अ॒हं पि॒तेव᳚ वेत॒सू{4}र॒भिष्ट᳚ये॒ तुग्रं॒ कुत्सा᳚य॒ स्मदि᳚भं च रन्धयम् ।
अ॒हं भु᳚वं॒ यज᳚मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज᳚ये॒ न प्रि॒याधृषे᳚ ॥
अ॒हं भु᳚वं॒ यज᳚मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज᳚ये॒ न प्रि॒याधृषे᳚ ॥
पदपाठः (Word-by-word)
अ॒हम् । पि॒ता॑इ᳚व । वे॒त॒सून् । अ॒भिष्ट᳚ये । तुग्र᳚म् । कुत्सा᳚य । स्मत्॑इ᳚भम् । च॒ । र॒न्ध॒य॒म् ।
अ॒हम् । भु॒व॒म् । यज᳚मानस्य । रा॒जनि᳚ । प्र । यत् । भ॒रे॒ । तुज᳚ये । न । प्रि॒या । आ॒॑धृषे᳚ ॥
अ॒हम् । भु॒व॒म् । यज᳚मानस्य । रा॒जनि᳚ । प्र । यत् । भ॒रे॒ । तुज᳚ये । न । प्रि॒या । आ॒॑धृषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अहमिन्द्रः पितेव पिता पुत्रायेव स यथा तस्मै निर्वाहार्थमभिमतम् प्रदेशं प्रसाधयति तद्वद्वेतसूनेतन्नामकाञ्जनपदानभिष्टयेऽभीच्छते कुत्साय महर्षये तुग्रं स्मदिभं च रन्धयम् । वशमनयम् । अहं यजमानस्य राजनि राजनार्थं भुवम् । आभवम् । समर्थ इति शेषः। यद्यस्मात्तुजये न पुत्रायेव पिता तस्मै यजमानायाधृषे शत्रूणां धर्षणाय प्रिया प्रियाणि प्र भरे प्रभारामि तस्माद्यजमानस्य राजनि भुवमिति सम्बन्धः॥४॥