दशमं मण्डलम् - सूक्तम् 182

3 ऋचः

ऋषिः: तपुर्मूर्धा बार्हस्पत्यः देवता: बृहस्पतिः छन्दः: त्रिष्टुप्

सूक्तम् 10.182 - सम्पूर्णम्

1 / 3
ऋक्: 10.182.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.182.1
बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म᳚ ।
क्षि॒पदश᳚स्ति॒मप᳚ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज᳚मानाय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । न॒य॒तु॒ । दुः॒॑गहा᳚ । ति॒रः । पुनः᳚ । ने॒ष॒त् । अ॒घ॑शं᳚साय । मन्म᳚ ।
क्षि॒पत् । अश᳚स्तिम् । अप᳚ । दुः॒॑म॒तिम् । ह॒न् । अथ᳚ । क॒र॒त् । यज᳚मानाय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहस्पतिरिति तृचमेकत्रिंशं सूक्तं ब्रुहस्पतिदेवत्यं त्रैष्तुभम्। ब्रुहस्पतिपुत्रस्तपुर्मूर्धा नामर्षिः। तथाचानुक्रान्तम्। बृहस्पतिस्तपुर्मूर्धा बार्हस्पत्यो बार्हस्पत्यमिति। गतो विनियोगः॥

बृहस्पतिर्बृहतां देवानां पतिः पालयिता। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। म. ६-१-१५७। इति सुडागमस्तलोपश्च। उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रक्रुतिस्वरत्वम्। दुर्गहा दुर्गमनानां हन्ता स देवस्तिरो नयतु। तिरस्कर्तव्यानि पापान्यपसारयतु। अघशंसायास्माकमनर्थमाशंसमानाय पुरुशाय मन्म। मन्यतेर्दीप्तिकर्मणो मन्म। दीप्तमायुधं पुनर्नेषत्। नयतु। नयतेर्लेट्यडागमः। सिब्बहुलमिति सिप्। अपि चाशस्तिमयशस्विनं शत्रुं क्शिपतु। अस्मत्तः प्रेरयतु। दुर्मतिं दुर्बुद्धिं चापहन्। अपहन्तु। अथानन्तरं शं रोगाणां शमनं योर्भयानां यावनं च करत्॥१॥

10.182.2
नरा॒शंसो᳚ नो॑वतु प्रया॒जे शं नो᳚ अस्त्वनुया॒जो हवे᳚षु ।
क्षि॒पदश᳚स्ति॒मप᳚ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज᳚मानाय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
नरा॒शंसः᳚ । नः॒ । अ॒व॒तु॒ । प्र॒॑या॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒॑या॒जः । हवे᳚षु ।
क्षि॒पत् । अश᳚स्तिम् । अप᳚ । दुः॒॑म॒तिम् । ह॒न् । अथ᳚ । क॒र॒त् । यज᳚मानाय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चसु प्रयाजेषु द्वितीयः प्रयाजो नाराशंसदेवताकः। तस्मिन्प्रयाजे देवताभुतो नराशंसो नरैः शंसनीयोऽग्निर्नोऽस्मानवतु। रक्षतु। हवेश्वाह्वानेषु सत्वनुयाजः। त्रयोऽनुयाजाः। द्वितीयोऽनुयाजो नराशंसः। तस्यानुयाजस्य देवताभुतो नराशंसोऽग्निश्च नोऽस्माकं शं सुखकरोऽस्तु। ब्रुहस्पतिश्चाशस्तिं क्षिपदित्यादि पूर्ववत्॥२॥

10.182.3
तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विष॒ः शर᳚वे॒ हन्त॒वा उ᳚ ।
क्षि॒पदश᳚स्ति॒मप᳚ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज᳚मानाय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
तपुः᳚॑मूर्धा । त॒प॒तु॒ । र॒क्षसः᳚ । ये । ब्र॒ह्म॒॑द्विषः᳚ । शर᳚वे । हन्त॒वै । ऊं॒ इति᳚ ।
क्षि॒पत् । अश᳚स्तिम् । अप᳚ । दुः॒॑म॒तिम् । ह॒न् । अथ᳚ । क॒र॒त् । यज᳚मानाय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तपुर्मूर्धा तापकशिरस्को बृहस्पती रक्षसो ये ब्रह्मद्विषो ब्राह्मनद्वेष्टारो राक्षसाः तान्राक्षसांस्तपतु। तापयतु। दहत्वित्यर्थः। किमर्थम् । शरवे शरुम् हिंसकं रक्षसामधिपतिं हन्तवै हन्तुम्। अनुचरान्पूर्वं नाशयतु पश्चादेनमपि नाशयत्वित्यर्थः। शॄ हिंसायामित्यस्माच्छॄस्वृस्निहीत्यादिनोप्रत्ययः। निदित्यनुवृत्तेराद्युदात्तत्वम्। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। हन्तेस्तुमर्थे सेसेनिति तवैप्रत्ययः। अन्तश्च तवै युगपदित्याद्यन्तयोर्युगपदुदात्तत्वम्। उशब्दः पूरकः॥३॥