दशमं मण्डलम् - सूक्तम् 60

12 ऋचः

ऋषिः: बंधुः श्रुतबंधुर्विप्रबंधुर्गौपायनाः देवता: असमातिः छन्दः: गायत्री

सूक्तम् 10.60 - सम्पूर्णम्

1 / 12
ऋक्: 10.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.60.1
आ जनं᳚ त्वे॒षसं᳚दृशं॒ माही᳚नाना॒मुप᳚स्तुतम् ।
अग᳚न्म॒ बिभ्र᳚तो॒ नमः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । जन᳚म् । त्वे॒ष॑स᳚न्दृशम् । माही᳚नानाम् । उप᳚॑स्तुतम् ।
अग᳚न्म । बिभ्र᳚तः । नमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ जनमिति द्वादशर्चमष्टादशं सूक्तम्। गौपायना बन्ध्वादय ऋषयः। षष्ठ्यास्त्वगस्त्यस्य स्वसैषां मातर्षिका। आदितः पञ्च गायत्र्यः। अष्टमीनवम्यौ पङ्क्ती शिष्टा अनुष्टुभः। आदितश्चतसृणामसमातिनाम्नो राज्ञः स्तूयमानत्वात् स एव देवता। पञ्चम्या इन्द्रः। षष्ट्या अप्यसमातिः। ततः पञ्चानां सुबन्धोर्जीविताह्वानरूपोऽर्थो देवता। अयं मे हस्त इत्यस्या लब्धसंज्ञस्य सुबन्धोः स्पर्शनहेतुभूतो देवता। तथा चानुक्रान्तम्। आ जनमिति द्वादशर्चमानुष्टुभं चतसृभिरसमातिमस्तुवन्पञ्चम्येन्द्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबन्धोर्जीवमाह्वयंस्तमन्त्यया लब्धसंज्ञमस्पृशन् पञ्चम्याद्यागायत्र्योऽष्टम्याद्ये पङ्क्ती इति॥

इदमादिभिस्तिसृभी राजानं स्तुवन्ति। वयं बन्ध्वादयो जनं जनपदमसुनीतिस्वभूतमागन्म। अभिगताः। गमेर्लुङि मन्त्रे घसेति च्लेर्लुक्। म्वोश्चेति मकारस्य नकारः। कीदृशं जनम् । त्वेषसंदृशं दीप्तदर्शनं माहीनानां महतामुपस्तुतमुपगतस्तुतिम् । तादौ चेति गतेः प्रकृतिस्वरः। कीदृसा वयम् । नमो नमस्कारं बिभ्रतो धारयन्तः। कुर्वन्त इत्यर्थः। यद्वा। जनमसमातिमित्यर्थः। शिष्टं समानम् । नमो बिभ्रत इति राजकृते नमस्कारं धारयन्त इत्यर्थः॥१॥

10.60.2
अस᳚मातिं नि॒तोश᳚नं त्वे॒षं नि᳚य॒यिनं॒ रथ᳚म् ।
भ॒जेर᳚थस्य॒ सत्प᳚तिम् ॥
▶ पदपाठः (Word-by-word)
अस᳚मातिम् । नि॒॑तोश᳚नम् । त्वे॒षम् । नि॒॑य॒यिन᳚म् । रथ᳚म् ।
भ॒जे॑र᳚थस्य । सत्॑प᳚तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

असमातिं राजानं नितोशनं शत्रूणां हन्तारम्। नितोशतिर्वधकर्मा। त्वेशम् दीप्तम् । निययिनं रथमित्युपमाप्रधानो निर्देशः। रथवत्सर्वाभिमतप्राप्तिसाधनं भजेरथस्यैतन्नामकस्य राज्ञो वंशे जातम् । यद्वा। एतन्नाम कश्चिदस्य शत्रुः। तस्य निययिनम् । हलदन्तान्। पा. ६-३-९। इति सप्तम्या अलुक्। सत्पतिं सतां पालकम्॥२॥

10.60.3
यो जना᳚न्महि॒षा{4} इ᳚वातित॒स्थौ पवी᳚रवान् ।
उ॒ताप᳚वीरवान्यु॒धा ॥
▶ पदपाठः (Word-by-word)
यः । जना᳚न् । म॒हि॒षान्॑इ᳚व । अ॒ति॒॑त॒स्थौ । पवी᳚रवान् ।
उ॒त । अप᳚वीरवान् । यु॒धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽसमातिर्जनान् स्वविरोधिभूतानतितस्थौ अतिक्रम्य तिष्थति। पराभावयतीत्यर्थः। क इव। महिषान् सिंह इव। कीदृशः सन्। पवीरवान्। पवीर पविः। खड्गवान्। उतापि चापवीरवानपगतखड्गः सन्। शस्त्रसाहाय्यमपि कदाचिन्नापेक्षत इत्यर्थः। किं कुर्वन्। युधा योधनेन। युद्ध्वेत्यर्थः॥३॥

10.60.4
यस्ये᳚क्ष्वा॒कुरुप᳚ व्र॒ते रे॒वान्म᳚रा॒य्येध᳚ते ।
दि॒वी᳚व॒ पञ्च᳚ कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । इ॒क्ष्वा॒कुः । उप᳚ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध᳚ते ।
दि॒वि॑इ᳚व । पञ्च᳚ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य जनपदस्येक्ष्वाकू राजा व्रते कर्मणि रक्षण रूप उपैधते प्रवर्धते। कीदृशः सन्। रेवान् रयिवान् मरायी शत्रूणां मारकश्च सन्। विशेषण द्वयेन जनानां दानादिरूपेण धनलाभः परराजोपद्रवापत्तिश्चोक्ता भवति। एवा सति तद्विषयस्था पञ्च कृष्टयो निषादपञ्चमाश्चत्वारो वर्णा दिवीव द्युलोकः यथा सङ्कल्पसिद्धाः सन्तः सुखिनो भवन्ति तद्वत्सुखिनो भवन्तीति शेशः॥४॥

10.60.5
इन्द्र᳚ क्ष॒त्रास᳚मातिषु॒ रथ᳚प्रोष्ठेषु धारय ।
दि॒वी᳚व॒ सूर्यं᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । क्ष॒त्रा । अस᳚मातिषु । रथ᳚॑प्रोष्ठेषु । धा॒र॒य॒ ।
दि॒वि॑इ᳚व । सूर्य᳚म् । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयेन्द्रमाह्वतेऽसमात्यर्थम् । हे इन्द्र क्षत्रा क्षत्राणि बलानि रथप्रोष्ठेष्वसमातिषु। एकस्मिन्बहुवचनं पूजार्थम् । रथ प्रोष्ठेऽसमातौ धारय। दिवीव सूर्यं दिवि यथा सूर्यं दृशे सर्वेषां सन्दर्शनाय स्थापितवानसि तद्वदत्र बलं धारय॥ ५॥

10.60.6
अ॒गस्त्य᳚स्य॒ नद्भ्य॒ः सप्ती᳚ युनक्षि॒ रोहि᳚ता ।
प॒णीन्न्य᳚क्रमीर॒भि विश्वा᳚न्राजन्नरा॒धसः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒गस्त्य᳚स्य । नत्॑भ्यः᳚ । सप्ती॒ इति᳚ । यु॒न॒क्षि॒ । रोहि᳚ता ।
प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा᳚न् । रा॒ज॒न् । अ॒रा॒धसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयागस्त्यस्य स्वसा बम्भ्वादीनां माता राजानम् स्तौति। हे राजन्नसमाते त्वमगस्त्यस्यर्षेर्नद्भ्यो नन्दयितृभ्यो बन्ध्वादिभ्यो निमित्तभुतेभ्येस्तेषां धनप्राप्तये सप्ती सर्पण स्वभावावश्वौ रोहिता तोहितवर्णौ युनक्षि। योजय रथे। तथा कृत्वा विश्वान् सर्वानराधसोऽदातृनयजमानान्पणीन्वणिजो लुब्धकान्निकृष्टं नितरां वाभ्यक्रमीः। अभिभव॥६॥

10.60.7 समानपद
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग᳚मत् ।
इ॒दं तव᳚ प्र॒सर्प᳚णं॒ सुब᳚न्ध॒वेहि॒ निरि᳚हि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः᳚ । आ । अ॒ग॒म॒त् ।
इ॒दम् । तव᳚ । प्र॒॑सर्प᳚णम् । सुब᳚न्धो॒ इति॒ सु॑ब᳚न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र शेषे शाट्यायनकम् । अथाग्निं द्वैपदेन सूक्तेनास्तुवन् अग्निः स्तुत आजगाम। आगत्य चाह किंकामा मागच्छतेति। सुबन्धोरेवासुं पुनर्वनुयामेत्यब्रुवन्। एषान्तः परिधीत्यब्रवीत्तमादध्ध्वमिति। तन्निराह। अयं मातायं पितेति। शौनकश्च।

स्तुतः स राजा सुप्रीतस्तस्थौ गौपयनानभि। सूक्तेन तेऽस्तुवन्नग्निं द्वैपदेन यथात्रिषु॥

अथाग्निरब्रवीदेतानयमन्त्रः परिध्यसुः। सुबन्धोरस्य चेक्ष्वाकोर्मया गुप्तो हितार्थिना॥

सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः। स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति॥

अयं मातेति हृष्टास्ते सुबन्धोरुसुमाह्वयन्। शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि॥

सूक्तशेषं जगुश्चास्य चेतसो धारणायत इति॥ (बृ. ७-१०७२ - १०७६)

अयमग्निर्माता। अयमेव पिता। अयं जीवातुर्जीवयितागमत्। आजगाम। अतो हे सुबन्धो जीवपरिधौ वर्तमान इदं तव शरीरं तव प्रसर्पणम् । प्रकर्षेण सर्पणसाधनम् । अत इदं प्रत्येहि। आगच्छ। निरिहि। निर्गच्छ परिधेः सकाशात्। अन्य एवं व्याचक्षते। हे निर्गतप्रान सुबन्धो अयम्। विभक्तिव्यत्ययः। इयं मातायं पितायं जीवातुर्जीवनफलभूतः पुत्राश्चागमदिति सम्बध्यते। सर्वेत्वामागता दुःखिताः सन्तः। शिष्टं समानम्॥७॥

10.60.8
यथा᳚ यु॒गं व᳚र॒त्रया॒ नह्य᳚न्ति ध॒रुणा᳚य॒ कम् ।
ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात᳚वे॒ न मृ॒त्यवे॑थो᳚ अरि॒ष्टता᳚तये ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । यु॒गम् । व॒र॒त्रया᳚ । नह्य᳚न्ति । ध॒रुणा᳚य । कम् ।
ए॒व । दा॒धा॒र॒ । ते॒ । मनः᳚ । जी॒वात᳚वे । न । मृ॒त्यवे᳚ । अथो॒ इति᳚ । अ॒रि॒ष्ट॑ता᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथा युगं वरत्रया पाशेन नह्यन्ति बध्नन्ति धुरुणाय रथादिधारणाय। कमिति पादपुरणः। एवैवं ते मनो दाधार परिधावग्निः। किमर्थम् । जीवातवे जीवनाय न मृत्यवे मरणाय न अथो अपि चारिष्टातयेऽविनाशाय। स्वार्थिकस्तातिः॥८॥

10.60.9
यथे॒यं पृ᳚थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती᳚न् ।
ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात᳚वे॒ न मृ॒त्यवे॑थो᳚ अरि॒ष्टता᳚तये ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार᳚ । इ॒मान् । वन॒स्पती᳚न् ।
ए॒व । दा॒धा॒र॒ । ते॒ । मनः᳚ । जी॒वात᳚वे । न । मृ॒त्यवे᳚ । अथो॒ इति᳚ । अ॒रि॒ष्ट॑ता᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथेयं पृथिवी महीमान्वनन्पतीन्वृक्षादीन्दाधार। शिष्टमुक्तम्॥९॥

10.60.10
य॒माद॒हं वै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ᳚रम् ।
जी॒वात᳚वे॒ न मृ॒त्यवे॑थो᳚ अरि॒ष्टता᳚तये ॥
▶ पदपाठः (Word-by-word)
य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒॑बन्धोः᳚ । मनः᳚ । आ । अ॒भ॒र॒म् ।
जी॒वात᳚वे । न । मृ॒त्यवे᳚ । अथो॒ इति᳚ । अ॒रि॒ष्ट॑ता᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं निगदसिद्धा॥१०॥

10.60.11 समानपद
न्य१॒᳚ग्वातो॑व᳚ वाति॒ न्य᳚क्तपति॒ सूर्य᳚ः ।
नी॒चीन᳚म॒घ्न्या दु᳚हे॒ न्य᳚ग्भवतु ते॒ रपः᳚ ॥
▶ पदपाठः (Word-by-word)
न्य᳚क् । वातः᳚ । अव᳚ । वा॒ति॒ । न्य᳚क् । त॒प॒ति॒ । सूर्यः᳚ ।
नी॒चीन᳚म् । अ॒घ्न्या । दु॒हे॒ । न्य᳚क् । भ॒व॒तु॒ । ते॒ । रपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातो वायुर्द्युलोकान्न्यग्नीचीनमव वाति। गच्छति। सूर्यश्च न्यक् तपति। अघ्न्याहननीया गौर्नीचीनं दुहे। दुग्धे। एवं ते रपः पापं न्यग्नीचीनं भवतु॥११॥

10.60.12
अ॒यं मे॒ हस्तो॒ भग᳚वान॒यं मे॒ भग᳚वत्तरः ।
अ॒यं मे᳚ वि॒श्वभे᳚षजो॒॑यं शि॒वाभि᳚मर्शनः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मे॒ । हस्तः᳚ । भग᳚॑वान् । अ॒यम् । मे॒ । भग᳚वत्॑तरः ।
अ॒यम् । मे॒ । वि॒श्व॑भे᳚षजः । अ॒यम् । शि॒व॑अ᳚भिमर्शनः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया बन्ध्वादयो लब्धजीवं सुबन्धुं पाणिभिरस्पृशन्। अयं मे हस्तो भगवा यस्मात्सजीवं सुबन्धुम् स्पृशति तस्मात्। तथायं मे हस्तो भवत्तरः। अतिशयेन भगवान्। तथायं मे हस्तो विश्वभेषजो जीवचिकित्सासाधनसर्वौषधवान् तत्स्थानीयो वा। अयं शिवाभिमर्शनो मङ्गलस्पर्शनः। यतो जीवन्तं स्पृशत्यत इत्यर्थः॥१२॥