दशमं मण्डलम् - सूक्तम् 62

11 ऋचः

ऋषिः: नाभानेदिष्ठो मानवः देवता: विश्वेदेवाः आंगिरसो वा छन्दः: जगती

सूक्तम् 10.62 - सम्पूर्णम्

1 / 11
ऋक्: 10.62.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.62.1
ये य॒ज्ञेन॒ दक्षि᳚णया॒ सम᳚क्ता॒ इन्द्र᳚स्य स॒ख्यम᳚मृत॒त्वमा᳚न॒श ।
तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो अस्तु॒ प्रति᳚ गृभ्णीत मान॒वं सु᳚मेधसः ॥
▶ पदपाठः (Word-by-word)
ये । य॒ज्ञेन᳚ । दक्षि᳚णया । सम्॑अ᳚क्ताः । इन्द्र᳚स्य । स॒ख्यम् । अ॒मृ॒त॒॑त्वम् । आ॒न॒श ।
तेभ्यः᳚ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति᳚ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒॑मे॒ध॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्र ये यज्ञेनेत्येकादशर्चमनुवाकापेक्षया द्वितीयं सूक्तम् । मानवस्य नाभानेदिष्थस्यार्षम्। आदितश्चतस्रो जगत्यः। पञ्चम्यनुष्टुप्। षष्ठी ब्रुहती। सप्तमी सतोब्रुहती। अश्टमीनवम्यावनुष्तुभौ। दशमी गायत्री। एकादशी त्रिष्टुप्। आदितः षण्णां विश्वे देवा अङ्गिरसो वा देवता। सप्तमी वैश्वदेवी। अष्टम्याद्यासु चतसृषु सावर्णेर्महाराजस्य दानम् स्तूयते। अतस्तास्तद्देवताकाः। तथा चानुक्रम्यते। ये यज्ञेनैकादशाद्याः षळङ्गिरसां स्तुतिर्वान्त्या त्रिष्टुप्पञ्चम्यनुष्तुप्प्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽन्त्याः सावर्नेर्दानस्तुतिरिति। षष्थेऽहनि वैश्वदेवशस्त्र एतत्सूक्तम्। सुत्रितं च। इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते। आ. ८-१-। इति॥

नाभानेदिष्ठः स्वपित्रा मनुनाभ्यनुज्ञातः सत्त्रमासीनानङ्गिरसोऽभ्येत्य मां प्रतिगृह्णीत युष्मभ्यं यज्ञं प्रज्ञापयामीति यदुक्तवान् तद्युच्यते। इतिहासस्त्विदमित्थेति पूर्वसूक्ते साभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवमिति ब्राह्मणानुसारेण मनुः पुत्रेभ्यो दायं व्यभजदिति तैत्तिरीयब्राह्मनानुसारेण च सप्रपञ्चमभिहितः। तथा चास्या ऋचोऽयमर्थः। यज्ञेन यजनियेन हविषा दक्शिणयर्त्विग्भ्यो देयया समक्ताः सङ्गता येऽहीनैकाहसत्त्राणि कुर्वन्तो यूयमिन्द्रस्य सख्यं सखिकर्म अत एवामृतत्वममरनधर्मं देवत्वमानश आनशिध्वे प्राप्ताः स्थ। अश्नोतेर्लिटि मध्यमे व्यत्ययेन बहुवचनम्। अश्नोतेश्चेति नुडागमः। यद्वृत्तयोगादनिघातः। हे अङ्गिरसः तेभ्यो वो युष्मभ्यं भद्रं कल्याणं कर्मास्तु। हे सुमेधसः सुप्रज्ञा हे अङ्गिरसः ते यूयमिदानीमागतं मानवं मनोः पुत्रं मां प्रति गृभ्णीत। प्रतिगृःणीत। मयि प्रतिगृहीते सति यज्ञं साधु करिष्यामिति तदर्थं प्रतिगृह्णीत॥१॥

10.62.2
य उ॒दाज᳚न्पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन्परिवत्स॒रे व॒लम् ।
दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति᳚ गृभ्णीत मान॒वं सु᳚मेधसः ॥
▶ पदपाठः (Word-by-word)
ये । उ॒त्॑आज᳚न् । पि॒तरः᳚ । गो॒॑मय᳚म् । वसु᳚ । ऋ॒तेन᳚ । अभि᳚न्दन् । प॒रि॒व॒त्स॒रे । व॒लम् ।
दी॒र्घा॒यु॒॑त्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति᳚ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒॑मे॒ध॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये अङ्गिरसः पितरोऽस्माकं पुर्वजत्वेन पितृभूता ये यूयं गोमयं गवात्मकं पणिभिरपहृतम् वसु धनमुदाजन् तैरधिष्ठितात्पर्वतादुदगमयन्। किञ्चर्तेन सत्यभुतेन यज्ञेन परिवत्सरे पर्यागते वत्सरे सम्पूर्णे। सत्त्रान्त इत्यर्थः। तत्र वलं वलनामानं गवामपहर्तारमसुरमभिन्दन् व्यनाशयन् तेभ्यो वो युश्मभ्यं दीर्घायुत्वं प्रभूतजीवनमस्तु। शेषं पूर्ववत्॥२॥

10.62.3
य ऋ॒तेन॒ सूर्य॒मारो᳚हयन्दि॒व्यप्र᳚थयन्पृथि॒वीं मा॒तरं॒ वि ।
सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति᳚ गृभ्णीत मान॒वं सु᳚मेधसः ॥
▶ पदपाठः (Word-by-word)
ये । ऋ॒तेन᳚ । सूर्य᳚म् । आ । अरो᳚हयन् । दि॒वि । अप्र᳚थयन् । पृ॒थि॒वीम् । मा॒तर᳚म् । वि ।
सु॒प्र॒जाः॒॑त्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति᳚ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒॑मे॒ध॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्गिरसः ये भवन्त ऋतेन सत्यभुतेन यज्ञेन दिवि द्युलोके सूर्यं सुष्ठु सर्वस्य प्रेरकमादित्यमारोहयन् अस्थापयन् किञ्च मातरं सर्वेषां निर्मात्रीं पृथिवीं व्यप्रथयन् प्रसिद्धामकुर्वन् सत्त्त्रादिकर्मकरणेन तेभ्यो युष्मभ्यं सुप्रजास्त्वं सुपुत्रत्वमस्तु। नित्यमसिच् प्रजामेधयोरित्यसिच्समासान्तः। तस्माद्भावप्रत्ययः॥३॥

10.62.4
अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव᳚पुत्रा ऋषय॒स्तच्छृ᳚णोतन ।
सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो अस्तु॒ प्रति᳚ गृभ्णीत मान॒वं सु᳚मेधसः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । नाभा᳚ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव᳚॑पुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ ।
सु॒॑ब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति᳚ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒॑मे॒ध॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवपुत्रा देवानां पुत्रा अग्नेः पुत्रा ऋषयोऽतीन्द्रियार्थस्य द्रष्टारो हेऽङ्गिरसः अयं नाभा नाभानेदिष्ठः पुरोवर्ती जनो वो युश्माकं गृहे गृहभूते यज्ञे वल्गु कल्याणं वचो वदति। तद्वाकृं यूयं शृणोतन। महातादरेण शृणुत। श्रु श्रवणे। तप्तनप्तनथनाश्चेति तनबादेशः। तेभ्यो युष्मभ्यं सुब्रह्मण्यं शोभनं ब्रह्मवर्चसमस्तु। इदानीमागतं मानवं मां प्रति गृभ्णीत। प्रतिगृह्णीत॥४॥

10.62.5
विरू᳚पास॒ इदृष᳚य॒स्त इद्ग᳚म्भी॒रवे᳚पसः ।
ते अङ्गि᳚रसः सू॒नव॒स्ते अ॒ग्नेः परि᳚ जज्ञिरे ॥
▶ पदपाठः (Word-by-word)
वि॑रू᳚पासः । इत् । ऋष᳚यः । ते । इत् । ग॒म्भी॒र॑वे᳚पसः ।
ते । अङ्गि᳚रसः । सू॒नवः᳚ । ते । अ॒ग्नेः । परि᳚ । ज॒ज्ञि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परोक्षतयर्षिराह। ऋषयः कर्मणां द्रष्टार एत ऋषयो विरूपास इदन्योन्यं वर्णतो रूपतश्च नानारूपा भवन्ति। त इत्त एवामी अङ्गिरसो गम्भीरवेपसः। वेप इति कर्मनाम। बम्भीरकर्मणो भवन्ति। त इमेऽङ्गिरसः सूनवः पुत्राः खलु। तदेवाह। त इमेऽङ्गिरसोऽग्नेः परि जज्ञिरे। सर्वतो जाताः प्रादुर्भऊताः। येऽङ्गारा असंस्तेऽङ्गिरसोऽभवन्। ऐ. ब्रा. ३-३४। इति ब्राह्मणम्। अत्र निरुक्तं च द्रष्टव्यम्। नि. ३-१७॥५॥

10.62.6 समानपद
ये अ॒ग्नेः परि᳚ जज्ञि॒रे विरू᳚पासो दि॒वस्परि᳚ ।
नव᳚ग्वो॒ नु दश᳚ग्वो॒ अङ्गि᳚रस्तमो॒ सचा᳚ दे॒वेषु᳚ मंहते ॥
▶ पदपाठः (Word-by-word)
ये । अ॒ग्नेः । परि᳚ । ज॒ज्ञि॒रे । वि॑रू᳚पासः । दि॒वः । परि᳚ ।
नव᳚॑ग्वः । नु । दश᳚॑ग्वः । अङ्गि᳚रः॑तमः । सचा᳚ । दे॒वेषु᳚ । मं॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विरूपासो विविधरूपा येऽङ्गिरसो दिवस्परि द्युलोकादग्नेः परि जज्ञिरे परितो जाताः। यद्वा। दिवस्परि। परिः पञ्चम्यर्थद्योतकः। स्वतेजसा दीप्यमानादग्नेर्जाताः। तेषां मध्ये नवग्वो दशग्वश्चाङ्गिरस्तमोऽङ्गिरसाम् वरिष्थः। सत्त्रमासीनानामङ्गिरसां मध्ये केचन नवसु मास्सु कर्म कृत्वोदतिष्थन् केचन दशसु मास्स्वित्येवमङ्गिरसामयनमुक्तम्। तेषामग्निर्नवग्वश्च दशग्वश्चोक्तः। तादृशो देवेषु सचा सहावस्थितः सोऽग्निर्महन्ते। मह्यम् धनं प्रयच्छति। मंहतिर्दानकर्मा॥६॥

10.62.7
इन्द्रे᳚ण यु॒जा निः सृ᳚जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् ।
स॒हस्रं᳚ मे॒ दद᳚तो अष्टक॒र्ण्य१॒᳚ः श्रवो᳚ दे॒वेष्व᳚क्रत ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः᳚ । व्र॒जम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् ।
स॒हस्र᳚म् । मे॒ । दद᳚तः । अ॒ष्ट॒॑क॒र्ण्यः᳚ । श्रवः᳚ । दे॒वेषु᳚ । अ॒क्र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाघतः कर्मणां वोढारो विश्वे देवा अङ्गिरसो वेन्द्रेण युजा सहायेन निः सृजन्त। निरगमयन्। किम् । गोमन्तं गोयुक्तमश्विनमश्वन्तं पणिभिरवरुद्धं व्रजम् । ते मे मां प्रति सहस्रं सहस्रसंख्याकं धनं सत्त्र परिवेशनमष्टकर्ण्यः। अष्ट इति अशू व्याप्तौ निष्थायां रूपम् । विस्त्रतकर्णाः। उपलक्शणमेतत्। व्याप्तसर्वावयवा गाश्च ददतो मह्यं प्रयच्छन्तो देवेष्विन्द्रादिषु श्रवो हविर्लक्षनमन्नं कीर्तिं वाक्रत अकृषत। अकरोतेर्लुङि मन्ते घसेति च्लेर्लुक्। एवम् नाभानेदिष्थेनाङ्गिरसः स्तुतास्तस्मै धनं प्रादुः। तदुक्तं शौनकेन। ऋषयोऽङ्गिरसस्तुष्टा युद्ददुर्मानवाय तु। तत्पुण्याय च कर्मणि ये यज्ञेनेत्यकीर्तयत्॥७॥

10.62.8
प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु ।
यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह᳚ते ॥
▶ पदपाठः (Word-by-word)
प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः᳚ । तोक्म᳚॑इव । रो॒ह॒तु॒ ।
यः । स॒हस्र᳚म् । श॒त॑अ᳚श्वम् । स॒द्यः । दा॒नाय᳚ । मंह᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तराभिश्चतसृभिरस्मै मानवायर्षये सावर्निना यद्दत्तं तत्प्रशस्यते। तदप्युक्तं शौनकेन। सावर्णिना च यद्दत्तं मानवाय महद्वसु। तदुक्तं सूक्तशेषेन प्र नूनं जायतामिति॥

अयं सावर्णिर्मनुर्नूनं क्शिप्रं प्र जायताम्। प्रजातो भवतु धनादिभिः पुत्रादिभिश्च रोहतु। प्रादुर्भवतु। तत्र दृष्टान्तः। तोक्येव। यथा जलक्लिन्नं बीजं प्रादुर्भवति एवं कर्मफलसंयुक्तः स मनुः पुत्रादिभी रोहतु। योऽयम् मनुः शाताश्वं बहश्वसंयुक्तं सहस्रं गवां सद्यस्तदानीमेव दानाय मंहते। अस्मा ऋषये दातुं प्रेरयति॥८॥

10.62.9
न तम᳚श्नोति॒ कश्च॒न दि॒व इ᳚व॒ सान्वा॒रभ᳚म् ।
सा॒व॒र्ण्यस्य॒ दक्षि᳚णा॒ वि सिन्धु᳚रिव पप्रथे ॥
▶ पदपाठः (Word-by-word)
न । तम् । अ॒श्नो॒ति॒ । कः । च॒न । दि॒वः॑इ᳚व । सानु᳚ । आ॒॑रभ᳚म् ।
सा॒व॒र्ण्यस्य᳚ । दक्षि᳚णा । वि । सिन्धुः᳚॑इव । प॒प्र॒थे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं सावर्णिं मनुं कश्चन कश्चिदप्यारभमारुब्धुं स्वकर्मणा नाश्नोति। न व्याप्नोति । यथा मनुः प्रयच्छति तथान्यो दातुं न शक्नोतीत्यर्थः। कथं स्थितम्। दिव इव द्युलोकस्य सानु समुच्छ्रितं तेजसा कैश्चिदप्यप्रधृष्यमादित्यमिव स्थितम्। आरभं शकि णमुल्कमुलौ। पा. ३-४-१२। इति कमुल्। तस्य सावर्ण्यस्य मनोरियं गवादि दक्षिणा सिन्धुरिव स्यन्दमाना नदीव पृथिव्यां प्रपथे। विपप्रथे। विस्तीर्णा भवति॥९॥

10.62.10
उ॒त दा॒सा प᳚रि॒विषे॒ स्मद्दि᳚ष्टी॒ गोप᳚रीणसा ।
यदु᳚स्तु॒र्वश्च᳚ मामहे ॥
▶ पदपाठः (Word-by-word)
उ॒त । दा॒सा । प॒रि॒॑विषे᳚ । स्मद्दि᳚ष्टी॒ इति॒ स्मत्॑दि᳚ष्टी । गो॑प᳚रीणसा ।
यदुः᳚ । तु॒र्वः । च॒ । म॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च स्व्मद्दिष्टी कल्याणादेशिनौ गोपरीणसा गोपरीनसौ गोभिः परिवृतौ बहुगवादियुक्तौ दासा दासवत्प्रेष्यवत्स्थितौ तेनाधिष्थितौ यदुश्च तुर्वश्चैतन्नामकौ राजर्षी परिविषेऽस्य सवर्णेर्मनोर्भोजनाय ममहे। पशून्प्रयच्छतः। प्रेत्येकमन्वयादेकवचनम्॥१०॥

10.62.11
स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि᳚ष॒न्मनु॒ः सूर्ये᳚णास्य॒ यत᳚मानैतु॒ दक्षि᳚णा ।
साव᳚र्णेर्दे॒वाः प्र ति᳚र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒ अस᳚नाम॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
स॒ह॒स्र॒॑दाः । ग्रा॒म॒॑नीः । मा । रि॒ष॒त् । मनुः᳚ । सूर्ये᳚ण । अ॒स्य॒ । यत᳚माना । ए॒तु॒ । दक्षि᳚णा ।
साव᳚र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः᳚ । यस्मि᳚न् । अश्रा᳚न्ताः । अस᳚नाम । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रदा गवादीनां सहस्रस्य दाता ग्रामणीर्ग्रामाणां नेता कर्ता जनपदानामयं मनुर्मा रिषत्। न कैश्चिदपि रिष्तो हिंसितो भवतु। यद्वा। कर्मनेतॄनस्मान्मा हिनस्तु किन्तु धनादिदानेन पूजयशु। अस्य यतमाना गच्छन्ती दक्षिणा सूर्येण सहैतु। सङ्गच्छताम्। त्रिषु लोकेशु प्रसिद्धा भवत्वित्यर्थः। तस्यास्य सावर्णेः सवर्णपुत्रस्य मनोर्देवा इन्द्रादय आयुर्जीवनं प्र तिरन्तु। प्रवर्धयन्तु। अश्रान्तः कर्मन्वनलसाः सर्वं कर्म कुर्वन्तो वयं यस्मिन्मनौ वाजं गोलक्षणमन्नमसनाम सम्भजेमहि। नाभानेदिष्थोऽहमलभ इत्याशास्ते॥११॥