अर्व᳚न्तो वा॒ ये र᳚यि॒मन्त᳚ः सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं᳚ सु॒श्रुतो॒ धुः ॥
पदपाठः (Word-by-word)
अर्व᳚न्तः । वा॒ । ये । र॒यि॒॑मन्तः᳚ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒॑श्रुण᳚म् । सु॒॑श्रुतः᳚ । धुरिति॒ धुः ॥
सायणभाष्यम् (Sayana Commentary)
वसूनामिति षडृचं षष्ठम् सूक्तम्। ऋष्याद्याः पूर्ववत्। वसूनां षळित्यनुक्रान्तम्। गतो विनियोगः॥
इयक्षन् धनानि दातुमिच्छन्निन्द्रो वसूनां धनानां लाभाय वा चर्कृषे। अपकृष्यते। धिया वा। धिः कर्म धार्यमानत्वात्। युद्धादिकर्मणा वा निमित्तेनाकृष्यते। यज्ञैर्वा निमित्तभूतैः कृश्यते। कैरिति उच्यते। रोदस्योर्द्यावापृथिव्योः सम्बन्धिभिर्देवैर्मनुष्यैश्चेत्यर्थः। सातौ सङ्ग्रामे जेतव्ये सति येऽर्वन्तो वा गच्छन्तो रयिमन्तो भवन्ति तैरप्याकृष्यते। ये वनुं वा हिंसां वा सुश्रुणं सुप्रसिद्धामत्यन्तदुर्जयविषयाम् सुश्रुतः सुश्रवसः प्रसिद्धाः कुर्वन्ति तैरपीन्द्र आकृष्यत इति॥१॥