । ए॒नाः॒ । अव᳚ । सृ॒जा॒त् । अयु᳚ध्वी । उ॒त । अ॒स्माक᳚म् । आयु᳚धा । स॒न्ति॒ । ति॒ग्मा ॥
सायणभाष्यम् (Sayana Commentary)
क्रुद्धाः पणयः प्रत्यूचुः। हे सुभगे शोभनसौभाग्यवति हे सरमे दिवो द्युलोकस्यान्तान्पर्यन्तान्परि पतन्ती कुत्र गावस्तिष्ठन्तीति परितो गच्छन्ती त्वमिमाः परिदृश्यमाना या गावः। सुब्व्यत्ययः। गा ऐच्छः कामयसे ता एना गास्ते त्वदीयः कोऽयुध्व्य युद्ध्वाव सृजात्। अस्मात्पर्वतादवसृजेत्। विनर्गमयेत्। सृजेर्लेटि रूपम्। अयुध्वी युधेः क्त्वाप्रत्यये स्नात्व्यादयश्चेति नोपातितः। नञ्समासत्वाल्ल्यबादेशाभावः। नञः प्रकृतिस्वरत्वम् । उतापि चास्माकं तिग्मा तीक्ष्णान्यायुधायुधानि सन्ति। तस्मादस्माभिर्युद्धमकृत्वा को नाम गा आहरति॥५॥