अ॒हं भु᳚वं॒ यज᳚मानस्य चोदि॒ताय᳚ज्वनः साक्षि॒ विश्व᳚स्मि॒न्भरे᳚ ॥
पदपाठः (Word-by-word)
अ॒हम् । भु॒व॒म् । यज᳚मानस्य । चो॒दि॒ता । अय᳚ज्वनः । सा॒क्षि॒ । विश्व᳚स्मिन् । भरे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अहं दामित्येकादशर्चं सप्तमं सूक्तम् । वैकुण्ठ एवर्षिर्देवता च। द्वितीयैकादश्यौ त्रिष्टुभौ। शिष्टा जगत्यः। अनुक्रान्तं च। अहं दामन्त्योपाद्येचेति। द्वितीयै रात्रिपर्याये मैत्रावरुणस्येदं सूक्तम् । सूत्रितं च। अहं दां पाता सुतमिन्द्रो अस्तु सोमम्। आ. ६-४। इति॥
अहमिन्द्रो गृणते स्तुवते पूर्व्यं मुख्यं वसु धनं दाम् । अदाम् । अहमेव ब्रह्म परिवृहं कर्म स्तुतिलक्शणं मह्यम् वर्धनं कृणवम् । करोमि। स्तोतुः सम्बन्धि स्तोत्रं तस्मै धनं प्रयच्छन् महम्येव वर्धनं करोमीत्यर्थः। तथाहं याजमानस्य मामुद्दिश्य यष्टुर्धनस्य चोदिता प्रेरको भुवम् । भवामि। अयज्वनोऽयष्टुः। अयष्टारमित्यर्थः। तं विश्वस्मिन्भरे सर्वस्मिन्नपि सङ्ग्रामे साक्षि। अभिभवामि॥१॥