श्रवणम्

10.91.15
अहा᳚व्यग्ने ह॒विरा॒स्ये᳚ ते स्रु॒ची᳚व घृ॒तं च॒म्वी᳚व॒ सोमः᳚ ।
वा॒ज॒सनिं᳚ र॒यिम॒स्मे सु॒वीरं᳚ प्रश॒स्तं धे᳚हि य॒शसं᳚ बृ॒हन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
अहा᳚वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये᳚ । ते॒ । स्रु॒चि॑इ᳚व । घृ॒तम् । च॒म्वि᳚॑इव । सोमः᳚ ।
वा॒ज॒॑सनि᳚म् । र॒यिम् । अ॒स्मे इति᳚ । सु॒॑वीर᳚म् । प्र॒॑श॒स्तम् । धे॒हि॒ । य॒शस᳚म् । बृ॒हन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तवास्ये मुखे हविः पुरोडाशादि हविरस्माभिरहावि। सततं प्रक्षिप्यते। तत्र दृष्टान्तौ। घृतमाज्यं स्रुचीव यथा स्रुचि। चम्वीव सोमः यथा चमसे सोमः। तद्वदित्यर्थः। तथा त्वं वाजसनिमन्नस्य दातारं सुवीरं शोभनपुत्रोपेतं प्रशस्तं सुवर्णादिकं यशसं यशस्विनं कीर्तमन्तं बृहन्तमपरिमितं महान्तं वा रयिं रमणीयं धनमस्मे अस्मभ्यं धेहि। देहि॥१६॥