अ॒स्माक॒मिन्द्र᳚ उ॒भयं᳚ जुजोषति॒ यत्सो॒म्यस्यान्ध᳚सो॒ बुबो᳚धति ॥
पदपाठः (Word-by-word)
अ॒स्माक᳚म् । इन्द्रः᳚ । उ॒भय᳚म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य᳚ । अन्ध᳚सः । बुबो᳚धति ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः स्वभूतौ हरी धियसानस्य इन्द्रागमनं चिन्तयतोयजमानस्य मनः संबंधिनिसक्षणि सेवायां मद्गुणके सेव्ये यज्ञेनिमित्तेग्मन्ता आगच्छन्तौ सु सुष्ठु प्रेरयति ततः सइन्द्रः वरे- भिर्वरणीयैर्मार्गैः प्रसीदतः हविरासादयतोयजमानस्य वरानुत्कृष्टान् हविर्विशेशान्स्तुतिविशे षांश्चाभिलक्षीकृत्य सुष्ठु आगच्छतु सइन्द्रआगतः सन् अस्माकं स्वभूतं उभयं हविश्च स्तुति श्चैतद्बूयं जुजोषति सेवतां भक्षयतु श्रृणोतु चेत्यर्थः । यद्यदा सोम्यस्य सोमसंपादिनोमम अन्धसः अन्नरूपस्य सोमस्य रसमितिशेषः बुबोधति बुध्यते जिह्वया विजानाति सोमं पिबतीत्यर्थः तदा जुजोषतीति पूर्वेण संबंधः ॥ १ ॥