श्रवणम्

10.91.8
मे॒धा॒का॒रं वि॒दथ᳚स्य प्र॒साध᳚नम॒ग्निं होता᳚रं परि॒भूत᳚मं म॒तिम् ।
तमिदर्भे᳚ ह॒विष्या स᳚मा॒नमित्तमिन्म॒हे वृ᳚णते॒ नान्यं त्वत् ॥
▶ पदपाठः (Word-by-word)
मे॒धा॒॑का॒रम् । वि॒दथ᳚स्य । प्र॒॑साध᳚नम् । अ॒ग्निम् । होता᳚रम् । प॒रि॒॑भूत᳚मम् । म॒तिम् ।
तम् । इत् । अर्भे᳚ । ह॒विषि᳚ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मेधाकारं प्रज्ञायाः कर्तारं विदथस्य यज्ञस्य प्रसाधनं प्रकर्षेण साधकं होतारं देवानामाह्वातारं परिभूतममतिशयेन शत्रूणां परिभवितारं मतिं मन्तारं यं त्वामग्निं वृणीमह इति शेषः। तमित्तमेवाग्निमर्भेऽल्पे हविषि च पुरोडाशादिके हविषि समानमित्सहैवर्त्विज आ वृणते। प्रार्थयन्ते। महे महति सोमात्मके हविष्यपि तमित्तमेवाग्निं वृणते त्वत्त्वत्तोऽन्यमतिरिक्तं देवं न वृणते॥८॥