दशमं मण्डलम् - सूक्तम् 6

7 ऋचः

ऋषिः: त्रित आप्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.6 - सम्पूर्णम्

1 / 7
ऋक्: 10.6.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.6.1
अ॒यं स यस्य॒ शर्म॒न्नवो᳚भिर॒ग्नेरेध᳚ते जरि॒ताभिष्टौ᳚ ।
ज्येष्ठे᳚भि॒र्यो भा॒नुभि᳚रृषू॒णां प॒र्येति॒ परि᳚वीतो वि॒भावा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । यस्य᳚ । शर्म᳚न् । अवः᳚॑भिः । अ॒ग्नेः । एध᳚ते । ज॒रि॒ता । अ॒भिष्टौ᳚ ।
ज्येष्ठे᳚भिः । यः । भा॒नु॑भिः᳚ । ऋ॒षू॒णाम् । प॒रि॒॑एति᳚ । परि᳚॑वीतः । वि॒भा॑वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

सप्तमस्याष्टकस्येत्थं व्याकार्षीत्पंवमंसुधीः । सायणाह्वस्ततः षष्ठमध्यायंव्याचिकीर्षति ॥ २ ॥

दशमे मंडले प्रथमेनुवाके षोडश सूक्तानि तत्रायंसयस्येति सप्तर्चं षष्ठं सूक्तं आप्त्यस्य त्रितस्यार्षं त्रिष्टुभमाग्नेयम् । अयमित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

जरिता स्तोता अभिष्टौ यागे कृते यस्याग्नेरवोभिः पालनैः शर्मन् शर्मणि स्वगृहे एधते वर्धते । सोयमग्निर्यागार्थमस्माभिराहूतइतिशेषः । विभावा दीप्तिमान् योग्निःऋषूणां सूर्यरश्मीनां ज्येष्ठेभिः प्रशस्तैः भानुभिस्तेजोभिः परिवीतः परिवृतः पर्येति सर्वतोगच्छति । यत्रयत्र गंतव्यं तत्रतत्राप्रतिहतगतिर्गच्छतीत्यर्थः ॥ १ ॥

10.6.2
यो भा॒नुभि᳚र्वि॒भावा᳚ वि॒भात्य॒ग्निर्दे॒वेभि᳚रृ॒तावाज᳚स्रः ।
आ यो वि॒वाय᳚ स॒ख्या सखि॒भ्यो॑प᳚रिह्वृतो॒ अत्यो॒ न सप्ति᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । भा॒नु॑भिः᳚ । वि॒भा॑वा᳚ । वि॒॑भाति᳚ । अ॒ग्निः । दे॒वेभिः᳚ । ऋ॒त॑वा᳚ । अज᳚स्रः ।
आ । यः । वि॒वाय᳚ । स॒ख्या । सखि᳚॑भ्यः । अप᳚रि॑ह्वृतः । अत्यः᳚ । न । सप्तिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावा सत्यवान् यज्ञवान्वा अजस्रः अनुपक्षीणः अहिंसितोवा केनचिदनभिभूतइत्य र्थः । विभावा दीप्तिमान् योग्निः देवेभिर्देवैर्द्योतमानैः भानुभिस्तेजोभिर्विभाति विविधंदी- प्यते । किंच योग्निः सख्या सख्यानि सखिभिः कर्तव्यानि कर्माणि हविरादीनि कतुमिति शेषः सखिभ्यः सखिभूतानां यजमानानामर्थाय अपरिहृतः अपरिहिंसितः अपरिश्रान्तइत्य र्थः आविवाय आभिमुख्येन गच्छति । तत्र दृष्टान्तः—सप्तिः सदासर्पणइत्यर्थः अत्योन यथा सततगमनसमर्थोश्वः अपरिश्रान्तोगच्छति तद्वत् सोयमग्निरस्माभिर्यागार्थमाहूतइति पूर्ववत् योज्यं ॥ २ ॥

10.6.3 समानपद
ईशे॒ यो विश्व᳚स्या दे॒ववी᳚ते॒रीशे᳚ वि॒श्वायु᳚रु॒षसो॒ व्यु᳚ष्टौ ।
आ यस्मि᳚न्म॒ना ह॒वींष्य॒ग्नावरि᳚ष्टरथः स्क॒भ्नाति᳚ शू॒षैः ॥
▶ पदपाठः (Word-by-word)
ईशे᳚ । यः । विश्व᳚स्याः । दे॒व॑वी᳚तेः । ईशे᳚ । वि॒श्व॑आ᳚युः । उ॒षसः᳚ । वि॑उ᳚ष्टौ ।
आ । यस्मि᳚न् । म॒ना । ह॒वींषि᳚ । अ॒ग्नौ । अरि᳚ष्ट॑रथः । स्क॒भ्नाति᳚ । शू॒षैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्विश्वस्य देववीतेः सर्वस्य यज्ञस्य ईशे ईष्टे । अपिच विश्वायुः सर्वत्राप्रतिहतगम- नः उषसोव्युष्टौ विवासने उदयकाले होमार्थं यजमानानामीशे ईष्टे । शूषैः शत्रुबलैः अरि ष्टरथः अहिंसितयज्ञरथः सर्वपव यजमानः यस्मिन्नग्नौ मना मननीयानि हवींषि आस्क- भ्नाति आदरेण प्रतिबध्नाति प्रक्षिपति सोयमग्निरस्माभिर्यागार्थमाहूतइत्यर्थः ॥ ३ ॥

10.6.4
शू॒षेभि᳚र्वृ॒धो जु᳚षा॒णो अ॒र्कैर्दे॒वा{4} अच्छा᳚ रघु॒पत्वा᳚ जिगाति ।
म॒न्द्रो होता॒ स जु॒ह्वा॒३॒᳚ यजि᳚ष्ठ॒ः सम्मि᳚श्लो अ॒ग्निरा जि᳚घर्ति दे॒वान् ॥
▶ पदपाठः (Word-by-word)
शू॒षेभिः᳚ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ᳚ । र॒घु॒॑पत्वा᳚ । जि॒गा॒ति॒ ।
म॒न्द्रः । होता᳚ । सः । जु॒ह्वा᳚ । यजि᳚ष्ठः । सम्॑मि᳚श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृधः वर्धितोग्निः शूषेभिर्हविर्लक्षणैर्बलैः बलनिमित्तैर्हविर्भिरित्यर्थः अर्कैः स्तोत्रैश्च जुषा- णः सेव्यमानः सन् देवानिन्द्रादीनच्छाप्तुं रघुपत्वा लघुपतनः शीघ्रगामी जिगाति । गत्वा- च मन्द्रः स्तुत्यः होता देवानामाह्वाता होमनिष्पादकोवा जुह्वा यजिष्ठः यष्टृतमः संमि- श्लः सगुणैर्देवैर्वासंप्रयुक्तः सोग्निर्देवान्प्रति हविराजिघर्ति आहारयति देवेभ्योहविर्ददातीत्य- र्थः ॥ ४ ॥

10.6.5
तमु॒स्रामिन्द्रं॒ न रेज᳚मानम॒ग्निं गी॒र्भिर्नमो᳚भि॒रा कृ᳚णुध्वम् ।
आ यं विप्रा᳚सो म॒तिभि᳚र्गृ॒णन्ति᳚ जा॒तवे᳚दसं जु॒ह्वं᳚ स॒हाना᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । उ॒स्राम् । इन्द्र᳚म् । न । रेज᳚मानम् । अ॒ग्निम् । गीः॒॑भिः । नमः᳚॑भिः । आ । कृ॒णु॒ध्व॒म् ।
आ । यम् । विप्रा᳚सः । म॒ति॑भिः᳚ । गृ॒णन्ति᳚ । जा॒त॑वे᳚दसम् । जु॒ह्व᳚म् । स॒हाना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजोयूयं उस्रां भोगानामुत्स्राविणं दातारं रेजमानं ज्वालात्मना कंपमानं तम- ग्निं इन्द्रंन इन्द्रमिव गीर्भिः स्तुतिभिर्नमोभिर्हविर्भिश्च आकृणुध्वं अस्मदभिमुखं कुरुत । विप्रासोमेधाविनः स्तोतारः सहानां शत्रुबलाद्यभिभवितॄणां देवानां जुह्वमाह्वातारं जात- वेदसं जातधनं जातप्रज्ञंवा यमग्निं आगृणन्ति आदरेण स्तुवन्ति तमाकृणुध्वमिति पूर्वेण संबन्धः ॥ ५ ॥

10.6.6
सं यस्मि॒न्विश्वा॒ वसू᳚नि ज॒ग्मुर्वाजे॒ नाश्वा॒ः सप्ती᳚वन्त॒ एवै᳚ः ।
अ॒स्मे ऊ॒तीरिन्द्र᳚वाततमा अर्वाची॒ना अ᳚ग्न॒ आ कृ᳚णुष्व ॥
▶ पदपाठः (Word-by-word)
सम् । यस्मि᳚न् । विश्वा᳚ । वसू᳚नि । ज॒ग्मुः । वाजे᳚ । न । अश्वाः᳚ । सप्ति᳚॑वन्तः । एवैः᳚ ।
अ॒स्मे इति᳚ । ऊ॒तीः । इन्द्र᳚वात॑तमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्मिन् त्वयि विश्वा विश्वानि वसूनि धनानि संजग्मुः स्वत्वेन संगतानि भवन्ति । तत्र दृष्टान्तः—एवैर्गमनैः सप्तीवन्तः सर्पवन्तः शीघ्रगमनशीलाः समर्थाः अश्वाः वाजे न यथा संग्रामे संगतास्तद्वत् । हेअग्ने सत्वं इन्द्रवाततमाः इन्द्रेणाभिगताः ऊतीः रक्षाः अस्मे अस्मासु अर्वाचीनाः अभिमुखीः आकृणुष्व आदरेण कुरु ॥ ६ ॥

10.6.7
अधा॒ ह्य᳚ग्ने म॒ह्ना नि॒षद्या᳚ स॒द्यो ज᳚ज्ञा॒नो हव्यो᳚ ब॒भूथ᳚ ।
तं ते᳚ दे॒वासो॒ अनु॒ केत᳚माय॒न्नधा᳚वर्धन्त प्रथ॒मास॒ ऊमा᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒॑सद्य᳚ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः᳚ । ब॒भूथ᳚ ।
तम् । ते॒ । दे॒वासः᳚ । अनु᳚ । केत᳚म् । आ॒य॒न् । अध᳚ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः᳚ । ऊमाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथानन्तरं हियस्मात् अग्ने त्वं मह्ना महत्वेन जज्ञानोजायमानः ज्वलन्निषद्य उप विश्य सद्यस्तस्मिन् प्रजननकालएव हव्योहवनार्हः आहुतिप्रक्षेपार्हः बभूथ भवसि । तस्मा- त् का रणात् देवासः हविषां दातारः ऋत्विग्यजमानाः ते तव स्वभूतं तं तादृशं केतं प्रज्ञानलक्षणं अन्वायन् अनुगच्छन्ति दीप्ते त्वयि हवींषि जुह्वतीत्यर्थः । अध अथानन्तरं ऋत्विगादयः प्रथमासः क्रियाभिजनविद्यागुणैरुत्कृष्टाः ऊमाः त्वयारक्षिताः सन्तः अवर्धन्त वर्धन्ते ॥ ७ ॥

स्वस्तिनइति सप्तर्चं सप्तमं सूक्तं ऋष्याद्याः पूर्ववत् । स्वस्तीत्यनुक्रान्तम् । उक्तः सूक्त- विनियोगः । स्वस्त्ययन्यां प्रधानस्य स्वस्तिनइत्येषानुवाक्या । सूत्रितंच—अग्निः स्वस्तिमान् स्वस्तिनोदिवोअग्नेपृथिव्याइति ।