श्रवणम्

10.49.9
अ॒हं स॒प्त स्र॒वतो᳚ धारयं॒ वृषा᳚ द्रवि॒त्न्व᳚ः पृथि॒व्यां सी॒रा अधि᳚ ।
अ॒हमर्णां᳚सि॒ वि ति᳚रामि सु॒क्रतु᳚र्यु॒धा वि᳚दं॒ मन᳚वे गा॒तुमि॒ष्टये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । स॒प्त । स्र॒वतः᳚ । धा॒र॒य॒म् । वृषा᳚ । द्र॒वि॒त्न्वः᳚ । पृ॒थि॒व्याम् । सी॒राः । अधि᳚ ।
अ॒हम् । अर्णां᳚सि । वि । ति॒रा॒मि॒ । सु॒॑क्रतुः᳚ । यु॒धा । वि॒द॒म् । मन᳚वे । गा॒तुम् । इ॒ष्टये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा वर्षकोऽहं सप्त स्रवतः स्रवन्तीर्नदीर्धारयम् । अधारयम् । कीदृश्यस्ताः। द्रवित्न्वो द्रवन्तीः। वा छन्दसीति पूर्वसवर्णदीर्घाभावः। सीराः सरणशीलाः। कुत्र। पृथिव्याम् । सुक्रतुः शोभनकर्माहमर्णांस्युदकानि वि तिरामि। प्रयच्छामि। किञ्च मनवे मनुष्यायेष्टये तस्य गमनाय गातुं मार्गं युधा सम्प्रहारेण। निरोधपरिहारेणेत्यर्थः। विदम् । अलभम्। प्रायच्छमित्यर्थः। विदेर्लाभार्थस्य पुषादित्वात्। पा. ३-१-५५। च्लेरङ्॥९॥