हर्ष᳚स्व॒ हन्त᳚वे शूर॒ शत्रू᳚नु॒क्थेभि᳚ष्टे वी॒र्या॒३॒᳚ प्र ब्र᳚वाम ॥
पदपाठः (Word-by-word)
हर्ष᳚स्व । हन्त᳚वे । शू॒र॒ । शत्रू᳚न् । उ॒क्थेभिः᳚ । ते॒ । वी॒र्या᳚ । प्र । ब्र॒वा॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्र पिबेति दशर्चं त्रयोदशं सूक्तं त्रैष्टुभमैन्द्रं नभः प्रभेदनो नाम विरूपगोत्र ऋषिः। तथा चानुक्रम्यते। इन्द्र पिब नभः प्रभेदेन इति। गतो विनियोगः॥
हे इन्द्र त्वं प्रतिकामं ये ये कामास्तांस्तान्प्रति। अव्ययीभावसमासः। तस्य स्वरः। यथेच्छं सुतस्याभिश्य्हुतस्य यो भागस्तुभ्यं दातव्यस्तम् बिब। आमन्त्रितस्याविद्यमानत्वेन पादादित्वाद निघातः। प्रातः सावः प्रातःसवनेऽभिषूयमाणः सोमस्तव हि। तृतीयार्थे षष्ठी। त्वयैव पूर्वपीतिः प्रथमत एव पातव्यः। यद्वा। प्रातः सावः। सप्तम्याः सुः। प्रातः सवने तवैव प्रथमपानं खलु। ऐन्द्रवायुवग्रहे ह्यादित एवेन्द्रः पिबति। तत्पुरुषे दासीभारदित्वात्पूर्वपदान्तोदात्तत्वम्। यद्वा। बहुव्रीहिः। ततो हे शूर समर्थ त्वं शत्रून्हन्तवे हन्तुं हर्षस्व। हृष्टो भव। अथ ते त्वदीयानि वीर्या वृत्रहननादिलक्षणानि वीर्याण्युक्थेभिरुक्थैः शस्त्रैः प्र ब्रवाम। प्रकर्षेण वदाम॥१॥