विश्व᳚स्य॒ होता᳚ ह॒विषो॒ वरे᳚ण्यो वि॒भुर्वि॒भावा᳚ सु॒षखा᳚ सखीय॒ते ॥
पदपाठः (Word-by-word)
विश्व᳚स्य । होता᳚ । ह॒विषः᳚ । वरे᳚ण्यः । वि॒॑भुः । वि॒भा॑वा᳚ । सु॒॑सखा᳚ । स॒खि॒॑य॒ते ॥
सायणभाष्यम् (Sayana Commentary)
अष्टमेऽनुवाके नव सूक्तानि। सं जागृवद्भिरिति पञ्चदशर्चं प्रथमं सूक्तं वीतहव्यपुत्रस्यारुणनाम्न आर्षमग्निदैवत्यम्। अन्त्या त्रिष्टुप् शिश्टा जगत्यः। तथा चानुक्रान्तम्। सं जागृवद्भिः पञ्चोनारुणो वैतहव्य आग्नेयमिति प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम्। सूत्रितं च। सं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्। आ. ४-१३। इति॥
हे अग्ने जागृवद्भिर्जागरणशीलैः स्तोतृभिर्जरमाणः स्तूयमानो दमूना दममना दानमना दान्तमना वेळ इळयास्पदे स्थान उत्तरवेद्यामिषयन्नन्नमिच्छन् विश्वस्य सर्वस्य हविषो होता वरेण्यो वरणीयो विभुर्व्याप्तो विभावा दीप्तिमान् सुषखा शोभनसखा भवान् सखीयते सखित्वमिच्छते यजमानाय समिध्यते। सम्यग्दीप्यते॥१॥