आ यः प॒प्रौ च᳚र्षणी॒धृद्वरो᳚भि॒ः प्र सिन्धु᳚भ्यो रिरिचा॒नो म᳚हि॒त्वा ॥
पदपाठः (Word-by-word)
आ । यः । प॒प्रौ । च॒र्ष॒णि॒॑धृत् । वरः᳚॑भिः । प्र । सिन्धु᳚॑भ्यः । रि॒रि॒चा॒नः । म॒हि॒॑त्वा ॥
सायणभाष्यम् (Sayana Commentary)
हे स्तोतः त्वं नृतमं नेतृतममिन्द्रं स्तव। स्तुहि। यस्येन्द्रस्य मह्ना महत्त्वम्। विभक्तिव्यत्ययः। रोचना परेषां तेजांसि विबबाधे विबाधते। अभिभवतीत्यर्थः। वि ज्मः पृथिव्याश्चान्तान्पर्यन्तानभिभवति। यश्चेन्द्रश्चर्षणीर्धृन्मनुष्याणां धर्ता सिन्धुभ्यः समुद्रेभ्योऽपि महित्वा महत्त्वेन प्र रिरिचानः प्रवर्धमानश्च सन् वरोभिस्तमसाम् वरकैस्तेजोभिरा पप्रौ द्यावापृथिव्यावापूरयति॥१॥