अङ्गि᳚रसो नः पि॒तरो॒ नव᳚ग्वा॒ अथ᳚र्वाणो॒ भृग᳚वः सो॒म्यासः᳚ ।
तेषां᳚ व॒यं सु᳚म॒तौ य॒ज्ञिया᳚ना॒मपि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
तेषां᳚ व॒यं सु᳚म॒तौ य॒ज्ञिया᳚ना॒मपि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
पदपाठः (Word-by-word)
अङ्गि᳚रसः । नः॒ । पि॒तरः᳚ । नव᳚॑ग्वाः । अथ᳚र्वाणः । भृग᳚वः । सो॒म्यासः᳚ ।
तेषा᳚म् । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिया᳚नाम् । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
तेषा᳚म् । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिया᳚नाम् । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
अंगिरसः अंगिरोनामकाः अथर्वाणः अथर्वनामकाः भृगवोभृगुनामकाश्च नोस्माकं पित रोनवग्वाः अभिनवगमनयुक्ताः सदा नूतनवत् प्रीतिजनकाइत्यर्थः ते च सोम्यासः सोमप र्हन्तीति सोम्याः यज्ञियानां यज्ञार्हाणां तेषां सुमतौ अनुग्रहयुक्तायां बुद्धौ वयं स्याम सर्वदातिष्ठेम । अपिच सौमनसे भद्रे सौमनस्य कारणे कल्याणे फले स्याम सर्वदा तिष्ठेम ॥ ६ ॥ सत्रमध्ये दीक्षितस्य मरणे प्रेहिप्रेहीत्याद्याः पञ्चर्चस्तृतीयावर्जिता होत्राशंसनीयाः सूत्रि तंच—प्रेहिप्रेहिपथिभिः पूर्व्येभिरितिपञ्चानां तृतीयामुद्धरेदिति ।