श्रवणम्

10.60.7 समानपद
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग᳚मत् ।
इ॒दं तव᳚ प्र॒सर्प᳚णं॒ सुब᳚न्ध॒वेहि॒ निरि᳚हि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः᳚ । आ । अ॒ग॒म॒त् ।
इ॒दम् । तव᳚ । प्र॒॑सर्प᳚णम् । सुब᳚न्धो॒ इति॒ सु॑ब᳚न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र शेषे शाट्यायनकम् । अथाग्निं द्वैपदेन सूक्तेनास्तुवन् अग्निः स्तुत आजगाम। आगत्य चाह किंकामा मागच्छतेति। सुबन्धोरेवासुं पुनर्वनुयामेत्यब्रुवन्। एषान्तः परिधीत्यब्रवीत्तमादध्ध्वमिति। तन्निराह। अयं मातायं पितेति। शौनकश्च।

स्तुतः स राजा सुप्रीतस्तस्थौ गौपयनानभि। सूक्तेन तेऽस्तुवन्नग्निं द्वैपदेन यथात्रिषु॥

अथाग्निरब्रवीदेतानयमन्त्रः परिध्यसुः। सुबन्धोरस्य चेक्ष्वाकोर्मया गुप्तो हितार्थिना॥

सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः। स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति॥

अयं मातेति हृष्टास्ते सुबन्धोरुसुमाह्वयन्। शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि॥

सूक्तशेषं जगुश्चास्य चेतसो धारणायत इति॥ (बृ. ७-१०७२ - १०७६)

अयमग्निर्माता। अयमेव पिता। अयं जीवातुर्जीवयितागमत्। आजगाम। अतो हे सुबन्धो जीवपरिधौ वर्तमान इदं तव शरीरं तव प्रसर्पणम् । प्रकर्षेण सर्पणसाधनम् । अत इदं प्रत्येहि। आगच्छ। निरिहि। निर्गच्छ परिधेः सकाशात्। अन्य एवं व्याचक्षते। हे निर्गतप्रान सुबन्धो अयम्। विभक्तिव्यत्ययः। इयं मातायं पितायं जीवातुर्जीवनफलभूतः पुत्राश्चागमदिति सम्बध्यते। सर्वेत्वामागता दुःखिताः सन्तः। शिष्टं समानम्॥७॥