सं ग᳚च्छस्व पि॒तृभि॒ः सं य॒मेने᳚ष्टापू॒र्तेन᳚ पर॒मे व्यो᳚मन् ।
हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग᳚च्छस्व त॒न्वा᳚ सु॒वर्चा᳚ः ॥
हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग᳚च्छस्व त॒न्वा᳚ सु॒वर्चा᳚ः ॥
पदपाठः (Word-by-word)
सम् । ग॒च्छ॒स्व॒ । पि॒तृ॑भिः᳚ । सम् । य॒मेन᳚ । इ॒ष्टा॒पू॒र्तेन᳚ । प॒र॒मे । वि॑ओ᳚मन् ।
हि॒त्वाय᳚ । अ॒व॒द्यम् । पुनः᳚ । अस्त᳚म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा᳚ । सु॒॑वर्चाः᳚ ॥
हि॒त्वाय᳚ । अ॒व॒द्यम् । पुनः᳚ । अस्त᳚म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा᳚ । सु॒॑वर्चाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मदीयपितः अतस्त्वं परमे उत्कृष्टे व्योमन् व्योमनि स्वर्गाख्ये स्थाने स्वभूतैः पितृ भिः सह संगच्छस्व इष्टापूर्तेन श्रौतस्मार्तदानफलेन संगच्छस्व । तत् इष्टापूर्तेन सहागम्य अवद्यं पापं हित्वाय हित्वा परित्यज्य अस्तं व्रियमानाख्यं गृहं एहि आगच्छ । ततः सुव र्चाः तृतीयार्थे प्रथमा सुवर्चसा शोभनदीप्तियुक्तेन तन्वा स्वशरीरेण संगच्छस्व ॥ ८ ॥ पैतृमेधिकं कर्मणि श्मशानायतनं प्रोक्षत्यपेतवीतेति । सूत्रितंच—गर्तोदकेन शमीशाख- या व्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेतवीतविचसर्पतातेति ।