दशमं मण्डलम् - सूक्तम् 86

23 ऋचः

ऋषिः: इंद्रः देवता: इंद्रः छन्दः: पंक्तिः

सूक्तम् 10.86 - सम्पूर्णम्

1 / 23
ऋक्: 10.86.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (23)
10.86.1
वि हि सोतो॒रसृ᳚क्षत॒ नेन्द्रं᳚ दे॒वम᳚मंसत ।
यत्राम᳚दद्वृ॒षाक᳚पिर॒र्यः पु॒ष्टेषु॒ मत्स᳚खा॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
वि । हि । सोतोः᳚ । असृ᳚क्षत । न । इन्द्र᳚म् । दे॒वम् । अ॒मं॒स॒त॒ ।
यत्र᳚ । अम᳚दत् । वृ॒षाक᳚पिः । अ॒र्यः । पु॒ष्टेषु᳚ । मत्॑स᳚खा । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अष्टमाष्टकस्य चतुर्थोऽध्याय आरभ्यते। तत्र वि हीति त्रयोविंशत्यृचं द्वितीयं सूक्तम्। वृषाकपिर्नामेन्द्रस्य पुत्रः। स चेन्द्राणीन्द्रश्चैते त्रयः संहताः संविवादं कृतवन्तः। तत्र विहि सोतोरसृक्षत किं सुबाहो स्वङ्गुर इन्द्राणीमासु नारिष्विति द्वे उक्ष्णो हि मेऽयमेमीति चतस्र इत्येता नवर्च इन्द्रवाक्यानि। अतस्तासामिन्द्र ऋषिः। परा हीन्द्रेति पञ्चावीरामिति द्वे वृषभो तिग्मशृङ्ग इत्याद्याश्चतस्र इत्येकादशर्च इन्द्राण्या वाक्यानि। अतस्तासामिन्द्राण्यृषिः। उवे अम्ब वृषाकपायि रेवति पर्शुर्ह नामेति तिस्रो वृषाकपेर्वाक्यानि। अतस्त्तासां वृषाकपिरृषिः। सर्वं सूक्तमैन्द्रं पञ्चपदापङ्क्तिश्छन्दस्कम्। तथा चानुक्रान्तम्। वि हि त्र्यधिकैन्द्रो वृषाकपिरिन्द्राणीन्द्रश्च समूदिरे पाङ्क्तमिति। षष्ठेऽहनि ब्राह्मणाच्छंसिन उक्थ्यशस्त्र एतत्सूक्तम्। सूत्रितं अथ वृषाकपिं शंसेद्यथा होताज्याद्यां चतुर्थे। आ. ८-३। इति। यदि षष्ठेऽहन्युक्थ्यस्तोत्राणि द्विपदासु न स्तुवीरन्सामगा यदि वेदमहरग्निष्टोमः स्यात्तदानीं ब्राह्मणाच्छंसी माध्यन्दिने सवन आरम्भणीयाभ्य ऊर्ध्वमेतत्सूक्तं शंसेद्विश्वजित्यपि। तथा च सूत्रितम्। सुकीर्तिं ब्राह्मणाच्छंसी वृषाकपिं च पङ्क्तिशंसम्। आ. ८-४। इति॥

सुतोः सोमाभिषवम् कर्तुं व्यसृक्षत। यागम् प्रति मया विसृष्टा अनुज्ञाताः स्तोतारो वृषाकपेर्यष्टारः। हीति पूरणः। तत्र देवं द्योतमानमिन्द्रं मां नामंसत। मया प्रेरिताः सन्तोऽपि ते स्तोतारो न स्तुतवन्तः। किन्तु मम पुत्रं वृषाकपिमेव स्तुवन्तः। यत्र येशु पुष्टेषु सोमेन प्रवृद्धेषु यागेष्वर्यह् स्वामी वृषाकपिर्मम पुत्रो मत्सखा मम सखिभुतः सन्नमदत् सोमपानेन हृष्तोऽभुत्। यद्यप्येवम् तथापीन्द्रोऽहं विश्वस्मात्सर्वस्माज्जगत उत्तरः। उत्कृष्टतरः। माधवभट्टास्तु वि हि सोतोरित्येषर्गिन्द्राण्या वाक्यमिति मन्यन्ते। तथा च तद्वचनम्। इन्द्राण्यै कल्पितं हविः कश्चिन्मृगोऽदूदुषदिन्द्रपुत्रस्य वृषाकपेर्विषये वर्तमानः। तत्रेन्द्रमिन्द्राणी वदति तस्मिन्पक्षे त्वस्या ऋचोऽयमर्थः। सोतोः सोमाभिषवं कर्तुं वि ह्यसृक्षत। उपरत सोमाभिषवा आसन्यजमाना इत्यर्थः। किञ्च मम पतिमिन्द्रं देवं नामंसत। स्तोतारो न स्तुवन्ति। कुत्रेति अत्राह। यत्र यस्मिन्देशे पुष्टेषु प्रवृद्धेषु धनेष्वर्यः स्वामी वृषाकपिरमदत्। मत्सखा मत्प्रियश्चेन्द्रो विश्वस्मात्सर्वस्माज्जगत उत्तरः। उत्कृष्टतरः॥१॥

10.86.2
परा॒ ही᳚न्द्र॒ धाव᳚सि वृ॒षाक᳚पे॒रति॒ व्यथि᳚ः ।
नो अह॒ प्र वि᳚न्दस्य॒न्यत्र॒ सोम᳚पीतये॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
परा᳚ । हि । इ॒न्द्र॒ । धाव᳚सि । वृ॒षाक᳚पेः । अति᳚ । व्यथिः᳚ ।
नो इति᳚ । अह᳚ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र᳚ । सोम᳚॑पीतये । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमत्यन्तं व्यथिश्चलितो वृषाकपेर्वृषाकपिं परा धावसि। प्रतिगच्छसि। अन्यत्र सोमपीतये सोमपानाय नो अह नैव च प्र विन्दसि। प्रगच्छसीत्यर्थः। सोऽयमिन्द्रो विश्वस्मादुत्तरः॥२॥

10.86.3
किम॒यं त्वां वृ॒षाक᳚पिश्च॒कार॒ हरि᳚तो मृ॒गः ।
यस्मा᳚ इर॒स्यसीदु॒ न्व१॒᳚र्यो वा᳚ पुष्टि॒मद्वसु॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒यम् । त्वाम् । वृ॒षाक᳚पिः । च॒कार᳚ । हरि᳚तः । मृ॒गः ।
यस्मै᳚ । इ॒र॒स्यसि᳚ । इत् । ऊं॒ इति᳚ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒॑मत् । वसु᳚ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वां पति हरितो हरितवर्णॊ मृगो मृगभूतोऽयं वृषाकपिः। मृगजातिर्हि वृषाकपिः। किं प्रियं चकार। अकार्षीत्। यस्मै वृषाकपये पुष्टिमत्पोषयुक्तम् वसु धनमर्यो वोदार इव स त्वं नु क्षिप्रमिरस्यसीत् प्रयच्छस्येव। य निद्रो विश्वस्मादुत्तरः॥३॥

10.86.4
यमि॒मं त्वं वृ॒षाक᳚पिं प्रि॒यमि᳚न्द्राभि॒रक्ष᳚सि ।
श्वा न्व᳚स्य जम्भिष॒दपि॒ कर्णे᳚ वराह॒युर्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
यम् । इ॒मम् । त्वम् । वृ॒षाक᳚पिम् । प्रि॒यम् । इ॒न्द्र॒ । अ॒भि॒॑रक्ष᳚सि ।
श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि᳚ । कर्णे᳚ । व॒रा॒ह॒॑युः । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं प्रियमिष्तम् पुत्रं यमिमं वृषाकपिमभिरक्षसि परिपालयसि अस्यैनम् वृषाकपिम् । द्वितीयार्थे षष्ठी। मराहयुर्वराहमिच्छञ्श्वानु क्षिप्रं बिंभिषत्। भक्षयतु। अपि च कर्णे ग्रुह्णात्विति शेषः। श्वानो हि वराहमिच्छन्ति। सिद्धमन्यत्॥४॥

10.86.5
प्रि॒या त॒ष्टानि᳚ मे क॒पिर्व्य᳚क्ता॒ व्य᳚दूदुषत् ।
शिरो॒ न्व᳚स्य राविषं॒ न सु॒गं दु॒ष्कृते᳚ भुवं॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
प्रि॒या । त॒ष्टानि᳚ । मे॒ । क॒पिः । वि॑अ᳚क्ता । वि । अ॒दू॒दु॒ष॒त् ।
शिरः᳚ । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒॑गम् । दुः॒॑कृते᳚ । भु॒व॒म् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मह्यमिन्द्राण्यै तष्टानि यजमानैः कल्पितानि प्रिया प्रियाणि व्यक्ता व्यक्तान्याज्यैर्विशेषेणाक्तानि हवींषि कश्चिद्वृषाकपेर्विषये वर्तमानः कपिर्व्य दुदुषत्। दूषयामास। ततोऽहमस्य तत्कपिस्वामिनो वृषाकपेः शिरो नु क्षिप्रं राविषम्। लुनीयाम्। दुष्कृते दुष्टस्य कर्मणः कर्त्रे वृषाकपयेऽस्मै सुगं सुखम् न भुवम्। अहं न भवेयम्। अस्मै सुखप्रदात्री न भावामीत्यर्थः। अस्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥५॥

10.86.6
न मत्स्त्री सु᳚भ॒सत्त᳚रा॒ न सु॒याशु᳚तरा भुवत् ।
न मत्प्रति᳚च्यवीयसी॒ न सक्थ्युद्य᳚मीयसी॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
न । मत् । स्त्री । सु॒भ॒सत्॑त᳚रा । न । सु॒याशु᳚॑तरा । भु॒व॒त् ।
न । मत् । प्रति᳚॑च्यवीयसी । न । सक्थि᳚ । उत्॑य᳚मीयसी । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्मत्तोऽन्या स्त्री नारी सुभसत्तरातिशयेन सुभगा न भुवत्। न भवति। नास्तीत्यर्थः। किञ्च मत्तोऽन्यास्त्री सुयाशुतरातिशयेन सुसुखातिशयेन सुपुत्रा वा न भवति। तथा च मन्त्रान्तरम्। ददाति मह्यं यादुरी याशूनां भोज्या शता। ऋ. १-१२६-६। इति। किञ्च मत्तोऽन्या स्त्री सक्थ्युद्यमियसी सम्भोगेऽत्यन्तमुत्क्षेप्त्री नास्ति। न मत्तोऽन्या काचिदपि नारी मैथुनेऽनुगुणं सक्थ्युद्यच्छतीत्यर्थः। मम पतिरिन्द्रो विश्वस्मादुत्तरः। उत्कृष्टः॥६॥

10.86.7
उ॒वे अ᳚म्ब सुलाभिके॒ यथे᳚वा॒ङ्ग भ᳚वि॒ष्यति᳚ ।
भ॒सन्मे᳚ अम्ब॒ सक्थि᳚ मे॒ शिरो᳚ मे॒ वी᳚व हृष्यति॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
उ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा᳚॑इव । अ॒ङ्ग । भ॒वि॒ष्यति᳚ ।
भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि᳚ । मे॒ । शिरः᳚ । मे॒ । वि॑इ᳚व । हृ॒ष्य॒ति॒ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवमिन्द्राण्या शप्तो वृषाकपिर्ब्रविति। उवे इति सम्बोधनार्थो निपातः। हे अम्ब मातः सुलाभिके शोभनलाभे त्वया यथैव येन प्रकारेणैवोक्तं तथैव तदङ्ग क्षिप्रं भविष्यति। भवतु। किमनेन त्वदनुप्रीतिकारिणा ग्रहेण मम प्रयोजनम्। किञ्च मे मम पितुस्त्वदीयो भसद्भग उपयुज्यताम्। किञ्च मम पितुस्त्वदीयं सक्थि चोपयुज्यताम्। किञ्च मे मम पितरमिन्द्रं त्वदीयं शिरश्च प्रियालापेन वीव यथा कोकिलादिः पक्षी तद्वद्धृष्यति। हर्षयतु। मम पितेन्द्रो विश्वस्मादुत्तरः॥७॥

10.86.8
किं सु᳚बाहो स्वङ्गुरे॒ पृथु᳚ष्टो॒ पृथु᳚जाघने ।
किं शू᳚रपत्नि न॒स्त्वम॒भ्य᳚मीषि वृ॒षाक᳚पिं॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
किम् । सु॒बा॒हो॒ इति᳚ सु॑बाहो । सु॒॑अ॒ङ्गु॒रे॒ । पृथु᳚स्तो॒ इति᳚ पृथु᳚॑स्तो । पृथु᳚॑जघने ।
किम् । शू॒र॒॑प॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक᳚पिम् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रुद्धामिन्द्र उपशमयति। हे सुबाहो हे शोभनबाहो स्वङ्गुरे शोभनाङ्गुलिके पृथुष्टो पृथुकेशसङ्घाते पृथुजघने विस्तीर्णजघने शूरपत्नि वीरभार्ये हे इन्द्राणि त्वं नोऽस्मदीयं वृषाकपिं किमर्थमभ्यमीषि। अभिक्रुध्यसि। एकः किंशब्दः। यस्य पितेन्द्रोऽहं विश्वस्मादुत्तरः॥८॥

10.86.9
अ॒वीरा᳚मिव॒ माम॒यं श॒रारु᳚र॒भि म᳚न्यते ।
उ॒ताहम᳚स्मि वी॒रिणीन्द्र᳚पत्नी म॒रुत्स᳚खा॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
अ॒वीरा᳚म्॑इव । माम् । अ॒यम् । श॒रारुः᳚ । अ॒भि । म॒न्य॒ते॒ ।
उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी᳚ । इन्द्र᳚॑पत्नी । म॒रुत्॑स᳚खा । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनरिन्द्रमिन्द्राणी ब्रवीति। शरारुर्घातुको मृगोऽयम् वृषाकपिर्मामिन्द्राणीमवीरामिवाभि मन्यते। विजानाति। उतापि चेन्द्रपत्नीन्द्रस्य भार्याहमिन्द्राणी वीरिणी पुत्रवती मरुत्सखा मरुद्भिर्युक्ता चास्मि। भवामि। यस्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥९॥

10.86.10
सं॒हो॒त्रं स्म᳚ पु॒रा नारी॒ सम᳚नं॒ वाव᳚ गच्छति ।
वे॒धा ऋ॒तस्य᳚ वी॒रिणीन्द्र᳚पत्नी महीयते॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
स॒म्॑हो॒त्रम् । स्म॒ । पु॒रा । नारी᳚ । सम᳚नम् । वा॒ । अव᳚ । ग॒च्छ॒ति॒ ।
वे॒धाः । ऋ॒तस्य᳚ । वी॒रिणी᳚ । इन्द्र᳚॑पत्नी । म॒ही॒य॒ते॒ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नारी स्त्र्यतस्य सत्यस्य वेधा विधात्री वीरिणी पुत्रवतीन्द्र पत्नीन्द्रस्य भार्येन्द्राणी संहोत्रं स्म समीचीनं यज्ञं खलु समनं वा सङ्ग्रामम्। समनमिति सङ्ग्रामनामसु पठात्। अव प्रति पुरा गच्छति। महीयते। स्तोतृभिः स्तूयते च। सत्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१०॥

10.86.11
इ॒न्द्रा॒णीमा॒सु नारि᳚षु सु॒भगा᳚म॒हम᳚श्रवम् ।
न॒ह्य᳚स्या अप॒रं च॒न ज॒रसा॒ मर᳚ते॒ पति॒र्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्रा॒णीम् । आ॒सु । नारि᳚षु । सु॒॑भगा᳚म् । अ॒हम् । अ॒श्र॒व॒म् ।
न॒हि । अ॒स्याः॒ । अ॒प॒रम् । च॒न । ज॒रसा᳚ । मर᳚ते । पतिः᳚ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथेन्दाणीमिन्द्रः स्तौति। आसु सौभाग्यवत्तया प्रसिद्धासु नारीषु स्त्रीषु स्त्रीणां मध्य इन्द्राणीं सुभगां सौभाग्यवतीमहमिन्द्रोऽश्रवम्। अश्रौषम्। किञ्चास्या इन्द्राण्याः पतिः पालको विश्वस्मादुत्तर उत्कृष्टतर इन्द्रोऽपरं चनान्यद्भूतजातमिव जरसा वयोहान्या न हि मरते। न खलु म्रियते। यद्वा। इदं वृषाकपेर्वाक्यम्। तस्मिन्पक्षे त्वहमिति शब्दो वृषाकपिपरतया योज्यः। अन्यत्समानम्॥११॥

10.86.12
नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक᳚पेरृ॒ते ।
यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ᳚ति॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः᳚ । वृ॒षाक᳚पेः । ऋ॒ते ।
यस्य᳚ । इ॒दम् । अप्य᳚म् । ह॒विः । प्रि॒यम् । दे॒वेषु᳚ । गच्छ᳚ति । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राणि अहमिन्द्रः सख्युर्मम सखिभूताद्वृषाकपेरृते प्रियं वृषाकपिं विना न रराण। न रमे। अप्यमप्सु भवमद्भिर्वा सुसंस्कृतं प्रियं प्रीतिकरमिदमुपस्थितं हविर्देवेषु देवनां मध्ये यस्य ममेन्द्रस्य सकाशं गच्छति। यश्चाहमिन्द्रः सर्वस्मादुत्तरः। यद्वा। अयमर्थः। हे इन्द्राणी वृषाकपेः सख्युरिन्द्रादृतेऽहं वृषाकपिर्न रराण। न रमे। आन्यत्समानम्॥१२॥

10.86.13
वृषा᳚कपायि॒ रेव᳚ति॒ सुपु᳚त्र॒ आदु॒ सुस्नु᳚षे ।
घस᳚त्त॒ इन्द्र᳚ उ॒क्षणः᳚ प्रि॒यं का᳚चित्क॒रं ह॒विर्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
वृषा᳚कपायि । रेव᳚ति । सु॑पु᳚त्रे । आत् । ऊं॒ इति᳚ । सु॑स्नु᳚षे ।
घस᳚त् । ते॒ । इन्द्रः᳚ । उ॒क्षणः᳚ । प्रि॒यम् । का॒चि॒त्॑क॒रम् । ह॒विः । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषाकपायि। कामानां वर्षकत्वादभीष्टदेशिग नाच्चेन्द्रो वृषाकपिः तस्य पत्नि। यद्वा। वृषाकपेर्मम मातरित्यर्थः। रेवति धनवति सुपुत्रे शोभनपुत्रे सुस्नुषे शोभनस्नुषे हे इन्द्राणि ते तवायमिन्द्र उक्षणः सेचनसमर्थानाद्वनन्तरमेव। शीघ्रमेवेत्यर्थः। पशून्घसत्। प्राश्नातु। किञ्च काचित्करम्। कं सुखम्। तस्याचित् सङ्घः। तत्करं हविः प्रियमिष्टं कुर्विति शेषः। किञ्च ते पतिरिन्द्रो विश्वस्मादुत्तरः। तथा च यास्कः। वृषाकपायि रेवति सुपुत्रे मध्यमेन सुस्नुषे माध्यमिकया वाचा। स्नुषा साधुसादिनीति वा साधुसानिनीति वा। प्रियं कुरुष्व सुखाचयकरं हविः सर्वस्माद्य इन्द्र उत्तरः॥नि. १२-९। इति॥१३॥

10.86.14
उ॒क्ष्णो हि मे॒ पञ्च᳚दश सा॒कं पच᳚न्ति विंश॒तिम् ।
उ॒ताहम᳚द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ᳚णन्ति मे॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
उ॒क्ष्णः । हि । मे॒ । पञ्च᳚॑दश । सा॒कम् । पच᳚न्ति । विं॒श॒तिम् ।
उ॒त । अ॒हम् । अ॒द्मि॒ । पीवः᳚ । इत् । उ॒भा । कु॒क्षी इति᳚ । पृ॒ण॒न्ति॒ । मे॒ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथेन्द्रो ब्रवीति। मे मदर्थं पञ्चदश पञ्चदशसङ्ख्याकान् विंशतिं विंशतिसङ्ख्याकांश्चोक्ष्णो वृषभान् साकं सह मम भार्ययेन्द्राण्या प्रेरिता यष्टारः पचन्ति। उतापि चाहमद्मि। तान्भक्षयामि। जग्द्वा चाहं पीव इत् स्थूल एव भवामीति शेशः॥ किञ्च मे ममोभोधौ कुक्षी पृणन्ति। सोमेन पूरयन्ति यष्टारः। सोऽहमिन्द्रः सर्वस्मादुत्तरः॥१४॥

10.86.15
वृ॒ष॒भो न ति॒ग्मशृ᳚ङ्गो॒॑न्तर्यू॒थेषु॒ रोरु᳚वत् ।
म॒न्थस्त᳚ इन्द्र॒ शं हृ॒दे यं ते᳚ सु॒नोति᳚ भाव॒युर्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
वृ॒ष॒भः । न । ति॒ग्म॑शृ᳚ङ्गः । अ॒न्तः । यू॒थेषु᳚ । रोरु᳚वत् ।
म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति᳚ । भा॒व॒युः । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथेन्द्राणी ब्रविति। तिग्मशृङ्गस्तीक्ष्णशृङ्गो वृषभो न यथा वृषभो यूथेषु गोसङ्घेष्वन्तर्मध्ये रोरुवच्छब्दम् कुर्वन् गा आभिरमयति तथा हे इन्द्र त्वं मामभिरमयेति शेषः। किञ्च हे इन्द्र ते तव हृदे हृदयाय मन्थो दध्नो मथनवेलायाम् शब्दं कुर्वञ्शं शङ्करो भवत्विति शेषः। किञ्च ते तुभ्यम् यं सोमं भावयुर्भावमिच्छन्तीन्द्राणी सुनोति आभिषुणोति सोपि शङ्करो भवत्वित्यर्थः। मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१५॥

10.86.16
न सेशे॒ यस्य॒ रम्ब᳚ते॑न्त॒रा स॒क्थ्या॒३॒᳚ कपृ᳚त् ।
सेदी᳚शे॒ यस्य᳚ रोम॒शं नि᳚षे॒दुषो᳚ वि॒जृम्भ᳚ते॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
न । सः । ई॒शे॒ । यस्य᳚ । रम्ब᳚ते । अ॒न्त॒रा । स॒क्थ्या᳚ । कपृ᳚त् ।
सः । इत् । ई॒शे॒ । यस्य᳚ । रो॒म॒शम् । नि॒॑से॒दुषः᳚ । वि॒॑जृम्भ᳚ते । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र स जनो नेशे मैथुनं कर्तुं नेष्टे न शक्नोति यस्य जनस्य कपृच्छेपः सक्थ्या सक्थिनी अन्तरा रम्बते लम्बते। सेत् स एव स्त्रीजन ईशे मैथुनं कर्तुं सक्नोति यस्य जनस्य निषेदुषः शयानस्य रोमशमुपस्थं विजृम्भते विवृतम् भवति। यस्य च पतिरिन्द्रो विश्वस्मादुत्तरः॥१६॥

10.86.17
न सेशे॒ यस्य᳚ रोम॒शं नि᳚षे॒दुषो᳚ वि॒जृम्भ᳚ते ।
सेदी᳚शे॒ यस्य॒ रम्ब᳚ते॑न्त॒रा स॒क्थ्या॒३॒᳚ कपृ॒द्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
न । सः । ई॒शे॒ । यस्य᳚ । रो॒म॒शम् । नि॒॑से॒दुषः᳚ । वि॒॑जृम्भ᳚ते ।
सः । इत् । ई॒शे॒ । यस्य᳚ । रम्ब᳚ते । अ॒न्त॒रा । स॒क्थ्या᳚ । कपृ᳚त् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स जनो नेशे मैथुनम् कर्तुं नेष्टे यस्य जनस्य निषेदुषह् शयानस्य रोमशमुपस्थं विजृम्भते विवृतं भवति। सेत् स एव जन ईशे मैथुनं कर्तुं शक्नोति यस्य जनस्य कपृत् प्रजननं सक्थ्या सक्थिनी अन्तरा रम्बते लम्बते। सिद्धमन्यत्। पूर्वोक्तव्यतिरेकोऽत्र द्रष्टव्यः। पूर्वस्यामृचि यियप्सुरिन्द्राणीन्द्रं वदति अत्र त्वयियप्सुरिन्द्र इन्द्राणीं वदतीत्यविरोधः॥१७॥

10.86.18
अ॒यमि᳚न्द्र वृ॒षाक᳚पि॒ः पर᳚स्वन्तं ह॒तं वि᳚दत् ।
अ॒सिं सू॒नां नवं᳚ च॒रुमादेध॒स्यान॒ आचि᳚तं॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । इ॒न्द्र॒ । वृ॒षाक᳚पिः । पर᳚स्वन्तम् । ह॒तम् । वि॒द॒त् ।
अ॒सिम् । सू॒नाम् । नव᳚म् । च॒रुम् । आत् । एध᳚स्य । अनः᳚ । आ॑चि᳚तम् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अयं वृषाकपिः परस्वन्तं परस्वमात्मनो विषयेऽवर्तमानम् हतं हिंसितं विदत्। विन्दतु। तथा हतस्य विशसनायासिं शस्त्रं सूनामुद्धानं पाकार्थं नवं प्रत्यग्रं चरुम् भाण्डमादनन्तरमेध्यस्य काष्ठस्याचितं पूर्णमनः शकटं च विन्दतु। मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१८॥

10.86.19
अ॒यमे᳚मि वि॒चाक᳚शद्विचि॒न्वन्दास॒मार्य᳚म् ।
पिबा᳚मि पाक॒सुत्व᳚नो॒॑भि धीर᳚मचाकशं॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ए॒मि॒ । वि॒॑चाक᳚शत् । वि॒॑चि॒न्वन् । दास᳚म् । आर्य᳚म् ।
पिबा᳚मि । पा॒क॒॑सुत्व᳚नः । अ॒भि । धीर᳚म् । अ॒चा॒क॒श॒म् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथेन्द्रो ब्रवीति। विचाकशत् पश्यन्यजमानान् दासमुपक्षपयितारमसुरमार्यमपि च विचिन्वन् पृथक्कुर्वन्नयमहमिन्द्र एमि। यज्ञं प्रति गच्छामि। यज्ञं गत्वा च पाकसुत्वनः। पचतिति पाकः। सुनोतिति सुत्वा। हविषां पक्तुः सोमस्याभिषोतुर्यजमानस्य पाकेन विपक्वेन मनसा सोमस्याभिषोतुर्वा यजमानस्य सम्बन्धिनं सोमं पिबामि। तथा धीरं धीमन्तं यजमानमभ्यचाकशम् । अभिपश्याम्मि। योऽहमिन्द्रो विश्वस्मादुत्तरः॥१९॥

10.86.20
धन्व᳚ च॒ यत्कृ॒न्तत्रं᳚ च॒ कति᳚ स्वि॒त्ता वि योज᳚ना ।
नेदी᳚यसो वृषाक॒पे॑स्त॒मेहि᳚ गृ॒हा{4} उप॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
धन्व᳚ । च॒ । यत् । कृ॒न्तत्र᳚म् । च॒ । कति᳚ । स्वि॒त् । ता । वि । योज᳚ना ।
नेदी᳚यसः । वृ॒षा॒क॒पे॒ । अस्त᳚म् । आ । इ॒हि॒ । गृ॒हान् । उप᳚ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्व निरुदकोऽरण्यरहितो देशः। कृतन्तत्रम् कर्तनीयमरण्यम् । यद्यच्च धन्व च कृतन्त्रम् च भवति। मृगोद्वासमरण्यमेवं विधं भवति न त्वत्यन्तविपिनम् । तस्य शत्रुनिलयस्यास्मदीयगृहस्य च मध्ये कति स्वित्ता तानि योजना योजननि स्थितानि। नात्यन्तदुरे तद्भवतीत्यर्थः। अतो नेदीयसोऽतिशयेन समीपस्थाच्छत्रु निलयात् हे वृषाअकपे त्वमस्तमस्माकं गृहम् व्येहि। विशेशेणागच्छ। आगत्य च गृहान्यज्ञगृहानुपगच्छ। यतोऽमिन्द्र्ः सर्वस्मादुत्कृष्टः॥२०॥

10.86.21
पुन॒रेहि᳚ वृषाकपे सुवि॒ता क᳚ल्पयावहै ।
य ए॒ष स्व᳚प्न॒नंश॒नो॑स्त॒मेषि᳚ प॒था पुन॒र्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ ।
यः । ए॒षः । स्व॒प्न॒॑नंश᳚नः । अस्त᳚म् । एषि᳚ । प॒था । पुनः᳚ । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आगत्य प्रतिगतं वृषाकपिमिन्द्रो ब्रविति। हे वृषाकपे त्वम् पुनरेहि। अस्मान्प्रत्यागच्छ। आगते च त्वयि सुविता सुवितानि कल्याणानि त्वच्चित्तप्रीतिकराणि कर्माणि कल्पयावहै। इन्द्राण्यहं चावामुभौ पर्यालोच्य कुर्याव। किञ्च यः स्वप्ननंशन उदयेन सर्वस्य प्राणिनह् स्वप्नानाम् नाशयितादित्यः स एष त्वं पथा मारेगेणास्तमात्मीयमावासं पुनरेषि। गच्छसि। यतोऽहमिन्द्रो विश्वस्मादुत्तरः। तथा यास्कः। सुप्रसूतानि वः कर्माणि कल्पयावहै य एष स्वप्नसंशनः। स्वप्नान्ना तयस्यादित्य उदयेन सोऽस्तमेषि पथा पुनः। नि. १२-२८। इति॥२१॥

10.86.22
यदुद᳚ञ्चो वृषाकपे गृ॒हमि॒न्द्राज᳚गन्तन ।
क्व१॒᳚ स्य पु᳚ल्व॒घो मृ॒गः कम᳚गञ्जन॒योप᳚नो॒ विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
यत् । उद᳚ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज᳚गन्तन ।
क्व᳚ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒॑योप᳚नः । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

गत्वा पुनरागतं वृषाकपिमिन्द्रः पृच्छति। हे इन्द्र परमैश्वर्यवन् हे वृषाकपे यूयौदञ्च उद्गामिनः सन्तो मद्गृहमजगन्तन। आगच्छ। एकस्यापि बहुवचनं पूजार्थम्। तत्र भवतः सम्बन्धी पुल्वघो बहूनां भ्ॐअरनासामत्ता स्य स मृगः क्वाभूत्। जनयोपनो जनानां मोदयिता मृगः कं वा देवमगन् आगच्छत्। सोऽहमिन्द्रो विश्वस्मादुत्तरः। यद्वा इन्द्राणीवाक्यमिदम्। अत्र यास्क:। यदुदञ्चो वृषाकपे गृहमिन्द्राजगमत क्व स्य पुल्वघो मृगः क्व स बह्वादी मृगः। मृगो माष्टेर्गतिकर्मनः। कमगमद्देशं जनयोपनः। नो. १३-३॥ इति॥२२॥

10.86.23
पर्शु᳚र्ह॒ नाम᳚ मान॒वी सा॒कं स᳚सूव विंश॒तिम् ।
भ॒द्रं भ᳚ल॒ त्यस्या᳚ अभू॒द्यस्या᳚ उ॒दर॒माम᳚य॒द्विश्व᳚स्मा॒दिन्द्र॒ उत्त᳚रः ॥
▶ पदपाठः (Word-by-word)
पर्शुः᳚ । ह॒ । नाम᳚ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् ।
भ॒द्रम् । भ॒ल॒ । त्यस्यै᳚ । अ॒भू॒त् । यस्याः᳚ । उ॒दर᳚म् । आम᳚यत् । विश्व᳚स्मात् । इन्द्रः᳚ । उत्॑त᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रविसृज्यमानमनेन मन्त्रेण वृषाकपिराशास्ते। हे भलेन्द्रेण विसृज्यमान शर। भलतिर्भेदनकर्मा। पर्शुर्नाम मृगी। हेति पूरनः। मानवी मनोर्दुहितेयं विंशतिं विंशतिसङ्ख्याकान्पुत्रान् साकं सह ससूव। अजीजनत्। त्यस्यै तस्यै भद्रम् भजनीयं कल्याणमभुत्। भवतु। लोडर्थे लुङ्। यस्या उदरमामयत्। गर्भस्थैर्विंशतिभिः पुत्रई पुष्टमासीत्। मम पितेन्द्रो विश्वस्मादुत्तरः॥२३॥