इ॒मं य᳚म प्रस्त॒रमा हि सीदाङ्गि᳚रोभिः पि॒तृभि᳚ः संविदा॒नः ।
आ त्वा॒ मन्त्रा᳚ः कविश॒स्ता व᳚हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ॥
आ त्वा॒ मन्त्रा᳚ः कविश॒स्ता व᳚हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ॥
पदपाठः (Word-by-word)
इ॒मम् । य॒म॒ । प्र॒॑स्त॒रम् । आ । हि । सीद᳚ । अङ्गि᳚रः॑भिः । पि॒तृ॑भिः᳚ । स॒म्॑वि॒दा॒नः ।
आ । त्वा॒ । मन्त्राः᳚ । क॒वि॒॑श॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा᳚ । मा॒द॒य॒स्व॒ ॥
आ । त्वा॒ । मन्त्राः᳚ । क॒वि॒॑श॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा᳚ । मा॒द॒य॒स्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे यमांगिरोभिः एतन्नामकैः पितृभिः संविदानः ऎकमत्यं गतस्त्वं इमं प्रस्तरं विस्ती र्णं यज्ञविशेषं आसीद आगत्योपविश । हि यस्मादेवं तस्मात् कविशस्ताः विद्वद्भिः ऋत्वि ग्भिः प्रयुक्तामंत्राः त्वा त्वां आवहन्तु । हेराजन् एना एतेन हविषा तुष्टोमादयस्व यजमा नं हर्षय ॥ ४ ॥