श्रवणम्

10.91.6
तमोष᳚धीर्दधिरे॒ गर्भ᳚मृ॒त्वियं॒ तमापो᳚ अ॒ग्निं ज᳚नयन्त मा॒तरः᳚ ।
तमित्स᳚मा॒नं व॒निन᳚श्च वी॒रुधो॒॑न्तर्व᳚तीश्च॒ सुव᳚ते च वि॒श्वहा᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ओष᳚धीः । द॒धि॒रे॒ । गर्भ᳚म् । ऋ॒त्विय᳚म् । तम् । आपः᳚ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः᳚ ।
तम् । इत् । स॒मा॒नम् । व॒निनः᳚ । च॒ । वी॒रुधः᳚ । अ॒न्तः॑व᳚तीः । च॒ । सुव᳚ते । च॒ । वि॒श्वहा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्वियमृतौ प्राप्तं गर्भं गर्भभूतं तं प्रकृतमग्निमोषधीरोषध्यो दधिरे। धारयन्ति। तमेवाग्निं मातरो धारकत्वेन मातृस्थानीया आपश्च जनयन्त। जनयन्ति। किञ्च वनिनो वनस्पतयश्च समानं गर्भभावेन प्रवेशात्स्वतुल्यं तमित्तमेवाग्निं जनयन्ति। किञ्च तमेवाग्निमन्तर्वतीर्गर्भवत्यो वीरुध ओषधयश्च विश्वहा सर्वदा सुवते। जनयन्ति॥६॥