श्रवणम्

10.19.1
नि व᳚र्तध्वं॒ मानु᳚ गाता॒स्मान्त्सि᳚षक्त रेवतीः ।
अग्नी᳚षोमा पुनर्वसू अ॒स्मे धा᳚रयतं र॒यिम् ॥
▶ पदपाठः (Word-by-word)
नि । व॒र्त॒ध्व॒म् । मा । अनु᳚ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रे॒व॒तीः॒ ।
अग्नी᳚षोमा । पु॒न॒र्व॒सू॒ इति᳚ पुनः॑वसू । अ॒स्मे इति᳚ । धा॒र॒य॒त॒म् । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वंदेविद्यातीर्थमहेश्वरं ॥ १ ॥

अष्टके सप्तमेषष्ठं व्याख्याय श्रुतिकोविदः । सायणार्यस्स्द्ततोध्यायं सप्तमं व्याचिकीर्षति ॥ २ ॥

अथ द्वादशानुवाकात्मकस्य दशममंडलस्य द्वितीयेनुवाके त्रयोदशसूक्तानि तत्र निवर्त- ध्वमित्यष्टर्चं तृतीयं सूक्तं अस्य यमपुत्रोमथिताख्यऋषिः वरुणपुत्रोभृगुर्वाथवा भार्गवश्च्य- वनः षष्ठी गायत्री शिष्टाअनुष्टुभः इदं अब्देवताकं गोदेवताकं वा अग्नीषोमापुनर्वसू इत्य र्धर्चोग्नीषोमदेवताकः । तथाचानुक्रान्तं—विवर्तध्वमष्टौ मथितोभृगुर्वारुणिर्भार्गवश्च्यवनोवापं गव्यं वानुष्टुभमग्नीषोमीयोद्वितीयोर्धर्चः षष्ठी गायत्री । गतोविनियोगः ।

हे गावः हे आपोवा यूयं निवर्तध्वं अस्मान् प्रतिआगच्छत मानुगात अस्मद्व्यतिरिक्तं यजमानं मानुगच्छत । आगत्य च हेरेवतीः रेवत्योधनवत्यः यूयं अस्मान् सिषक्त सेचयत अवगाहत गोदोहनस्नानपानादिद्वारेण सेवध्वमित्यर्थः । हे पुनर्वसू पुनःपुनर्वस्तारौ स्तोतॄणां यष्टृणामाच्छादयितारौ अग्नीषोमा अग्नीषोमौ एतन्नामकौ देवौ युवां अस्मे अस्मासु रयिं व्रीह्यादिलक्षणं धनं धारयतं स्थापयतं ॥ १ ॥