वै॒व॒स्व॒तं सं॒गम᳚नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ॥
पदपाठः (Word-by-word)
वै॒व॒स्व॒तम् । स॒म्॑गम᳚नम् । जना᳚नाम् । य॒मम् । राजा᳚नम् । ह॒विषा᳚ । दु॒व॒स्य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे मदीयान्तरात्मन् यजमान वा त्वं राजानं पितॄणां स्वामिनं यमं हविषा पुरोडाशा दिना दुवस्य परिचर । कीदृशं प्रवतः प्रकृष्टकर्मवतोभूलोकवर्तिभोगसाधनं पुण्यमनुष्ठितवतः पुरुषान्महीः तत्तद्भोगोचितभूप्रदेशविशेषान् अनुपरेयिवांसं क्रमेण मरणादूर्ध्वं प्रापितवन्तं तथाबहुभ्यः स्वर्गार्थिभ्यः पुण्यकृद्भ्यः पुण्यकृतार्थे पंथां स्वर्गस्योचितमार्गं अनुपस्पशानं अबाधमानं पापिनएव पुरुषान् स्वर्गमार्गबाधेन नरकं प्रापयन्ति नतु पुण्यकृतइत्यर्थः वैव स्वतं विवस्वतः सूर्यस्य पुत्रं जनानां पापिनांसंगमनं गन्तव्यस्थानरूपं ॥ १ ॥