दशमं मण्डलम् - सूक्तम् 26

9 ऋचः

ऋषिः: विमद ऐंद्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता: पूषा छन्दः: उष्णिक्

सूक्तम् 10.26 - सम्पूर्णम्

1 / 9
ऋक्: 10.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.26.1
प्र ह्यच्छा᳚ मनी॒षा स्पा॒र्हा यन्ति᳚ नि॒युतः᳚ ।
प्र द॒स्रा नि॒युद्र᳚थः पू॒षा अ᳚विष्टु॒ माहि᳚नः ॥
▶ पदपाठः (Word-by-word)
प्र । हि । अच्छ᳚ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति᳚ । नि॒॑युतः᳚ ।
प्र । द॒स्रा । नि॒युत्॑र᳚थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हि यस्मात्कारणात् मनीषाः अस्मदीयाः स्तुतिलक्षणावाचः अच्छ गुणग्रहणद्वारेण पू- षणमभिप्राप्तुं प्रयन्ति प्रकर्षेण गच्छन्ति । कीदृश्यः स्पार्हाः सर्वगुणोपेतत्वात् स्पृहणीयाः नियुतः नियमनाद्वा नियोजनाद्वेत्येतद्रुपं अस्माभिर्नियमितावानियुतावा उच्चारिताइत्यर्थः एतत् ज्ञात्वा उपकारस्य प्रत्युपकारं कर्तुं दस्रा दर्शनीयः नियुद्रथः गमनाय सर्वदानियुत- रथोनियुक्तरथोवा माहिनः महान् पूषा देवः प्राविष्टु अस्मान्प्रकर्षेणरक्षतु । यद्वा दस्रा दंसयितारौ कर्मणामुपक्षपयितारौ परिसमापयितारावित्यर्थः एवं भूतौ पत्नीयजमानौ पूषा रक्षत्विति योज्यम् ॥ १ ॥

10.26.2 समानपद
यस्य॒ त्यन्म᳚हि॒त्वं वा॒ताप्य᳚म॒यं जनः᳚ ।
विप्र॒ आ वं᳚सद्धी॒तिभि॒श्चिके᳚त सुष्टुती॒नाम् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्यत् । म॒हि॒॑त्वम् । वा॒ताप्य᳚म् । अ॒यम् । जनः᳚ ।
विप्रः᳚ । आ । वं॒स॒त् । धी॒ति॑भिः᳚ । चिके᳚त । सु॒॑स्तु॒ती॒नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रोमेधावी अयं यजमानजनः यस्य पूष्णः संबंधि त्यत्तत् प्रसिद्धं महित्वं महत्वं वा ताप्यं मण्डले संभृतं परिपक्वमुदकंधीतिभिः यागादिकर्मभिः आवंसत् संभज्ते सदेवः सुष्टु- तीनां तदीयाः शोभनाः स्तुतीः चिकेत जानातु ॥ २ ॥

10.26.3 समानपद
स वे᳚द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा᳚ ।
अ॒भि प्सुरः᳚ प्रुषायति व्र॒जं न॒ आ प्रु᳚षायति ॥
▶ पदपाठः (Word-by-word)
सः । वे॒द॒ । सु॒॑स्तु॒ती॒नाम् । इन्दुः᳚ । न । पू॒षा । वृषा᳚ ।
अ॒भि । प्सुरः᳚ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यउक्तगुणः सपूषा सुष्टुतीनां शोभनस्तोत्राणां स्वरूपमितिशेषः वेद जानाति अपिच इन्दुर्न सोमइव तथा अयं पूषा वृषा कामानां वर्षिता भवति । प्सुरः रूपवान् सन् अभि अस्मानभिलक्ष्य प्रुषायति सिंचति । तथा नोस्माकं व्रजं गोष्ठं च आप्रुषायति आभिमुख्ये- न सिंचति अस्मभ्यं हिरण्यपश्वादिकं ददातीत्यर्थः ॥ ३ ॥

10.26.4 समानपद
मं॒सी॒महि᳚ त्वा व॒यम॒स्माकं᳚ देव पूषन् ।
म॒ती॒नां च॒ साध᳚नं॒ विप्रा᳚णां चाध॒वम् ॥
▶ पदपाठः (Word-by-word)
मं॒सी॒महि᳚ । त्वा॒ । व॒यम् । अ॒स्माक᳚म् । दे॒व॒ । पू॒ष॒न् ।
म॒ती॒नाम् । च॒ । साध᳚नम् । विप्रा᳚णाम् । च॒ । आ॒॑ध॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव द्योतमान पूषन् वयं स्तोतारः त्वा त्वां मंसीमहि स्तुमः । कीदृशं अस्माकं अ- स्मदीयानां मतीनां च अभिलषितानां च साधनं साधयितारं विप्राणां च मेधाविनामपि आधवं परिचर्याद्वारेण कंपयितारं ॥ ४ ॥

10.26.5
प्रत्य᳚र्धिर्य॒ज्ञाना᳚मश्वह॒यो रथा᳚नाम् ।
ऋषि॒ः स यो मनु᳚र्हितो॒ विप्र᳚स्य यावयत्स॒खः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚॑अर्धिः । य॒ज्ञाना᳚म् । अ॒श्व॒॑ह॒यः । रथा᳚नाम् ।
ऋषिः᳚ । सः । यः । मनुः᳚॑हितः । विप्र᳚स्य । य॒व॒य॒त्॑स॒खः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः सर्वस्य द्रष्टा सपूषा यज्ञानां प्रत्यर्धिः अर्धभाक् रथानां संबंधिभिः अश्वहयः ह- यतिर्गतिकर्मा अश्वैर्गमनशीलोभवति अश्वयुक्तेन रथेन सदागन्तेत्यर्थः । मनुर्हितः मनुष्यहि तोयः विप्रस्य मेधाविनः स्तोतुः यावयत्सखः शत्रूणां पृथक्कर्ता सखा भवसि सइति पूर्वेण संबंधः ॥ ५ ॥

10.26.6
आ॒धीष᳚माणाया॒ः पति᳚ः शु॒चाया᳚श्च शु॒चस्य᳚ च ।
वा॒सो॒वा॒यो॑वी᳚ना॒मा वासां᳚सि॒ मर्मृ᳚जत् ॥
▶ पदपाठः (Word-by-word)
आ॒॑धीष᳚माणायाः । पतिः᳚ । शु॒चायाः᳚ । च॒ । शु॒चस्य᳚ । च॒ ।
वा॒सः॒॑वा॒यः । अवी᳚नाम् । आ । वासां᳚सि । मर्मृ᳚जत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आधीषमाणायाआत्मार्थं धीयमानायाः शुचायाश्च दीप्तायाः अजायाश्च पतिः स्वामी न केवलं स्त्रीमात्रस्य किंतु शुचस्य दीप्तस्य पुंपशोश्च पतिरित्यर्थः एवंभूतः पूषा देवः अवीनामूरणानां संबंधिरोमभिः वासोवायः दशापवित्रादीनि वस्त्राणि प्रेरयन् वासांसि रजकशोध्यानि तानि वस्त्राणि आमर्मृजत् आसमंतात्प्रकाशोष्णाभ्यां शोधयन् भवति ॥ ६ ॥

10.26.7
इ॒नो वाजा᳚नां॒ पति᳚रि॒नः पु᳚ष्टी॒नां सखा᳚ ।
प्र श्मश्रु᳚ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो अदा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
इ॒नः । वाजा᳚नाम् । पतिः᳚ । इ॒नः । पु॒ष्टी॒नाम् । सखा᳚ ।
प्र । श्मश्रु᳚ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा᳚ । यः । अदा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इनईश्वरः पूषा वाजानां हविरादीनां सर्वेषामन्नानां पतिः स्वामी इनः प्रभुः पुष्टीनां सर्वेषां प्राणिनां स्वभूतानां पोषकाणां करणे सखा मित्रभूतः सर्वस्योपकारित्वात् । किञ्च हर्यताः कामयमानस्य यजमानस्य स्वभूतं सोमं पिबन्निति शेषः । श्मश्रु श्मश्रुणि वृथा अनायासेन प्रयत्नेन प्रविदूधोत् प्रकर्षेण विविधं कंपयति । यः पूषा अदाभ्यः शत्रुभिरहिं- स्यः सइति पूर्वेण संबंधः ॥ ७ ॥

10.26.8
आ ते॒ रथ᳚स्य पूषन्न॒जा धुरं᳚ ववृत्युः ।
विश्व᳚स्या॒र्थिन॒ः सखा᳚ सनो॒जा अन᳚पच्युतः ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । रथ᳚स्य । पू॒ष॒न् । अ॒जाः । धुर᳚म् । व॒वृ॒त्युः॒ ।
विश्व᳚स्य । अ॒र्थिनः᳚ । सखा᳚ । स॒नः॒॑जाः । अन᳚प॑च्युतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् देव ते त्वदीयस्य रथस्य धुरं अजावाहनत्वेन आववृत्युः आवर्त्ययन्ति आव- हन्तीत्यर्थः । यस्त्वं विश्वस्य सर्वस्यार्थिनोयाचकस्य अभिलषितार्थप्रदातृत्वात् सखा सखि- भूतः सनोजाः चिरजातः अनपच्युतः स्वाधिकारादनपगतः तस्य ते रथमिति संबंधः ॥ ८ ॥

10.26.9
अ॒स्माक᳚मू॒र्जा रथं᳚ पू॒षा अ᳚विष्टु॒ माहि᳚नः ।
भुव॒द्वाजा᳚नां वृ॒ध इ॒मं नः᳚ शृणव॒द्धव᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । ऊ॒र्जा । रथ᳚म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि᳚नः ।
भुव᳚त् । वाजा᳚नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माहिनोमहान् पूषा अस्माकं स्वभूतं रथं ऊर्जा बलेनान्नेन वा अविष्टु अवतु रक्षतु । किंच वाजानामन्नानां वृधोवर्धकोभुवत् भवतु नोस्मदीयं इममीदृग्भूतं हवमाह्वानं श्रृण- वत् श्रृणोतु ॥ ९ ॥

असत्सुमइति चतुर्विंशत्यृचमेकादशं सूक्तं इन्द्रपुत्रस्य वसुक्रस्यार्षं त्रैष्टुभमैन्द्रं तथा चानु क्रान्तं—असत्सुचतुर्विंशतिरैन्द्रोवसुक्रइति । महाव्रते मरुत्वतीयशस्त्रे एतत्सूक्तम् । तथैवपञ्च- मारण्यके सूत्रितञ्च—असत्सुमेजरितः साभिवेगः पिबासोममभियमुग्रतर्दइति ।