श्रवणम्

10.32.8
अ॒द्येदु॒ प्राणी॒दम᳚मन्नि॒माहापी᳚वृतो अधयन्मा॒तुरूधः᳚ ।
एमे᳚नमाप जरि॒मा युवा᳚न॒महे᳚ळ॒न्वसु᳚ः सु॒मना᳚ बभूव ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । इत् । ऊं॒ इति᳚ । प्र । आ॒नी॒त् । अम᳚मन् । इ॒मा । अहा᳚ । अपि᳚॑वृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः᳚ ।
आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा᳚नम् । अहे᳚ळन् । वसुः᳚ । सु॒॑मनाः᳚ । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः अद्येत् अद्यैवास्मिन्दिने प्राणीत् मन्थनेन चेष्टितोभवत् श्वसप्राणने अनचे- तिधातुः । तदानीमेव इमा इमानि अहा अहानि सौमिकानि अममन् नेतुममन्यत मन- ज्ञाने व्यत्ययेन श्लुः तिङउत्तद्रत्वादनिघातः । अपिच अपीवृतः तेजोभिः परिवृतः सन् मातुः पृथिव्याः ऊधः सारभूतं सोमादिकं हविरधयत् पिबति तथा युवानं नित्यतरुणं देवानां हविषा मिश्रयन्तं वा एनमग्निं जरिमा जरतिः स्तुतिकर्मा त्स्मादौणदिकइमनिच् । स्तोतृभिः क्रियमाणा स्तुतिरापआभिमुख्येन चाप्नोति ईमिति पूरणः । ततः अहेळन् अक्रु- ध्यन् स्तोतॄन्प्रति वसुः वासयिता सर्वेषां धनदानेनाच्छादयिता तेजोभिः शत्रूणां वा वसुमान्वा अग्निः सुमनाः शोभनमनस्कोबभूव ॥ ८ ॥