यस्य॒ त्यत्ते᳚ महि॒मानं॒ मदे᳚ष्वि॒मे म॒ही रोद᳚सी॒ नावि᳚विक्ताम् ।
तदोक॒ आ हरि᳚भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ᳚ ॥
तदोक॒ आ हरि᳚भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ᳚ ॥
पदपाठः (Word-by-word)
यस्य᳚ । त्यत् । ते॒ । म॒हि॒मान᳚म् । मदे᳚षु । इ॒मे इति᳚ । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । न । अवि᳚विक्ताम् ।
तत् । ओकः᳚ । आ । हरि᳚॑भिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः᳚ । या॒हि॒ । प्रि॒यम् । अन्न᳚म् । अच्छ᳚ ॥
तत् । ओकः᳚ । आ । हरि᳚॑भिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः᳚ । या॒हि॒ । प्रि॒यम् । अन्न᳚म् । अच्छ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र इमे मही महतौ रोदसी द्यावापृथिव्यौ यस्य ते तव सोमपानेन जनितेषु मदेषु सम्भूतं त्यत्तं महिमानं नाविविक्तां न पृथक्कुरुतः किन्तु यस्य महिम्न्येव तिष्ठतः। विचिर् पृथग्भावे जौहोत्यादिकः। लङि संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुनाभावः। यद्योगादनिघातः। प्रियेभिः प्रियतमै रथे युक्तैर्हरिभिरश्वैः प्रियं प्रीणनकरमन्नं सोमलक्षनमच्छाभिलक्ष्य तदोकोऽस्मदीयं यज्ञसदनमा याहि। आगच्छ॥४॥