दशमं मण्डलम् - सूक्तम् 101

12 ऋचः

ऋषिः: बुधः सौम्यः देवता: विश्वेदेवा ऋत्विजो वा छन्दः: त्रिष्टुप्

सूक्तम् 10.101 - सम्पूर्णम्

1 / 12
ऋक्: 10.101.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.101.1
उद्बु᳚ध्यध्वं॒ सम᳚नसः सखाय॒ः सम॒ग्निमि᳚न्ध्वं ब॒हव॒ः सनी᳚ळाः ।
द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तो॑व᳚से॒ नि ह्व᳚ये वः ॥
▶ पदपाठः (Word-by-word)
उत् । बु॒ध्य॒ध्व॒म् । स॑म᳚नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः᳚ । स॑नी᳚ळाः ।
द॒धि॒॑क्राम् । अ॒ग्निम् । उ॒षस᳚म् । च॒ । दे॒वीम् । इन्द्र᳚॑वतः । अव᳚से । नि । ह्व॒ये॒ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उद्बुध्यध्वमिति द्वादशर्चम् द्वितियम् सूक्तम्। सोमपुत्र बुधस्यार्षम्। आ वो धियमिति नवमी कपृन्नर इत्यन्ता च द्वे जगत्यौ। चतुर्थीषष्ठ्यौ गायत्र्यौ। निराहावानिति पञ्चमी बृहती। शिष्टास्त्रिष्टुभः। विश्वेदेवा देवता। ऋत्विक्स्तुतिरूपोऽर्थो वा देवता। तथा चानुक्रान्तम्। उद्बुध्यध्वं बुधः स्ॐय ऋत्विक्स्तुतिर्वा नवम्यन्त्ये जगतौ गायत्र्योर्मध्ये पञ्चमी बृहतीति। गतः सूक्तविनियोगः॥

अग्निं चेश्यमाणा ऋत्विजो वदन्ति। हे सखायः सखिभुता ऋत्विजः समनसः समानमनस्काः परस्परमद्रोग्धारः। अन्योन्यं कर्मानुकूला इत्यर्थः। तादृशा यूयमुदुत्कृष्टं बुध्यध्वम्। जानीध्वम् । उत्तरत्र युश्माकं कर्तव्यमेवोपदिशति। तथाग्निं समिंध्वम्। सम्यग्दीपयध्वम्। ञि इन्धी दीप्तौ रौधादिकः। लोटि श्नसोरल्लोप इत्यल्लोपः। बहवोऽनेके सनीळाः समाननिवाणा एकस्यामेव शालायां निवसन्तः। अहं च दधिक्रामेतन्नामिकां देवतामग्निमुशसं च देवीमेतांस्त्रीन्देवानिन्द्रावत इन्द्रेण युक्तान्वो युष्मानवसेऽस्माकं रक्शणाय नि नितरां ह्वये। आह्वयामि॥१॥

10.101.2
म॒न्द्रा कृ᳚णुध्वं॒ धिय॒ आ त᳚नुध्वं॒ नाव᳚मरित्र॒पर᳚णीं कृणुध्वम् ।
इष्कृ᳚णुध्व॒मायु॒धारं᳚ कृणुध्वं॒ प्राञ्चं᳚ य॒ज्ञं प्र ण᳚यता सखायः ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः᳚ । आ । त॒नु॒ध्व॒म् । नाव᳚म् । अ॒रि॒त्र॒॑पर᳚णीम् । कृ॒णु॒ध्व॒म् ।
इष्कृ᳚णुध्वम् । आयु᳚धा । अर᳚म् । कृ॒णु॒ध्व॒म् । प्राञ्च᳚म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रा मन्द्राणि मदकराणि स्तोत्राणि कृणुध्वम्। कुरुध्वं हे सखायः। क्रुवि हिंसाकरणयोः। धिन्विक्रुण्व्योरच्चॆत्युप्रत्ययः। अकारश्चान्तादेशः। यद्वा। करोतेर्व्यत्ययेन श्नुः। तथा धियः कर्माणि चयनप्रदेशकर्षणादीन्यातनुध्वम्। विस्तारयत। तथरित्रपरणीं कर्षणादिरूपेणारित्रेण पारयितव्याम् नावं चयनाख्यां क्रुणुध्वम्। कुरुध्वम्। तथायुधायुधानि सीरयुगादीन्यरमलं कृणुध्वम्। हे सखाय ऋत्विजः प्राञ्चं प्रागञ्चनं यज्ञं यश्तव्यमग्निं प्रणयत। प्रकर्षेण नयत। आदौ कर्षणं प्राञ्चं कुरुतेत्यर्थः॥२॥

10.101.3
यु॒नक्त॒ सीरा॒ वि यु॒गा त᳚नुध्वं कृ॒ते योनौ᳚ वपते॒ह बीज᳚म् ।
गि॒रा च᳚ श्रु॒ष्टिः सभ᳚रा॒ अस᳚न्नो॒ नेदी᳚य॒ इत्सृ॒ण्य᳚ः प॒क्वमेया᳚त् ॥
▶ पदपाठः (Word-by-word)
यु॒नक्त᳚ । सीरा᳚ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ᳚ । व॒प॒त॒ । इ॒ह । बीज᳚म् ।
गि॒रा । च॒ । श्रु॒ष्टिः । स॑भ᳚राः । अस᳚त् । नः॒ । नेदी᳚यः । इत् । सृ॒ण्यः᳚ । प॒क्वम् । आ । इ॒या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः यूयं सीरा सीराणि युनक्त। युंग्ध्वमनडुद्भिः सह। युजेर्लोटि तप्तनप्तनथनाश्चेति तबादेशः। आत एवाङित्त्वाच्छ्नसोरल्लोप इत्यल्लोपाभावः। तदर्थं युगा युगानि वि तनुध्वम्। विस्तारयध्वम्। कृते च योनाविह सीतायां बीजं ग्राम्यमारण्यं च वपत निधत्त। तिलमाषव्रीह्यादिकं ग्राम्यसप्तकं वेणुश्यामाकनीवारकादिकमारण्यबीजसप्तकं च। कृष्टाकृष्टयोर्निवपतेत्यर्थः। सप्त ग्राम्याः कृष्टे सप्तारण्य अकृष्ट इत्यापस्तम्बः। तथा नोऽस्माकम् गिरा स्तुत्या प्रशस्त्या सहास्माकं श्रुष्टिरन्नं सभराः सभरमसत्। भवति। भवतु। तथा नेदीय इदन्तिकमेव सृण्यः। स्रुणिरंकुशः। अङ्कुशवद्वक्रो लवित्रः। पक्वं स्तम्बमेयात्। आभिमुख्येन गच्छतु। श्रुष्टिः सभरा असत् सृण्यः पक्वमेयादिति चशब्दानुव्रुत्तेश्चवायोगे प्रथमेति प्रथमस्य निघाताभावः॥३॥

10.101.4
सीरा᳚ युञ्जन्ति क॒वयो᳚ यु॒गा वि त᳚न्वते॒ पृथ᳚क् ।
धीरा᳚ दे॒वेषु᳚ सुम्न॒या ॥
▶ पदपाठः (Word-by-word)
सीरा᳚ । यु॒ञ्ज॒न्ति॒ । क॒वयः᳚ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ᳚क् ।
धीराः᳚ । दे॒वेषु᳚ । सु॒म्न॒॑या ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवयो मेधाविन ऋत्विजः सीरा सीराणि कर्षणसाधनानि युञ्जन्ति। योजयन्ति। युगा युगान्यपि पृथक् परस्परं वि तन्वते। भिन्नप्रदेशानि कुर्वन्ति। कीदृशाः कवयः। देवेषु विषये धीरा धीमन्तः। किमर्थं सुम्नया। सुम्नमिति सुखनाम। सुखेच्छया। सुम्नशब्दात्क्यजन्ताद्भावे अ प्रत्ययादित्यकारप्रत्ययः। सुपां सुलुगिति तृतीयाया आकारः। अथवा धीरा धीमन्तो देवेषु सुम्नया सुम्नेन। देवेषु सुखं भूयादिति। सुपां सुलुगिति विभक्तेर्याजादेशः॥४॥

10.101.5 समानपद
निरा᳚हा॒वान्कृ᳚णोतन॒ सं व᳚र॒त्रा द᳚धातन ।
सि॒ञ्चाम᳚हा अव॒तमु॒द्रिणं᳚ व॒यं सु॒षेक॒मनु᳚पक्षितम् ॥
▶ पदपाठः (Word-by-word)
निः । आ॒॑हा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ ।
सि॒ञ्चाम᳚है । अ॒व॒तम् । उ॒द्रिण᳚म् । व॒यम् । सु॒॑सेक᳚म् । अनु᳚प॑क्षितम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः आहावान्। आहूयन्ते पानार्थम् गावोऽत्रेत्याहावा निपाणानि। अत्रोचित्यादग्निचयनप्रदेशकर्षणार्थगोपानसाधनद्रुममयपनपात्राण्युच्यन्ते तानाहावान् निष्कृणोतन। निश्कुरुत। आहूयतेर्निपानमाहावः। पा. ३-३-७४। इति नोपातितः। थाथादिस्वरः। कृणोतन। तप्तनभित्यादिना तनप्। तेनाङित्त्वाद्गुणः श्नाभ्यस्तयोरात इत्याकारलोपः। किमर्थमाहावकरनं वरत्रस्थापनं चेति। अत्रोच्यते। वयमवतमवटं सिञ्चामहै। कीदृशमवटम्। उद्रिणमुद्द्राववन्तं सुषेकं सुष्ठु सेक्तुं शक्यं अनुपक्षितमनुपक्षीणं कदाचिदुदकोपक्शयरहितम्॥५॥

10.101.6
इष्कृ᳚ताहावमव॒तं सु᳚वर॒त्रं सु᳚षेच॒नम् ।
उ॒द्रिणं᳚ सिञ्चे॒ अक्षि᳚तम् ॥
▶ पदपाठः (Word-by-word)
इष्कृ᳚त॑आहावम् । अ॒व॒तम् । सु॒॑व॒र॒त्रम् । सु॒॑से॒च॒नम् ।
उ॒द्रिण᳚म् । सि॒ञ्चे॒ । अक्षि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इष्कृताहावं संस्कृताहावमवतमवटम् द्रॊणं सिञ्चे। सेचयामि। पुनः कीदृशमवटम्। सुवरत्रं शोभनवरत्रोपेतं सुशेचनं शोभनोदकसेकोपेतं उद्रिणमुद्द्राववन्तं अक्षितमक्षीणम्।।६॥

10.101.7
प्री॒णी॒ताश्वा᳚न्हि॒तं ज᳚याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ᳚णुध्वम् ।
द्रोणा᳚हावमव॒तमश्म᳚चक्र॒मंस᳚त्रकोशं सिञ्चता नृ॒पाण᳚म् ॥
▶ पदपाठः (Word-by-word)
प्री॒णी॒त । अश्वा᳚न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒॑वाह᳚म् । रथ᳚म् । इत् । कृ॒णु॒ध्व॒म् ।
द्रोण᳚॑आहावम् । अ॒व॒तम् । अश्म᳚॑चक्रम् । अंस᳚त्र॑कोशम् । सि॒ञ्च॒त॒ । नृ॒॑पान᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः यूयमश्वान्व्यापनशीलान्बलिवर्दान्प्रीणित। उचितघासोदकादिप्रदानेन प्रीणयत। यथा क्षेत्रकर्षणाय प्रभवन्ति तथा कुरुतेत्यर्थः। तथा कृत्वा हितं चयनायोचितं कर्षणं जयाथ। जयथ। सम्पादयथ। तथा रथं चयनाख्यं हलाख्यं वा स्वस्तिवाहमित् सखस्य वाहकमेव कृणुध्वम्। कुरुध्वम्। तदर्थं द्रोणाहावम्। आहूयन्त्यत्र पानार्थं बलिवर्दानित्याहावो जलाधारः पत्रविशेषः। स च द्रोनमयो द्रुममय आहावो यस्य तादृशमवतमवटवन्निम्नभूतमश्मचक्रं व्याप्तक्रमनमश्ममयचक्रं वांसत्रकोशं अंसत्रं कवचं यथा कायं रक्षति तद्वदुदकस्य कोशं कोशस्थानीयं नृपाणं नॄणां कर्मनेतॄणां पानयोग्यमिदृशमवतं सिञ्चत हे ऋत्विजः। एवम्रुत्विक्स्तुतिर्वेति पक्षे। सूक्तस्य वैश्वदेवकप्ष एवं योजना। प्रीणीत प्रीणयताश्वान्। स्नानपानयोग्यान्नैः सङ्ग्रामयोग्यान्कुरुतेत्यर्थः। हितं जयाथ। हितमिति क्रियाविशेषणम्। कथं जयथ। बन्धु सुहृद्भ्यो यथा हितं भवति तथा जयथ सङ्ग्रामम्। स्वस्तिवाहम्। स्वस्तीत्यविनाशनाम। अविनाशवाहनं रथमिद्रथं च क्रुणुध्वम्। इदिति चार्थे। अश्वरथं च दृधं कृत्वा सङ्ग्रामभूमिं गत्वा द्रोणाहावमित्यादीनि द्वितीयान्तानि कूपाख्य सङ्ग्रामविशेशणानि सिञ्चतेत्यनेन सम्बध्यते। द्रोणो द्रुममयः स एव रथ आहाव आहावस्थानीयो यस्य सङ्ग्रामस्य त अवतम्। कूपनामैतत्। कूपं सङ्ग्रामाख्यम्। अश्मचक्रं कूपप्रान्तनिबद्धाश्मसदृशप्रहरणायुधवन्तम्। असनानि वा क्षेपनानि वा चक्राख्यायुधविशेशा यस्मिन् तम्। व्याप्तचरनवन्तम् व्याप्तक्रमनवन्तं वा। चक्रं चकतेवा चरतेर्वा क्रामतेर्वेति निरुक्तम्। ४-२७। अंसत्रकोशं अंसत्राणि धनूंषि कवचाइ च कोशस्थानीयानि यस्मिन् तं सिञ्चत। न्रुपाणं यस्मिन्योद्धार उदकवत्पीयन्ते मार्यन्ते तम्। ईद्रुशं कूपसदृशं सङ्ग्रामं सिञ्चत हे अस्मदीया योद्धायः। सूक्तस्य वैश्वदेवत्वाद्धे सैनका विश्वेषां देवानां प्रसादेन सर्वमेतत्कुरुतेत्यर्थः। एवं निराहावानित्यादिषु कूपरूपव्याजेन सङ्ग्रामवर्ननमवगन्तव्यम्॥७॥

10.101.8 समानपद
व्र॒जं कृ᳚णुध्वं॒ स हि वो᳚ नृ॒पाणो॒ वर्म᳚ सीव्यध्वं बहु॒ला पृ॒थूनि᳚ ।
पुरः᳚ कृणुध्व॒माय᳚सी॒रधृ᳚ष्टा॒ मा वः᳚ सुस्रोच्चम॒सो दृंह᳚ता॒ तम् ॥
▶ पदपाठः (Word-by-word)
व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒॑पानः᳚ । वर्म᳚ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि᳚ ।
पुरः᳚ । कृ॒णु॒ध्व॒म् । आय᳚सीः । अधृ᳚ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह᳚त । तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः व्रजं कृणुध्वम्। व्रजं गोष्ठं कुरुध्वम्। आशिरदोहार्थं गोस्थानं कुरुत। स हि स खलु वो नृपाणो नेतॄणाम् देवानां पातव्यः। देवपानसाधन इति। सांनाय्यरूपेन वाशिररूपेण वा गोः पयाअदिकं देवाः पिबन्ति खलु। वर्म वर्माणि सीव्यध्वम्। वर्मवत्प्रधानस्योभयत आच्छादकत्वात्प्रयाजादीनि प्राच्यनि प्रतीच्यानि चाङ्गानि वर्माणि। तानि सीव्यध्वम्। दलयध्वम्। कुरुध्वमित्यर्थः। कीदृशानि वर्माणि। बहुला बहुलान्यनेकानि। तानि च पृघूनि विस्तीर्णानि। तथा पुरः पुराणि धिष्ण्यादीनि यष्टव्यानां देवानाम् वा पुरः शरीराण्यायसीरयोमयवत् सारभूता अधृष्टा अन्यैरधृष्याः। पूरणिया ग्रहा वा पुर इत्युच्यन्ते। तानुक्तलक्षणान्कुरुत। वो युश्मदीयश्चमसो यज्ञाख्यो भक्षनसाधनश्चमस एव वा। चमसपक्षे सामन्येनैकवचनम्। मा सुस्रोत्। मा स्रवेत्। स्रवतेर्लङि बहुलं छन्दसीति शपः श्लुः। तं दृहन्त। धृहीकुरुत। यथा विकलो न भवति तथा कुरुत। दृह दृहि व्रुद्धौ भौवादिकः। तस्माल्लोटीदित्त्वान्नुम्। ऋत्विक्स्तुतिपक्श एवम्। वैश्वदेवपक्षे। अस्मदीया योद्धारो यूयम्। नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणानिति नृपाणः। स ताद्रुशो युश्मदीयः खलु। गोष्ठपक्शे नराणाम् पानसाधनः स खलु। पातेः करणाधिकरनयोश्चेति ल्युट्। वर्म वर्मानि कवचानि सीव्यध्वं बहुलानि पृथूनि च यथा भवन्ति तथा। पुरः पुरीः क्रुणुध्वमायसीरन्यैरधृष्टाश्व। वश्चमसोऽदनसाधनो मा सुस्रोत्। मा स्रवेत्। तं दृंहतेति। इति देवतानुग्रहलब्धबलो वदति॥८॥

10.101.9
आ वो॒ धियं᳚ य॒ज्ञियां᳚ वर्त ऊ॒तये॒ देवा᳚ दे॒वीं य᳚ज॒तां य॒ज्ञिया᳚मि॒ह ।
सा नो᳚ दुहीय॒द्यव᳚सेव ग॒त्वी स॒हस्र᳚धारा॒ पय᳚सा म॒ही गौः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । धिय᳚म् । य॒ज्ञिया᳚म् । व॒र्ते॒ । ऊ॒तये᳚ । देवाः᳚ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया᳚म् । इ॒ह ।
सा । नः॒ । दु॒ही॒य॒त् । यव᳚सा॑इव । ग॒त्वी । स॒हस्र᳚॑धारा । पय᳚सा । म॒ही । गौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः स्तोतार ऋत्विजः वो युश्माकमूतये यज्ञियां यज्ञार्हां धियं बुद्धिमा वर्ते। प्रवर्तये। यद्वा। हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन सम्बन्धिनीमस्माकमूतये रक्षणाय वर्ते। अपि च देवा एव सम्बोध्याः। हे देवाः वो युष्माकं धियं बुद्धिमा वर्ते। आवर्तयामि। किमर्थम् । ऊतयेऽस्माकं रक्शणाय। कीदृशीं धियम्। यज्ञियां यज्ञार्हां देवीं द्योतमानां यजतां पुज्याम्। इहास्मिन्यागेऽस्यां भूमौ व। एको यज्ञियामिति शब्दः पूरणः। सा धीर्नोऽस्माकं दुहीयत्। दुह्यात्। तत्र दृष्टान्तः। यवसेव यवसानि भक्षयित्वेन गत्वी पुनर्गोष्ठम् गत्व पीत्वीतिवत्। पयसा सहस्रधारा मही महती गौर्यथा दुग्धे तद्वत्॥९॥

10.101.10
आ तू षि᳚ञ्च॒ हरि᳚मीं॒ द्रोरु॒पस्थे॒ वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः ।
परि᳚ ष्वजध्वं॒ दश᳚ क॒क्ष्या᳚भिरु॒भे धुरौ॒ प्रति॒ वह्निं᳚ युनक्त ॥
▶ पदपाठः (Word-by-word)
आ । तु । सि॒ञ्च॒ । हरि᳚म् । ई॒म् । द्रोः । उ॒प॑स्थे᳚ । वाशी᳚भिः । त॒क्ष॒त॒ । अ॒श्म॒न्॑मयी᳚भिः ।
परि᳚ । स्व॒ज॒ध्व॒म् । दश᳚ । क॒क्ष्या᳚भिः । उ॒भे इति᳚ । धुरौ᳚ । प्रति᳚ । वह्नि᳚म् । यु॒न॒क्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो त्वमेनम् हरिं हरितवर्णम् सोमं द्रोर्द्रुमविकारस्य पात्रस्योपस्थ उपर्या सिञ्च। आसेकं कुरु। त्विति पूरहः । तदर्थं हे पात्रसम्पादिनः अश्मन्मयीभिरयः शिलासारभूताभिर्वाशीभिस्तक्षत पात्राणि। नकारोपजनश्छान्दसः। मयटः टित्त्वाद् ङेप्। तानि पात्राणि सोमपूर्णानि दश दशसंख्याकानि कक्ष्याभिः प्रकारैः पर्यायेण परि ष्वजध्वम्। संस्कुरुध्वम्। आसादयत। यद्वा। वाशीभिरश्म। न्मयीभिर्हविर्धानशकटे तक्षत। ते च दश कक्ष्याभिर्दशसङ्ख्याकाभी रज्जुभिः परि ष्वजध्वम् उभे धुरौ युगसम्बन्धिन्यौ प्रति वह्नी वाहकावनवाहौ युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षनसाधनहलाविषयतया व्याख्येयः॥१०॥

10.101.11
उ॒भे धुरौ॒ वह्नि᳚रा॒पिब्द᳚मानो॒॑न्तर्योने᳚व चरति द्वि॒जानि᳚ः ।
वन॒स्पतिं॒ वन॒ आस्था᳚पयध्वं॒ नि षू द᳚धिध्व॒मख᳚नन्त॒ उत्स᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । धुरौ᳚ । वह्निः᳚ । आ॒॑पिब्द᳚मानः । अ॒न्तः । योना᳚॑इव । च॒र॒ति॒ । द्वि॒॑जानिः᳚ ।
वन॒स्पति᳚म् । वने᳚ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख᳚नन्तः । उत्स᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हविर्धानशकटस्योभे धुरावापिब्दमान आपिशब्दमानो वह्निर्हविर्वाहकोऽनवान् योनावन्तरिव द्विजानिर्द्विजायः। तयोरन्तश्चरति। तं वनस्पतिं वनस्पतिविकारं शकटं वने वनसम्बन्धिनि वृक्शे। मेथीभूत इत्यर्थः। तत्रास्थापयध्वम्। यद्वा। वने वननीये देश आस्थापयध्वम्। तत्पश्चात्तत्रत्यं सोमं सु सुष्ठु नि दधिध्वम्। सुखं यथा भवति तथा स्थापयतासंद्याम्। अभिषवपदेशे च पश्चादुत्सं तद्रसमखनन्तः सम्पादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः। यस्य लाङ्ग्लस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनवान् अन्तर्योनानिवेत्यादि समानम्। तादृशं वनस्पतिं वनस्पतिविकारं लाङ्ग्लं वने वननीये वपनार्थं कर्षनप्रदेश आस्थापयध्वम्। सु सुष्ठु सर्वत्र तम् लाङ्गलं नि दधिध्वम्। उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः॥११॥

10.101.12
कपृ᳚न्नरः कपृ॒थमुद्द᳚धातन चो॒दय᳚त खु॒दत॒ वाज᳚सातये ।
नि॒ष्टि॒ग्र्य᳚ः पु॒त्रमा च्या᳚वयो॒तय॒ इन्द्रं᳚ स॒बाध᳚ इ॒ह सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
कपृ᳚त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय᳚त । खु॒दत᳚ । वाज᳚॑सातये ।
नि॒ष्टि॒ग्र्यः᳚ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये᳚ । इन्द्र᳚म् । स॒॑बाधः᳚ । इ॒ह । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

षष्ठेऽहनि ब्राह्मनाच्छन्ंसिशस्त्रे कपृन्नर इत्येषा। कृपन्नरो यद्ध प्राचीरजगन्तेति चैते। आ. ८-३। इति॥

हे नरो नेतार ऋत्विजः एष इन्द्रः कपृत्। सुखस्य पूरको यष्टॄणां स्तोतॄनां च। कमिति सखनाम। तं कपृथं सुखस्य पूरयितारमिन्द्रं चोदयत। प्रेरयत। खुदत। खुर्दत। क्रीअयत। खुर्द क्रीडायां भौवादिकः। व्यत्ययेनशः। रेफलोपश्छान्दसः। सम्पिंष्ट। संस्कुरुतेत्यर्थः। किमर्थम् । वाजसातयेऽन्नस्य लाभा तदेवाह। हे होतः निष्ट्र्ग्र्यः पुत्रम् । निश्टिं दितिं स्वसपत्नीं गिरतीति निष्टिग्रीरदितिः। तस्याः पुत्रमिन्द्रं सबाधः। सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं सोमपीतये तस्य सोमपानयोतयेऽस्माकं रक्षणाय वा च्यवय। व्यत्ययेनैकवचनम्। आच्यवयतेत्यर्थः॥१२॥