श्रवणम्

10.89.3
स॒मा॒नम᳚स्मा॒ अन᳚पावृदर्च क्ष्म॒या दि॒वो अस᳚मं॒ ब्रह्म॒ नव्य᳚म् ।
वि यः पृ॒ष्ठेव॒ जनि᳚मान्य॒र्य इन्द्र᳚श्चि॒काय॒ न सखा᳚यमी॒षे ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । अ॒स्मै॒ । अन᳚प॑वृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस᳚मम् । ब्रह्म᳚ । नव्य᳚म् ।
वि । यः । पृ॒ष्ठा॑इ᳚व । जनि᳚मानि । अ॒र्यः । इन्द्रः᳚ । चि॒काय᳚ । न । सखा᳚यम् । ई॒षे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः त्वं समानं मया सहानपावृदपगतिरहितं क्ष्मया दिवो दिवः पृथिव्याश्चासममत्यनत्मतिरिक्तम्। महदित्यर्थः। नव्यं नवतरमन्यैरकृतपुर्वं ब्रह्मस्तोत्रमस्मा इन्द्रायार्च। उच्चारय। य इन्द्रो जनिमानि यज्ञे यज्ञे जातानि पृष्थेव पृष्ठसंज्ञकानि स्तोत्राणीवार्योऽरीञ्शत्रून्वि चिकाय विचिनोति सखायं च नेषे निच्छति॥३॥