हरि᳚त्वता॒ वर्च᳚सा॒ सूर्य᳚स्य॒ श्रेष्ठै᳚ रू॒पैस्त॒न्वं᳚ स्पर्शयस्व ।
अ॒स्माभि᳚रिन्द्र॒ सखि᳚भिर्हुवा॒नः स᳚ध्रीची॒नो मा᳚दयस्वा नि॒षद्य᳚ ॥
अ॒स्माभि᳚रिन्द्र॒ सखि᳚भिर्हुवा॒नः स᳚ध्रीची॒नो मा᳚दयस्वा नि॒षद्य᳚ ॥
पदपाठः (Word-by-word)
हरि᳚त्वता । वर्च᳚सा । सूर्य᳚स्य । श्रेष्ठैः᳚ । रू॒पैः । त॒न्व᳚म् । स्प॒र्श॒य॒स्व॒ ।
अ॒स्माभिः᳚ । इ॒न्द्र॒ । सखि᳚॑भिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒॑सद्य᳚ ॥
अ॒स्माभिः᳚ । इ॒न्द्र॒ । सखि᳚॑भिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒॑सद्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र हरित्वता। हरिच्छब्दान्मतुपो झय इति वत्वम् । हरिद्वर्णयुक्तेन सूर्यस्य वर्चसा तेजसा तत्सदृशैः श्रेष्ठैः प्रशस्यतमैरात्मीयै रूपैस्तन्वमात्मीयं शरीरं मदीयं वा। यद्वा। तायत इति तनूर्यज्ञः। तं स्पर्शयस्व। तेजोयुक्तं कुरु। किञ्च सध्रीचीनः। विभाषाञ्चेरदिक् स्त्रियामिति खप्रत्ययः। मरुद्भिः सहाञ्चनस्त्वं सखिभिः सखिभूतैरस्माभिर्हुवान आहूयमानः सन्निषद्य यज्ञे निषण्णो भुत्वा मादयस्व। सोमपानेन हृष्टो भव॥३॥