दशमं मण्डलम् - सूक्तम् 19

8 ऋचः

ऋषिः: मथितो यामायनो भृगुर्वा वारुणिश्च्यवनो वा भार्गवः देवता: आपो गावो वा;अग्नीषोमौ छन्दः: अनुष्टुप्

सूक्तम् 10.19 - सम्पूर्णम्

1 / 8
ऋक्: 10.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.19.1
नि व᳚र्तध्वं॒ मानु᳚ गाता॒स्मान्त्सि᳚षक्त रेवतीः ।
अग्नी᳚षोमा पुनर्वसू अ॒स्मे धा᳚रयतं र॒यिम् ॥
▶ पदपाठः (Word-by-word)
नि । व॒र्त॒ध्व॒म् । मा । अनु᳚ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रे॒व॒तीः॒ ।
अग्नी᳚षोमा । पु॒न॒र्व॒सू॒ इति᳚ पुनः॑वसू । अ॒स्मे इति᳚ । धा॒र॒य॒त॒म् । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वंदेविद्यातीर्थमहेश्वरं ॥ १ ॥

अष्टके सप्तमेषष्ठं व्याख्याय श्रुतिकोविदः । सायणार्यस्स्द्ततोध्यायं सप्तमं व्याचिकीर्षति ॥ २ ॥

अथ द्वादशानुवाकात्मकस्य दशममंडलस्य द्वितीयेनुवाके त्रयोदशसूक्तानि तत्र निवर्त- ध्वमित्यष्टर्चं तृतीयं सूक्तं अस्य यमपुत्रोमथिताख्यऋषिः वरुणपुत्रोभृगुर्वाथवा भार्गवश्च्य- वनः षष्ठी गायत्री शिष्टाअनुष्टुभः इदं अब्देवताकं गोदेवताकं वा अग्नीषोमापुनर्वसू इत्य र्धर्चोग्नीषोमदेवताकः । तथाचानुक्रान्तं—विवर्तध्वमष्टौ मथितोभृगुर्वारुणिर्भार्गवश्च्यवनोवापं गव्यं वानुष्टुभमग्नीषोमीयोद्वितीयोर्धर्चः षष्ठी गायत्री । गतोविनियोगः ।

हे गावः हे आपोवा यूयं निवर्तध्वं अस्मान् प्रतिआगच्छत मानुगात अस्मद्व्यतिरिक्तं यजमानं मानुगच्छत । आगत्य च हेरेवतीः रेवत्योधनवत्यः यूयं अस्मान् सिषक्त सेचयत अवगाहत गोदोहनस्नानपानादिद्वारेण सेवध्वमित्यर्थः । हे पुनर्वसू पुनःपुनर्वस्तारौ स्तोतॄणां यष्टृणामाच्छादयितारौ अग्नीषोमा अग्नीषोमौ एतन्नामकौ देवौ युवां अस्मे अस्मासु रयिं व्रीह्यादिलक्षणं धनं धारयतं स्थापयतं ॥ १ ॥

10.19.2
पुन᳚रेना॒ नि व᳚र्तय॒ पुन᳚रेना॒ न्या कु᳚रु ।
इन्द्र᳚ एणा॒ नि य᳚च्छत्व॒ग्निरे᳚ना उ॒पाज᳚तु ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । ए॒नाः॒ । नि । व॒र्त॒य॒ । पुनः᳚ । ए॒नाः॒ । नि । आ । कु॒रु॒ ।
इन्द्रः᳚ । ए॒नाः॒ । नि । य॒च्छ॒तु॒ । अ॒ग्निः । ए॒नाः॒ । उ॒प॒॑आज᳚तु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र मंत्रद्रष्टा स्वात्मानं प्रति ब्रूते हे मदीयात्मन् त्वं एनाः एताः अन्यतोभिगंत्रीः गाआपोवा पुनर्निवर्तय पुनःपुनर्मदभिमुखीकुरु । तदनंतरं एनाः एताः पुनः भूयोभूयः नि- आकुरु नियताः आत्मायत्ताः कुरु । किंच इन्द्रोपि तव सहायभूतः सन् एनाएताः निय- च्छतु त्वदायत्ताः करोतु । अग्निश्च एनाएताः गाः आपोवा उपाजतु उपगमयतु उअपक्षि- पतुवा उपयोग्याः करोत्वित्यर्थः ॥ २ ॥

10.19.3
पुन᳚रे॒ता नि व᳚र्तन्ताम॒स्मिन्पु᳚ष्यन्तु॒ गोप᳚तौ ।
इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति᳚ष्ठतु॒ या र॒यिः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गो॑प᳚तौ ।
इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनाएताःईदृश्योगावः आपोवा पुनर्निवर्तन्तां भूयोभूयोमां प्रत्यागच्छंतु आगत्य । च गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां च पालके अस्मिन्नीदृशे मयि पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टाभवन्तु । पुष्टाः सतीस्ताः हे अग्ने त्वं इहैव अस्मिन्नेव मयि निधारय नियमेन स्थापय । या रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितं इहास्मिन्नेव गोपतौ मयि तिष्ठतु निवसतु ॥ ३ ॥

10.19.4
यन्नि॒यानं॒ न्यय᳚नं सं॒ज्ञानं॒ यत्प॒राय᳚णम् ।
आ॒वर्त᳚नं नि॒वर्त᳚नं॒ यो गो॒पा अपि॒ तं हु᳚वे ॥
▶ पदपाठः (Word-by-word)
यत् । नि॒॑यान᳚म् । नि॒॑अय᳚नम् । स॒म्॑ज्ञान᳚म् । यत् । प॒रा॒॑अय᳚नम् ।
आ॒॑वर्त᳚नम् । नि॒॑वर्त᳚नम् । यः । गो॒पाः । अपि᳚ । तम् । हु॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नियानं अधिकरणे ल्युट् नियमेन यान्त्यगच्छन्ति गावोत्रेति नियानं गोष्ठाख्यं स्थानं यदस्तीति शेषः । यच्छब्दयोगात्तच्छब्दोध्याहर्तव्यः हुवइति क्रियापदं सर्वत्रानुषज्यते त- त्स्थानं हुवे आह्वयामि । आह्वानमभिमुखीकरणं तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं गोष्ठं प्रार्थयइत्यर्थः । न्ययनं भावे ल्युट् नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये संज्ञानं गोभिः सह ऎकमत्यं यदस्ति तदपि प्रार्थये परायणं परा- गमनं वनं प्रति गवां चरणाय गमनं यदस्ति तदपि प्रार्थये आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनं यदस्ति तदपि प्रार्थये निवर्तनं वने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये योपि गोपाः गवां पालको स्ति तमपि हुवे प्रार्थये सर्वगुणोपेतागाः प्रार्थयइत्यर्थः ॥ ४ ॥

10.19.5 समानपद
य उ॒दान॒ड्व्यय᳚नं॒ य उ॒दान᳚ट् प॒राय᳚णम् ।
आ॒वर्त᳚नं नि॒वर्त᳚न॒मपि᳚ गो॒पा नि व᳚र्तताम् ॥
▶ पदपाठः (Word-by-word)
यः । उ॒त्॑आन᳚ट् । वि॒॑अय᳚नम् । यः । उ॒त्॑आन᳚ट् । प॒रा॒॑अय᳚नम् ।
आ॒॑वर्त᳚नम् । नि॒॑वर्त᳚नम् । अपि᳚ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योगोपाः गोपालः व्ययनं नष्टानां गवां अन्वेषणार्थं विविधगमनं उदानट् व्याप्नोति अनुभवति यः परायणं परागमनं उदानट् व्याप्नोति वनं प्रति गवां चरणाय गमनमित्य- र्थः यश्च आवर्तनं वनचारिणीभिर्गोभिः ह प्रवर्तनमनुभवति योपि गोपाः निवर्तनं गोभिः सह वनात् गृहं प्रति गमनमनुभवति सोपि गोपालः निवर्ततां गोभिः सह वनात् गृहं प्रति क्षेमेणागच्छतु ॥ ५ ॥

10.19.6
आ नि᳚वर्त॒ नि व᳚र्तय॒ पुन᳚र्न इन्द्र॒ गा दे᳚हि ।
जी॒वाभि᳚र्भुनजामहै ॥
▶ पदपाठः (Word-by-word)
आ । नि॒॑व॒र्त॒ । नि । व॒र्त॒य॒ । पुनः᳚ । नः॒ । इ॒न्द्र॒ । गाः । दे॒हि॒ ।
जी॒वाभिः᳚ । भु॒न॒जा॒म॒है॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं आनिवर्त आनिवर्तस्व अस्मदभिमुखोभव । ततः अन्यतोगच्छतीर्गाः निव- र्तय अस्मदभिमुखीकुरु । एवं कृत्वा च हे इन्द्र त्वं पुनः पश्चात् नोस्मभ्यं गाः देहि प्रय- च्छ । त्वया दत्ताभिः जीवाभिः चिरंजीवतीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः भुनजा- महै वग्रं भुंजीमहि । यद्वा भुजिरत्रान्तर्भावितण्यर्थः देवपितॄन् संभोजयेमहि ॥ ६ ॥

10.19.7
परि᳚ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय᳚सा ।
ये दे॒वाः के च᳚ य॒ज्ञिया॒स्ते र॒य्या सं सृ᳚जन्तु नः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । वः॒ । वि॒श्वतः᳚ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन᳚ । पय᳚सा ।
ये । दे॒वाः । के । च॒ । य॒ज्ञियाः᳚ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः विश्वतः सर्वतः स्थितान् वोयुष्मान् ऊर्जागोसंबन्धिना दधिलक्षणेनान्नेन घृते नाज्येन च पयसा क्षीरेण च परिदधे संधारयामि युष्मभ्यं हविर्द्वारेण प्रयच्छामि न के- वलमात्मानं पुष्णामीत्यर्थः । एतत् ज्ञात्वा ये के च देवाः यज्ञियायज्ञार्हाः सन्ति ते देवाः नोस्मान् रय्या गोलक्षणेन धनेन संसृजंतु संयोजयन्तु ॥ ७ ॥

10.19.8
आ नि᳚वर्तन वर्तय॒ नि नि᳚वर्तन वर्तय ।
भूम्या॒श्चत᳚स्रः प्र॒दिश॒स्ताभ्य᳚ एना॒ नि व᳚र्तय ॥
▶ पदपाठः (Word-by-word)
आ । नि॒॑व॒र्त॒न॒ । व॒र्त॒य॒ । नि । नि॒॑व॒र्त॒न॒ । व॒र्त॒य॒ ।
भूम्याः᳚ । चत᳚स्रः । प्र॒॑दिशः᳚ । ताभ्यः᳚ । ए॒नाः॒ । नि । व॒र्त॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मंत्रद्रष्टा ऋषिः स्वात्मानं गाश्च संबोध्याह हे मदीयात्मन् त्वं गाः आवर्तय आकारो प्यनेनापि संबध्यते मदभिमुखीं कुरु स्तुत्या यागेन च ताः प्रसाद्योपनमयेत्यर्थः । हे गावो यूयमपि प्रसाद्यमानाआनिवर्तन आनिवर्तध्वं आभिमुख्येनागच्छत । पुनरप्याह हे मदीया- त्मन् त्वं निवर्तय गोसंचरणस्थानादपगच्छन्तीर्गाः इतोभिगंत्रीः कुरु । यूयमपि हे गावःनि- वर्त्यमानाः सत्यः निवर्तन निवर्तध्वम् । इदानीं स्वात्मागावश्च ऋषिं प्रति ब्रुवते हे ऋषे अहं कुतोगानिवर्तयामीति कुतोवयं निवर्तामहइत्यात्मना गोभिश्च पृष्टः सन्नाह—भूम्याः पृथिव्याः चतस्रः प्रदिशः चतुःसंख्यायुक्ताः प्रकृष्टायादिशः सन्ति ताभ्योदिग्भ्यः एनागाः निवर्तय हे आत्मन् मदभिमुखीः कुरु । हे गावोयूयमपि ताभ्योदिग्भ्योनिवर्तध्वमिति सामर्थ्यालब्धम् । यद्वा अन्द्रैवतपक्षेपि सूक्तार्थे यथाघटते तथा योजना कर्तव्या ॥ ८ ॥

भद्रमिति दशर्चं चतुर्थं सूक्तं आद्याएकपदा दशाक्षरा विराट् अग्निमीळेभुजामित्येषा अनुष्टुप् नवमीविराट् दशमीत्रिष्टुप् मध्येषड्गायत्र्यः इदमादीनां सप्तसुक्तानामिन्द्रपुत्रः प्रजा पतिपुत्रोवा विमदऋषिः वसुक्रपुत्रोवसुकृदाख्योवा । इदमुत्तरं चाग्नेयम् । तथाचानुक्रान्तं— सप्तोत्तराण्यैन्द्रोविमदः प्रजापत्योवा वासुक्रोवसुकृद्वा । भद्रं दशाग्नेयंतुगायत्रमाद्यैकपदा पाद एव वा शांत्यर्थः परानुष्टुबंत्येविराट्त्रिष्टुभाविति । गतोविनियोगः ।