श्रवणम्

10.74.4
आ तत्त᳚ इन्द्रा॒यवः᳚ पनन्ता॒भि य ऊ॒र्वं गोम᳚न्तं॒ तितृ᳚त्सान् ।
स॒कृ॒त्स्वं१॒᳚ ये पु᳚रुपु॒त्रां म॒हीं स॒हस्र᳚धारां बृह॒तीं दुदु᳚क्षन् ॥
▶ पदपाठः (Word-by-word)
आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः᳚ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गो॑म᳚न्तम् । तितृ᳚त्सान् ।
स॒कृ॒त्॑स्व᳚म् । ये । पु॒रु॒॑पु॒त्राम् । म॒हीम् । स॒हस्र᳚॑धाराम् । बृ॒ह॒तीम् । दुधु᳚क्षन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तवायवो मनुष्या अङ्गिरसस्तत्तदा पनन्त। आ सर्वतः पनन्त। स्तूयन्ते। येऽङ्गिरसो गोमन्तमुर्वं सङ्घं पणिभिरपहृतं प्राप्तं तितृत्सान् हिंसितुमैच्छ्न्। तिदेर्जोसार्त्जसुअ समम्तसुअ ;एटुआडागमः। यद्योगादनिघातः। अभ्यस्तस्वरः। ये चाङ्गिरसः सकृत्स्वम् । या सकृत्सूते सा सकृत्सूः। तां सकृत्प्रजातां पुरुपुत्रां बह्वोषधिवनस्पतिरूपपुत्रां सहस्रधारां बहुलकामानामुत्पादयित्रीं बृहतीं विस्तृतां महीं भूमिम् । यद्वा। पुरुपुत्रां बह्वोषधि वनस्पतिरूपपुत्रां सहस्रधारां बहुकामवर्षित्रीं महीं महतीं पूज्यां वा बृहतीं परिमाणरहितां दिवम् । दुधुक्षन् दुदुहुः। ते पनन्तेति सम्बन्धः सकृद्धद्यौरजायतेत्याद्युक्तम्। ऋ. ६-४८-२२॥४॥