दशमं मण्डलम् - सूक्तम् 44

11 ऋचः

ऋषिः: कृष्णः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.44 - सम्पूर्णम्

1 / 11
ऋक्: 10.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.44.1
आ या॒त्विन्द्र॒ः स्वप᳚ति॒र्मदा᳚य॒ यो धर्म᳚णा तूतुजा॒नस्तुवि᳚ष्मान् ।
प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां᳚स्यपा॒रेण᳚ मह॒ता वृष्ण्ये᳚न ॥
▶ पदपाठः (Word-by-word)
आ । या॒तु॒ । इन्द्रः᳚ । स्व॑प᳚तिः । मदा᳚य । यः । धर्म᳚णा । तू॒तु॒जा॒नः । तुवि᳚ष्मान् ।
प्र॒॑त्व॒क्षा॒णः । अति᳚ । विश्वा᳚ । सहां᳚सि । अ॒पा॒रेण᳚ । म॒ह॒ता । वृष्ण्ये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयात्वित्येकदशर्चं द्वितीयं सूक्तं आंगिरसस्य कृष्णस्यार्षं ऎन्द्रं आदितस्तिस्रस्त्रिष्टुभः ततः षट् जगत्यः ततोद्वे त्रिष्टुभौ । तथाचानुक्रांतं—आयातु त्रित्रिष्टुबादीति । आभिप्ल- विकेषूक्थेषु ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदमावापार्थम् । सूत्रितंच—आयात्विंद्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसीति ।

यइंद्रस्तूतुजानः त्वरमाणः तुविष्मान् वृद्धिमान् विश्वा विश्वानि सहांसि शत्रुबलानि अपारेण महता अधिकेन वृष्ण्येन बलेन प्रत्वक्षाणः प्रकर्षेण तनूकुर्वन् अतिगच्छतीति शेषः । स्वपतिर्धनपतिरिंद्रोमदाय मदार्थं धर्मणा धारकेण रथेनायात्वस्मद्यज्ञं प्रत्यागच्छतु । ॥ १ ॥

10.44.2
सु॒ष्ठामा॒ रथः᳚ सु॒यमा॒ हरी᳚ ते मि॒म्यक्ष॒ वज्रो᳚ नृपते॒ गभ᳚स्तौ ।
शीभं᳚ राजन्त्सु॒पथा या᳚ह्य॒र्वाङ्वर्धा᳚म ते प॒पुषो॒ वृष्ण्या᳚नि ॥
▶ पदपाठः (Word-by-word)
सु॒॑स्थामा᳚ । रथः᳚ । सु॒॑यमा᳚ । हरी॒ इति᳚ । ते॒ । मि॒म्यक्ष᳚ । वज्रः᳚ । नृ॒॑प॒ते॒ । गभ᳚स्तौ ।
शीभ᳚म् । रा॒ज॒न् । सु॒॑पथा᳚ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा᳚म । ते॒ । प॒पुषः᳚ । वृष्ण्या᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृपते नृणां पालकेंद्र ते तव रथः सुष्ठामा शोभनावस्थानः हरी अश्वावपि सुयमा सुयमौ सुबद्धावित्यर्थः । किंच तव गभस्तौ बाहौ वज्रोमिम्यक्ष संहतोभवति । तथा सति हे राजन् सर्वस्येश्वरेंद्र शीभं शीघ्र्ं सुपथा शोभनेन मार्गेण अर्वाङस्मदभिमुखं आयाह्याग- च्छ आगत्य पपुषः सोमं पीतवतः ते तव वृष्ण्यानि बलानि वर्धाम वयं वर्धयामः ॥ २ ॥

10.44.3 समानपद
एन्द्र॒वाहो᳚ नृ॒पतिं॒ वज्र᳚बाहुमु॒ग्रमु॒ग्रास᳚स्तवि॒षास᳚ एनम् ।
प्रत्व᳚क्षसं वृष॒भं स॒त्यशु᳚ष्म॒मेम᳚स्म॒त्रा स᳚ध॒मादो᳚ वहन्तु ॥
▶ पदपाठः (Word-by-word)
आ । इ॒न्द्र॒॑वाहः᳚ । नृ॒॑पति᳚म् । वज्र᳚॑बाहुम् । उ॒ग्रम् । उ॒ग्रासः᳚ । त॒वि॒षासः᳚ । ए॒न॒म् ।
प्र॑त्व᳚क्षसम् । वृ॒ष॒भम् । स॒त्य॑शु᳚ष्मम् । आ । ई॒म् । अ॒स्म॒॑त्रा । स॒ध॒॑मादः᳚ । व॒ह॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृपतिं नॄणां पालकं वज्रबाहुं वज्रहस्तं उग्रमुद्गूर्णं प्रत्वक्षसं शत्रुबलानां प्रकर्षेण तनू- कर्तारं वृषभं कामानां वर्षितारं सत्यशुष्मं अविसंवादिबलं एनमिंद्रं आईमिति पूरणौ उ- ग्रासउद्गूणास्तविषासः प्रवृद्धाः सधमादः सह माद्यंतः इंद्रवाहः इंद्र्स्य वोढारोस्मत्राअ- स्मास्वावहंतु ॥ ३ ॥

10.44.4
ए॒वा पतिं᳚ द्रोण॒साचं॒ सचे᳚तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ᳚षायसे ।
ओजः᳚ कृष्व॒ सं गृ᳚भाय॒ त्वे अप्यसो॒ यथा᳚ केनि॒पाना᳚मि॒नो वृ॒धे ॥
▶ पदपाठः (Word-by-word)
ए॒व । पति᳚म् । द्रो॒ण॒॑साच᳚म् । स॑चे᳚तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे᳚ । आ । वृ॒ष॒॑य॒से॒ ।
ओजः᳚ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति᳚ । अपि᳚ । असः᳚ । यथा᳚ । के॒॑नि॒पाना᳚म् । इ॒नः । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं एव एवं पतिं पालकं द्रोणसाचं द्रोणकलशस्य सेवितारं सचेतसं प्रज्ञं ऊ- र्जस्कंभं बलस्य धारकं सोमं धरुणे धारके जठरे आवृषायसे आसिंचसे धारयसीत्यर्थः । किंच मह्यमोजोबलं कृष्व कुरुष्व । त्वे त्वयि अस्मानपि संगृभाय संगृहाणच । किंच केनि पानां मेधाविनामस्माकम् । केनिपः उशिजइति मेधाविनामसु पाठात् । वृधे वर्धनाय यथा यथावत् सर्वथा इनः स्वामी असः भवसि ॥ ४ ॥

10.44.5 समानपद
गम᳚न्न॒स्मे वसू॒न्या हि शंसि᳚षं स्वा॒शिषं॒ भर॒मा या᳚हि सो॒मिनः᳚ ।
त्वमी᳚शिषे॒ सास्मिन्ना स᳚त्सि ब॒र्हिष्य᳚नाधृ॒ष्या तव॒ पात्रा᳚णि॒ धर्म᳚णा ॥
▶ पदपाठः (Word-by-word)
गम᳚न् । अ॒स्मे इति᳚ । वसू᳚नि । आ । हि । शंसि᳚षम् । सु॒॑आ॒शिष᳚म् । भर᳚म् । आ । या॒हि॒ । सो॒मिनः᳚ ।
त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि᳚ । अ॒ना॒धृ॒ष्या । तव᳚ । पात्रा᳚णि । धर्म᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र वसूनि त्वद्देयानि धनानि अस्मे अस्मासु आगमन् आगच्छंतु हि । यस्मात्त्वा- महं शंसिषं स्तौमि । किंच सोमिनः सोमवतोमम स्वाशिषं शोभनाआशिषोयस्मिन् तं भरं यज्ञं आयाहि त्वमागच्छ । किंच त्वमीशिषे धनस्येश्वरोसि एवंविधः सत्वं अस्मिन्नस्मदीये वेद्यास्तृते बर्हिष्यासत्सि आसीद । किंच तव सोमपात्राणि धर्मणा राक्षसानां कर्मणा अनाधृष्य अनाधृष्याणि धर्षयितुमशक्यानि भवंतीतिशेषः ॥ ५ ॥

10.44.6
पृथ॒क्प्राय᳚न्प्रथ॒मा दे॒वहू᳚त॒यो॑कृ᳚ण्वत श्रव॒स्या᳚नि दु॒ष्टरा᳚ ।
न ये शे॒कुर्य॒ज्ञियां॒ नाव᳚मा॒रुह᳚मी॒र्मैव ते न्य᳚विशन्त॒ केप᳚यः ॥
▶ पदपाठः (Word-by-word)
पृथ᳚क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒व॑हू᳚तयः । अकृ᳚ण्वत । श्र॒व॒स्या᳚नि । दु॒स्तरा᳚ ।
न । ये । शे॒कुः । य॒ज्ञिया᳚म् । नाव᳚म् । आ॒॑रुह᳚म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तव प्रसादात् ते पृथक् प्रायन् देवलोकान्पृथग्गच्छंति ये प्रथमाः पूर्वे मुख्या- वा देवहूतयोदेवानामाह्वातारः कर्तरि कृत् । किंच दुष्टरा अन्यैर्दुस्तराणि श्रवस्यानि श्रव णीयानि यशांसि अकृण्वत अकुर्वत । किंच ये त्वत्प्रासादरहिताजनायज्ञियां यज्ञसंबंधिनीं यज्ञमयीमित्यर्थः नावमारुहं आरोढुं न शेकुर्न शक्नुवंति ते केपयः कुत्सितपूयकर्माणः पाप- कर्माणोजनाः ईर्मैव ऋणेनैव न्यविशंत नीचैराविशंत अधोगतिं प्राप्ताइत्यर्थः । तथाच या- स्कः—पृथक्प्रायन् पृथक् प्रथतेः प्रथमादेवहूतयोयेदेवानाह्वयंताकुर्वतश्रवणीयानि यशांसि दुरनुकराण्यन्यैर्येशक्रुवन् यज्ञियां नावमारोढुमथ येनाशक्नुवन् यज्ञियां नावमारोढुमीर्मैवते- न्यविशंतेहैव तेन्यविशंत ऋणेनैवते न्यविशंतास्मिन्नेवलोकेइति ॥ ६ ॥

10.44.7 समानपद
ए॒वैवापा॒गप᳚रे सन्तु दू॒ढ्यो॑श्वा॒ येषां᳚ दु॒र्युज᳚ आयुयु॒ज्रे ।
इ॒त्था ये प्रागुप᳚रे॒ सन्ति᳚ दा॒वने᳚ पु॒रूणि॒ यत्र᳚ व॒युना᳚नि॒ भोज᳚ना ॥
▶ पदपाठः (Word-by-word)
ए॒व । ए॒व । अपा᳚क् । अप᳚रे । स॒न्तु॒ । दुः॒॑ध्यः᳚ । अश्वाः᳚ । येषा᳚म् । दुः॒॑युजः᳚ । आ॒॑यु॒यु॒ज्रे ।
इ॒त्था । ये । प्राक् । उप᳚रे । सन्ति᳚ । दा॒वने᳚ । पु॒रूणि᳚ । यत्र᳚ । व॒युना᳚नि । भोज᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवैव एवमेव दूढ्योदुर्बुद्धयः अपरे अन्ये अयज्वानइत्यर्थः अपागपाचीनाअधोगंतारः संतु भवंतु । येषां यज्ञमकुर्वतामश्वादुर्युजोदुर्योजाः प्रबलाअप्यायुयुज्रे रथेषु युज्यंते ये सत्यपि सामर्थ्ये न यजंति ते नरकं गच्छंतीतिभावः । किंच इत्था इत्थं ते स्वर्गगामिनो- ये अपरे यज्वानः प्राक् मरणात् पूर्वमेव दावने देवानां हविर्दानाय संति भवंति यत्र येषु च यज्ञकारिषु वयुनानि प्रज्ञानानि कांतानि वा भोजना भोग्यानि धनानि पुरूणि बहूनि देवेभ्योदानाय संति ॥ ७ ॥

10.44.8
गि॒री{4}रज्रा॒न्रेज᳚माना{4} अधारय॒द्द्यौः क्र᳚न्दद॒न्तरि᳚क्षाणि कोपयत् ।
स॒मी॒ची॒ने धि॒षणे॒ वि ष्क᳚भायति॒ वृष्ण᳚ः पी॒त्वा मद᳚ उ॒क्थानि᳚ शंसति ॥
▶ पदपाठः (Word-by-word)
गि॒रीन् । अज्रा᳚न् । रेज᳚मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि᳚क्षाणि । को॒प॒य॒त् ।
स॒मी॒ची॒ने इति᳚ स॒म्॑ई॒ची॒ने । धि॒षणे॒ इति᳚ । वि । स्क॒भा॒य॒ति॒ । वृष्णः᳚ । पी॒त्वा । मदे᳚ । उ॒क्थानि᳚ । शं॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरीन् मेघान् अज्रान् गमनशीलान् रेजमानान् कंपयमानान् अधारयत् इंद्रोधारित- वान् निश्चलान् कृतवानित्यर्थः । किंच द्यौर्द्युलोकः तन्निवासी वा जनः असुरराक्षसेभ्यो- भीतः सन् क्रंदत् क्रंदति इंद्रमाह्वयत्यात्मनः परित्राणार्थम् । किंचेंद्रः अंतरिक्षाणि कोपयत् कोपयति संक्षोभयतीत्यर्थः । किंचेंद्रः समीचीने परस्परं संगते धिषणे द्यावापृथिव्यौ वि- ष्कभायति अंतरिक्षेण स्तभ्राति स्वंभयतीत्यर्थः । किंचेंद्रः वृष्णः स्वोदरस्यासकृत् वर्षप्प शीलान् सोमान् पीत्वामदे सति उक्थानि पशस्यानि वचनानि शंसति प्रबवीति ॥ ८ ॥

10.44.9
इ॒मं बि᳚भर्मि॒ सुकृ᳚तं ते अङ्कु॒शं येना᳚रु॒जासि᳚ मघवञ्छफा॒रुजः᳚ ।
अ॒स्मिन्त्सु ते॒ सव᳚ने अस्त्वो॒क्यं᳚ सु॒त इ॒ष्टौ म᳚घवन्बो॒ध्याभ᳚गः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । बि॒भ॒र्मि॒ । सु॑कृ᳚तम् । ते॒ । अ॒ङ्कु॒शम् । येन᳚ । आ॒॑रु॒जासि᳚ । म॒घ॒॑व॒न् । श॒फ॒॑आ॒रुजः᳚ ।
अ॒स्मिन् । सु । ते॒ । सव᳚ने । अ॒स्तु॒ । ओ॒क्य᳚म् । सु॒ते । इ॒ष्टौ । म॒घ॒॑व॒न् । बो॒धि॒ । आ॑भ᳚गः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निंद्र ते तव सुकृतं संस्कृतं इमं अंकुशं बिभर्मि धारयामि अत्रांकुश- शब्देन प्रेरकत्वगुणयोगात् स्तुतिरुच्यते स्तुतिं धारयामीत्यर्थः । येन स्तुतिलक्षणंकुशेन स्वुतः सन् त्वं शफारुजः आभिमुख्येन परबलानां हंतॄन् ऎरावतादीन् गजान् आरुजा- सि आभिमुख्येन रुजसि पीडयसीत्यर्थः । किंच ते तवास्मिन्नस्मदीयसवने सु सुष्ठु ओक्यं ओकोनिवासोस्तु भवतु । किंच हे मघवन् धनवन्निंद्र आभगः आभजनीयस्त्वं सुते सुत सोमे इष्टौ यज्ञे बोधि अस्मदीयाः स्तुतीः बुध्यस्व ॥ ९ ॥

10.44.10
गोभि᳚ष्टरे॒माम᳚तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् ।
व॒यं राज᳚भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
गोभिः᳚ । त॒रे॒म॒ । अम᳚तिम् । दुः॒॑एवा᳚म् । यवे᳚न । क्षुध᳚म् । पु॒रु॒॑हू॒त॒ । विश्वा᳚म् ।
व॒यम् । राज᳚॑भिः । प्र॒थ॒माः । धना᳚नि । अ॒स्माके᳚न । वृ॒जने᳚न । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमृग्द्वयं व्याख्यातचरं ॥ १० ॥ ११ ॥

10.44.11
बृह॒स्पति᳚र्न॒ः परि᳚ पातु प॒श्चादु॒तोत्त᳚रस्मा॒दध᳚रादघा॒योः ।
इन्द्र᳚ः पु॒रस्ता᳚दु॒त म᳚ध्य॒तो न॒ः सखा॒ सखि᳚भ्यो॒ वरि᳚वः कृणोतु ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । नः॒ । परि᳚ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्॑त᳚रस्मात् । अध᳚रात् । अ॒घ॒॑योः ।
इन्द्रः᳚ । पु॒रस्ता᳚त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा᳚ । सखि᳚॑भ्यः । वरि᳚वः । कृ॒णो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty