दशमं मण्डलम् - सूक्तम् 8

9 ऋचः

ऋषिः: त्रिशिरास्त्वाष्ट्रः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.8 - सम्पूर्णम्

1 / 9
ऋक्: 10.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.8.1
प्र के॒तुना᳚ बृह॒ता या᳚त्य॒ग्निरा रोद᳚सी वृष॒भो रो᳚रवीति ।
दि॒वश्चि॒दन्ता{4}᳚ उप॒मा{4} उदा᳚नळ॒पामु॒पस्थे᳚ महि॒षो व᳚वर्ध ॥
▶ पदपाठः (Word-by-word)
प्र । के॒तुना᳚ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद᳚सी॒ इति᳚ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ।
दि॒वः । चि॒त् । अन्ता᳚न् । उ॒प॒॑मान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒प॑स्थे᳚ । म॒हि॒षः । व॒व॒र्ध॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निं बृहता महता केतुना प्रज्ञानेन युक्तः सन् आ इदानीं रोदसी द्यावापृथिव्यौ प्र- याति प्रकर्षेण गच्छति । किंच देवानामाह्वानकाले वृषभइव रोरवीति अत्यर्थं शब्दं करोति दिवश्चित् द्युलोकस्यापि अन्तानवसानान् उपमान् समीपांश्च प्रदेशान् ज्वलना- त्मनादित्यात्मना वा स्थितः उदानट् ऊर्ध्वं व्याप्नोति अपां वृष्टिलक्षणानामुदकानामुपस्थे उपस्थानेन्तरिक्षे वैद्युतात्मना महिषो महान् ववर्ध वर्धते ॥ १ ॥

10.8.2 समानपद
मु॒मोद॒ गर्भो᳚ वृष॒भः क॒कुद्मा᳚नस्रे॒मा व॒त्सः शिमी᳚वा{4} अरावीत् ।
स दे॒वता॒त्युद्य᳚तानि कृ॒ण्वन्त्स्वेषु॒ क्षये᳚षु प्रथ॒मो जि᳚गाति ॥
▶ पदपाठः (Word-by-word)
मु॒मोद᳚ । गर्भः᳚ । वृ॒ष॒भः । क॒कुत्॑मा᳚न् । अ॒स्रे॒मा । व॒त्सः । शिमी᳚॑वान् । अ॒रा॒वी॒त् ।
सः । दे॒व॑ता᳚ति । उत्॑य᳚तानि । कृ॒ण्वन् । स्वेषु᳚ । क्षये᳚षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गर्भः द्यावापृथिव्योरन्तर्गतः वृषभः कामानां वर्षिताग्निः ककुद्मान् उन्नततेजस्कः मुमोद मोदते । किंच अस्रेमा प्रशस्यनामैतत् प्रशस्तः वत्सः नक्तोषसोर्वत्सभूतः सायं- प्रातराहुत्युपजीवनात् शिमीवान् हविर्वहनदेवाह्वानादिकर्मवान् अग्निः अरावीत् देवा- ह्वानादिशब्दं करोति सोग्निः देवताति यज्ञे उद्यतानि उद्यमान्युत्साहानि कर्माणि कृण्वन् स्वेषु क्षयेषु आत्मीयेष्वाहवनीयादिस्थानेषु स्थितः प्रथमोदेवानां स्थानेषु मुख्यः जिगाति गच्छति ॥ २ ॥

10.8.3
आ यो मू॒र्धानं᳚ पि॒त्रोरर᳚ब्ध॒ न्य᳚ध्व॒रे द᳚धिरे॒ सूरो॒ अर्ण᳚ः ।
अस्य॒ पत्म॒न्नरु᳚षी॒रश्व᳚बुध्ना ऋ॒तस्य॒ योनौ᳚ त॒न्वो᳚ जुषन्त ॥
▶ पदपाठः (Word-by-word)
आ । यः । मू॒र्धान᳚म् । पि॒त्रोः । अर᳚ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः᳚ । अर्णः᳚ ।
अस्य᳚ । पत्म᳚न् । अरु᳚षीः । अश्व᳚॑बुध्नाः । ऋ॒तस्य᳚ । योनौ᳚ । त॒न्वः᳚ । जु॒ष॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः पित्रोः मातापितृभूतयोर्द्यावापृथिव्योः मूर्धान् आअरब्ध स्वतेजोभिरारभते यद्वा मातापितृभूतयोररण्योर्मूर्धानं शिरोवत् प्रधानभूतं मथनप्रदेशं आङीषदर्थे आरब्ध- ईषद्धिनस्ति निर्मथनकालेपि दाहेन दग्धुं समर्थः सूरः सुवीर्यस्याग्नेः अर्णः गमनशीलं तेजः अध्वरे यज्ञे निदधिरे यष्टारोनियमेन धारयन्ति अस्याग्नेः पत्मन् पतने अरुषीरा- रोचमानाः ऋतस्य यज्ञस्य योनौ स्थाने अश्वबुध्नाः व्याप्तमूलाः अशनबन्धनावा हवि- राहारान्विताइत्यर्थः तन्वः त्वदीयास्तनूर्जुषन्त कवयः सेवन्ते ॥ ३ ॥

10.8.4
उ॒षौ᳚षो॒ हि व᳚सो॒ अग्र॒मेषि॒ त्वं य॒मयो᳚रभवो वि॒भावा᳚ ।
ऋ॒ताय᳚ स॒प्त द᳚धिषे प॒दानि᳚ ज॒नय᳚न्मि॒त्रं त॒न्वे॒३॒᳚ स्वायै᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒षः॑उ᳚षः । हि । व॒सो॒ इति᳚ । अग्र᳚म् । एषि᳚ । त्वम् । य॒मयोः᳚ । अ॒भ॒वः॒ । वि॒भा॑वा᳚ ।
ऋ॒ताय᳚ । स॒प्त । द॒धि॒षे॒ । प॒दानि᳚ । ज॒नय᳚न् । मि॒त्रम् । त॒न्वे᳚ । स्वायै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसो स्वेन तेजसा सर्वस्याच्छादयितः वसुमन्वा प्रशस्यवाग्ने त्वं उषउषः सर्वस्याए- वोषसः अग्रं पूर्वं एषि प्राप्नोषि । अपिच यमयोर्युग्मयोः परस्परमवियुक्तयोः अहोरात्रयोः विभावा दीप्तिमान् अभवः भवसि । तन्वे स्वायै आत्मीयात् शरीरात् मित्रमादित्यं जन- यन् उत्पादयन् सप्तपदानि सप्तसंख्याकानि धिष्ण्यादिस्थानानि ऋताय यज्ञार्थं दधिषे धारयसि ॥ ४ ॥

10.8.5
भुव॒श्चक्षु᳚र्म॒ह ऋ॒तस्य᳚ गो॒पा भुवो॒ वरु᳚णो॒ यदृ॒ताय॒ वेषि᳚ ।
भुवो᳚ अ॒पां नपा᳚ज्जातवेदो॒ भुवो᳚ दू॒तो यस्य᳚ ह॒व्यं जुजो᳚षः ॥
▶ पदपाठः (Word-by-word)
भुवः᳚ । चक्षुः᳚ । म॒हः । ऋ॒तस्य᳚ । गो॒पाः । भुवः᳚ । वरु᳚णः । यत् । ऋ॒ताय᳚ । वेषि᳚ ।
भुवः᳚ । अ॒पाम् । नपा᳚त् । जा॒त॒॑वे॒दः॒ । भुवः᳚ । दू॒तः । यस्य᳚ । ह॒व्यम् । जुजो᳚षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

महोमहतः ऋतस्य यज्ञस्य हेअग्ने त्वं चक्षुरिव प्रकाशकोभुवः भवसि गोपाः यज्ञस्य रक्षकस्त्वमेव भवसि यद्यदा ऋताय सोमरसलक्षणस्योदकस्यादानार्थं वरुणः आदित्यः वेषि गच्छसि तदा त्वमेव भुवोभवसि । हेजातवेदः जातप्रज्ञाग्ने अपां वृष्टिलक्षणानामु- दकानां नपात् पौत्रः त्वमेव भुवोभवसि अड्भ्योहि मेघोजायते मेघादग्निर्विद्युद्रूपोजायते इत्यपां पौतन्नमच्यते यस्य यजमानस्य हव्यं हविः जुजोषः सेवसे तस्य दूतोभुवोभवसि ॥ ५ ॥ दर्शपूर्णमासयोराग्नेयस्य याज्या भुवोयज्ञस्येत्येषा । सूत्रितंच—तासांयाज्यानुवाक्या अग्निर्मूर्धाभुवोयज्ञस्येति । आग्नेयीकाचित् काम्येष्टिः तस्यामेषैव याज्या । सूत्रितंच—आग्ने- य्याउत्तरे नित्येमूर्धन्वतइति ।

10.8.6
भुवो᳚ य॒ज्ञस्य॒ रज᳚सश्च ने॒ता यत्रा᳚ नि॒युद्भि॒ः सच᳚से शि॒वाभि᳚ः ।
दि॒वि मू॒र्धानं᳚ दधिषे स्व॒र्षां जि॒ह्वाम᳚ग्ने चकृषे हव्य॒वाह᳚म् ॥
▶ पदपाठः (Word-by-word)
भुवः᳚ । य॒ज्ञस्य᳚ । रज᳚सः । च॒ । ने॒ता । यत्र᳚ । नि॒युत्॑भिः᳚ । सच᳚से । शि॒वाभिः᳚ ।
दि॒वि । मू॒र्धान᳚म् । द॒धि॒षे॒ । स्वः॒॑साम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒॑वाह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं यत्र यस्मिन्नन्तरिक्षे शिवाभिः कल्याणीभिर्नियुद्भिः नियुत्संज्ञकाभिरश्व- जातिभिः संबद्धं वायुं सचसे संगच्छसे तस्मिन्नन्तरिक्षे यज्ञस्य रजसश्चोदकस्यच नेता प्रापयिता भुदोभवसि । अग्निर्वा इतोवृष्टिमुदीरयतीतिश्रुतेः । किंच दिवि द्युलोके मूर्धानं शिरोवत्प्रधानभूतं स्वर्षां सर्वस्य संभक्तारमादित्यं दधिषे हविर्वहनद्वारेण धारयसि । हेअग्ने त्वं जिह्वां ज्वालां हव्यवाहं हविषोवोढ्रीं चकृषे करोषि ॥ ६ ॥

10.8.7
अ॒स्य त्रि॒तः क्रतु᳚ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवै॒ः पर᳚स्य ।
स॒च॒स्यमा᳚नः पि॒त्रोरु॒पस्थे᳚ जा॒मि ब्रु᳚वा॒ण आयु᳚धानि वेति ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । त्रि॒तः । क्रतु᳚ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः᳚ । पर᳚स्य ।
स॒च॒स्यमा᳚नः । पि॒त्रोः । उ॒प॑स्थे᳚ । जा॒मि । ब्रु॒वा॒णः । आयु᳚धानि । वे॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन्तृचे इन्द्रइममर्थं ब्रवीति । हे त्रित सर्वेषामायुधानि वेत्ता त्वं त्वष्टृपुत्रस्य त्रि- शिरसोवधार्थं मम साहाय्यं कुर्वितीन्द्रेणैवं पृष्टस्त्रितः स्ववीर्यवृद्भ्यर्थं यज्ञभागं वव्रे । सचे- न्द्रस्तस्मै पाणिप्रक्षालनार्थं जलं यज्ञभागंच दत्तवान् अनेन यज्ञभागेन वृद्धवीर्यस्त्रितः एत- त्संज्ञकऋषिः एवैः आत्मनोरक्षणैर्युक्तः अन्तर्यज्ञस्य मध्ये धीतिं भागमिच्छन् परस्योत्कृष्ट- स्य पितुः सर्वस्य जमतः पालयितुरस्येन्द्रस्य क्रतुना त्रिशिरसोमम दधार्थं साहाय्यभूतेन कर्मणा निमित्तेन वव्रे सखायं वृतवान् । किंच पित्रोर्मातापितृभूतयोर्द्यावापृथिव्योः उपस्थे समीपस्थे यज्ञे सचस्य मानः ऋत्विग्भिः सेव्यमानस्त्रितः जामि योग्यं इन्द्रस्यानुरूपं स्तोत्रं ब्रुवाणइन्द्रस्य बलवृद्भ्यर्थमुच्चारयन् आयुधानि स्वभूतानि वेति त्वष्टृपुत्रस्य मम वधार्थं आगच्छति ॥ ७ ॥

10.8.8
स पित्र्या॒ण्यायु᳚धानि वि॒द्वानिन्द्रे᳚षित आ॒प्त्यो अ॒भ्य᳚युध्यत् ।
त्रि॒शी॒र्षाणं᳚ स॒प्तर᳚श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य᳚ चि॒न्निः स᳚सृजे त्रि॒तो गाः ॥
▶ पदपाठः (Word-by-word)
सः । पित्र्या᳚णि । आयु᳚धानि । वि॒द्वान् । इन्द्र᳚॑इषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।
त्रि॒॑शी॒र्षाण᳚म् । स॒प्त॑र᳚श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य᳚ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आप्त्यः आप्त्यस्य पुत्रः अपां पुत्रोवा तकारोपजनश्छान्दसः सत्रितः पित्र्याणि स्वपि- तृसबन्धीन्यायुधानि विद्वान् जानन् इन्द्रेषितः त्रिशिरसामयासह युद्धार्थमिन्द्रेण प्रेषितः सन् अभ्ययुध्यत् आभिमुख्येन युद्धवान् । तदनन्तरं सप्तरश्मिं शत्रुनियमनार्थं सप्तप्रग्रह- हस्तं यद्वा सप्तरश्मिरादित्यः तत्सदृशं त्रिशीर्षाणं त्रिशिरस्कं मांजघन्वान् हतवान् मूर्छितं कृतवानित्यर्थः । किंच त्रितः त्वाष्ट्रस्य चित् त्वष्टृपुत्रस्य ममापि गाः पशून् निःससृजे विसृष्टवान् अपहृतवानित्यर्थः ॥ ८ ॥

10.8.9 समानपद
भूरीदिन्द्र᳚ उ॒दिन᳚क्षन्त॒मोजो॑वा᳚भिन॒त्सत्प᳚ति॒र्मन्य᳚मानम् ।
त्वा॒ष्ट्रस्य᳚ चिद्वि॒श्वरू᳚पस्य॒ गोना᳚माचक्रा॒णस्त्रीणि᳚ शी॒र्षा परा᳚ वर्क् ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । इत् । इन्द्रः᳚ । उ॒त्॑इन᳚क्षन्तम् । ओजः᳚ । अव᳚ । अ॒भि॒न॒त् । सत्॑प᳚तिः । मन्य᳚मानम् ।
त्वा॒ष्ट्रस्य᳚ । चि॒त् । वि॒श्व॑रू᳚पस्य । गोना᳚म् । आ॒॑च॒क्रा॒णः । त्रीणि᳚ । शी॒र्षा । परा᳚ । व॒र्गिति᳚ वर्क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्पतिः सतां पालकः इन्द्रः भूरीत् बह्वेव पूर्वतुल्यमतिरिक्तंवा ओजोबलं उदिनक्षन्तं व्याप्नुवन्तं मन्यमानं शूरमित्यात्मानं चिंतयन्तं यद्वा मन्यतिर्दीप्तिकर्मा क्रोधकर्मावा दीप्य- मानं क्रुध्यन्तंवा त्वष्टृपुत्रं मां अवाभिनत् वज्रेण विदारितवान् । विदार्यत्वाष्ट्रस्यचित् त्व- ष्टृपुत्रस्यापि गोनां गवां स्वामिनमितिशेषः विश्वरूपस्य मम त्रीणि शीर्षा शीर्षाणि आचक्राणः आसमन्तात् शब्दं कुर्वन् परावर्क् पराङ्मुखस्य वृक्णवान् छिन्नवानित्यर्थः । ईदृशं भाविवस्तु विश्वरूपः स्वप्नांते अनेन तृचेन दृष्टवान् ॥ ९ ॥

आपोहिष्ठेति नवमं सूक्तं अंबरीषस्य राज्ञः पुत्रःसिंधुद्वीपः ऋषिः त्वष्टृपुत्रस्त्रि- शिरावा इदमापइत्यादिकेद्वे अनुष्टुभौ ईशानाइति वर्धमाना आपः पृणीतेति प्रतिष्ठा शिष्टागायत्र्यः आपोदेवता । तथाचानुक्रान्तं—आपोहिसिन्धुद्वीपोवांबरीषआपं गायत्रं द्भ्यनुष्टुवन्तं पंचमी वर्धमाना सप्तमी प्रतिष्ठेति । गतः सूक्तविनियोगः । आग्निमारुते आपोहिष्ठेत्याद्यास्तिस्रः । सूत्रितंच—आपोहिष्ठेति तिस्रोवियतमपउपस्पृशन्निति ।